________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १०५. २८२
तच्छुक्लध्यानयोगेन सूक्ष्मादौ सांपरायिके । स्थित्वा स्थाने ददाहायं मोहनीयं विशेषतः ' ॥ २८२॥ ततः क्षीणकषायाख्यस्थाने स्थित्वा सधीरधीः । ध्यानमेकत्ववीचारं द्वितीयं शुक्लमाश्रितः ॥ २८३ ॥ अयमेकत्ववीचारध्यानयोगेन सत्वरम् । अन्तरायं निहन्ति स्म कर्म चावरणद्वयम् ॥ २८४ ॥ सयोगिस्थानमाप्तस्य मेदज्जाख्यमुनेररम् | केवलज्ञानमुत्पन्नं लोकालोकावलोकनम् ॥ २८५ ॥ ' केवले च समुत्पन्ने मेदज्जस्य महामुनेः । प्रापुर्वन्दारवः साधुं चतुर्भेदा दिवौकसः २८६ ॥ ज्ञात्वा देवागमं साधोः कौशाम्बीनगरीभवः । गन्धर्वानीकनामायमाजगाम निजान्वितः ॥ २८७ ॥ तिलक श्रीरपि क्षिप्रं आर्थिका भक्तितत्परा । प्राप्ता केवलिनं नन्तुं सिंहवाहनसाधुना ॥ २८८ ॥ नागदत्त चरः पुत्रो भक्तिहृष्टतनूरुहः | अच्युतेन्द्रोऽपि संप्राप नन्तुं केवलिनं तदा ॥ २८९ ॥ नत्वा केवलिनः पादौ धर्मं श्रुत्वा जिनोदितम् । स्वर्गापवर्गसंप्राप्तेः कारणीभूतमञ्जसा ॥ २९० ॥ 10 नाथ किं कारणं ब्रूहि तव साधोऽपि रक्षितौ । नूनमङ्गारदेवेन चोपसर्गः प्रवर्तितः ॥ २९९ ॥ इदं पप्रच्छ राजेन्द्रः कौतुकव्याप्तमानसः । गन्धर्वानीकनामायं सुरासुरपुरस्सरम् ॥ २९२ ॥ गन्धर्वानीकभूपस्य निशम्य वचनं वरम् । जगाद केवली चास्य चोपसर्गस्य कारणम् ॥ २९३ ॥ नरेन्द्रवचनं श्रुत्वा केवली निजगाद तम् । विद्यते वैरसंबन्धो राजंस्तस्य मया सह ॥ २९४ ॥ इहैव भरतक्षेत्रे जम्बूद्वीपोपलक्षिते । अङ्गकाख्यमहादेशो विद्यते जनसंकुलः ॥ २९५ ॥ 15 तत्र चम्पापुरी रम्या विद्यते परमोत्सवा । अस्यां बभूव भूपालोऽभयवाहननामकः ॥ २९६ ॥ विद्यते तन्महादेवी पुण्डरीकाभिधा परा । महाधनसमायुक्तस्तच्छ्रेष्ठी स्पटहस्तकः ॥ २९७ ॥ सोsहं पूर्वभवे राजन् कान्ता नागवसूर्मम । पुत्रो गरुडदत्तोऽस्यां नागदत्तः कनिष्ठकः ॥ २९८ ॥ हस्त्यश्वादीनि युग्मानि सौवर्णानि बहून्यलम् । स्थापयित्वा गृहे लोभात् प्रस्थितो वार्धियात्रया ॥ २९९ ॥ वार्धिमध्ये निमग्नेऽस्मिन् यानपात्रे मृतिं गतः । भण्डागारे निजे राजन् जातः सर्पोऽतिदारुणः॥३००॥ 20 अप्रमत्ततया तत्र रक्षन् द्रव्यं दिवानिशम् । ददामि तन्न कस्यापि गृहीतं स्तोकमप्यलम् ॥३०१ || हतो गरुडदत्तेन निजपुत्रेण भूतले । चतुर्थनरकं जातो' दशसागरजीवितम् ॥ ३०२ ॥ गरुडोपपदो दत्तः कालं कृत्वा समाधिना । पूर्वोक्तनरकं प्राप्तो दशवारिधिजीवितम् ॥ ३०३ ॥ चतुर्थनरकादेत्य वृषभावर्तपर्वते । गन्धहस्ती समुत्पन्नो नगोत्तुङ्गो महारदः ॥ ३०४ ॥ यूथेन सह तत्राहं रममाणो निजेच्छया । मन्दं मन्थरगामी च तिष्ठामि नरकुञ्जर ॥ ३०५ ॥ ततो गरुडदत्तोऽपि निःसृतः स कथंचन । व्याधोऽभूत् काकजङ्घाख्यस्तद्गिरौ भीमविग्रहः ॥३०६॥ अनेन विहतो राजन् दन्तार्थं स करी रुषा । त्रिकूटपर्वते जातः कीचकाख्यो विहंगमः ॥ ३०७ ॥ वनदावे कृतेऽनेन' काकजङ्घन पापिना । दग्धोऽसौ कीचकः पक्षी 'वरकश्चित्रभानुना ॥ ३०८ ॥ वार्धिविन्यानदीतीरे मुक्ताकारे समौक्तिके । बभूव कर्कटः पापो नीडजोऽसौ बृहन्मुखः ॥ ३०९ ॥ कालेन पञ्चतां प्राप्य स निषादः प्रचण्डधीः । कुरुविल्लाभिधे ग्रामे संजातो मीनबन्धकः ॥ ३९० ॥ 30 तेन मीनारिणा भूयो हरंस्तन्मौक्तिकानि सः । कुरुविलो हतः क्षिप्रं महाकोपविधायिना ॥ ३११ ॥ उत्तरापथदेशे यशोऽम्बुदावर्तपर्वते । जानकसिंगलग्रामे करभाख्योऽश्वपालकः ॥ ३१२ ॥ सोऽपि पञ्चत्वमासाद्य मीनवञ्चनकारकः । तदश्वयूथमध्येऽभूद् दुष्टशीलस्तुरंगमः ॥ ३१३ ॥ कदाचिन्मुनिसामीप्यं संप्राप्य करभोऽश्वपः । जैनं धर्मं स जग्राह पापोपशमकारणात् ॥ ३१४ ॥ करभं सुप्तमालोक्य जिनधर्मपरायणम् । दन्तैर्गले समादाय जघान स तुरङ्गमः ॥ ३१५ ॥
25
२६६
1 ज मोहनीयमशेषतः 2 पफ चतुष्कुलकम् ज चतुः कुलकमिदम्. 3 [ साधोरपि क्षितौ ]. 4 पफ त्रिकलम्, जत्रिकलमिदम् 5 [ यातो ]. 6 पफ मन्दमन्थर 7 पफ वनदावकृतोऽनेन 8 [ वराकश्चित्र ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org