________________
-१०५. २८१]
हस्तकश्रेष्ठिकथानकम् अवाचि भभुजा साधुः पूर्वसंबन्धकारणम् । कथयाशु मम स्पष्टं येन संपद्यते सुखम् ॥ २४९ ॥ उक्त्वा तत्पूर्वसंबन्धं तदा पूर्व विधानतः । दिव्यरूपं निजं देवो दर्शयामास भूपतेः ॥ २५० ॥ देवरूपं समालोक्य ववंशस्थितिमेव च । जगाम विस्मयं राजा संसदा सह सादरम् ॥ २५१ ॥ दृष्ट्वाऽतिशयमीदृशं भूपो भूपजनान्वितः । मेदजश्रेष्ठिसामीप्यं जगाम सुकुतूहली ॥ २५२ ॥ तस्मिन् नरेश्वरे प्राप्त समस्तजनसंगते । देवो बभाण तद्वृत्तं वकीयं च यथाक्रमम् ॥ २५३ ॥ 'स्फटहस्तादिकं सर्वं मेदज्जस्य भवान्तरम् । स्वकीयं च जगौ देवो जनभूपालसाक्षिकम् ॥२५४॥ श्रुत्वा निजभवं श्रेष्ठी संसारत्रस्तमानसः । महावैराग्यसंपन्नो बभूव क्षणमात्रतः ॥ २५५॥ प्राचीनवज्रिणा श्रेष्ठी क्षीरोदजलपूरितैः । अष्टोत्तरशतैः कुम्भैः स्नापितः कानकैस्तदा ॥ २५६ ॥ मेदजोऽपि वपुत्रस्य श्रीदत्तस्य महात्मनः । श्रेष्ठिपट्ट बबन्धोच्चैस्तदानीं भूपसाक्षिकम् ॥२५७॥ राजादिकस्य लोकस्य कृत्वा त्रेधा क्षमापणम् । श्रीधर्मगुरुसामीप्ये मेदज्जोऽशिश्रियत् तपः ॥२५८॥ ० तिलकश्रीस्तथा साध्वी कीर्तिषेणासमन्विता । द्वात्रिंशच्छ्रेष्ठिसद्भार्याः सुव्रतान्ते प्रवव्रजुः ॥२५९॥ सिंहवाहनभूपालो विषवाहनसूनवे । दत्त्वा राज्यश्रियं सर्वां सामन्तादिपुरस्सरम् ॥ २६०॥ महावैराग्यसंपन्नः सामन्तान्तःपुरान्वितः । श्रीधर्मगुरुसामीप्ये दधौ दैगम्बरं तपः ॥ २६१॥ बन्धुकृत्यं विधायास्य यत्नेन महता भुवि । ययौ प्राचीनवज्री च कृतकृत्यो निजां दिवम् ॥२६२॥ अवगाह्य श्रुतं साधुर्मेदज्जः स्थिरमानसः । बभ्रामैकविहारी स समस्तवसुधातलम् ॥ २६३॥ 15 अन्यदा विहरन् क्वापि मेदज्जः स मुनिः क्रमात् । कौशाम्बीनगरी प्राप पताकावलिराजिताम् ॥२६४॥ अस्यां बभूव भूपालो गन्धर्वानीकनामकः । अङ्गारदेवनामास्य कलादः कुशलः क्षितौ ॥ २६५ ॥ मणिभिः पद्मरागाद्यैः स्वकरोद्योतिताम्बरैः । कुर्वन् मकुटमेतस्य भूपतेः स वितिष्ठते ॥ २६६ ॥ गृहमङ्गारदेवस्य रममाणो निजेच्छया । काकतालीययोगेन संप्रापच्च शिखाबलः ॥ २६७ ॥ गृहाट्टहान्तरं भ्राम्यन् मेदज्जाख्यो महामुनिः । तत्कलादगृहं प्राप प्रलम्बितभुजद्वयः॥ २६८॥ 20 दृष्ट्वा स्वगृहमायातं चर्यामार्गेण योगिनम् । मन्दं मध्याह्नवेलायां कलादो निष्टपान्मुनिः ॥२६९॥ अत्रान्तरे प्रभादीतं पद्मरागमणिं परम् । शिखी जग्राह तं गृह्णन् मुनिनाऽयं विलोकितः ॥२७०॥ यावदायाति वेगेन तं प्रदेशं मणीच्छया । तावदङ्गारदेवोऽपि न पश्यति मणि क्वचित् ॥ २७१॥ अपश्यंस्तं मणिं सोऽपि साधुं पृच्छति सत्वरम् । दृष्टो मणिस्त्वया क्वापि प्रदेशेऽत्र वद प्रभो ॥२७२॥ मुनिर्मौनव्रती भूयः पृष्टोऽनेन प्रपञ्चतः । सकुटुम्बोऽपि यास्यामि पञ्चतां मण्यभावतः ॥ २७३ ॥ 25 तस्माद्भूहि प्रयत्नेन गृहीतः केन तं मणिम् । कृत्वा प्रसादमुत्तुङ्गं त्वद्भक्तस्य मम प्रभो ॥ २७४॥ यदा पृष्टोऽप्ययं साधुन किंचिद्वक्ति मौनतः। तदा कोपेन तेनास्य कृता घातादिकाः क्रियाः ॥२७५॥ यष्टिघातं मुनेरस्य ददतः क्रूरचेतसः । मयूरगलसंलग्नस्तद्धातो दैवयोगतः ॥ २७६ ॥ ततो यष्टिप्रहारेण शिखाबलगलादरम् । पद्मरागमणिः सोऽयं निर्गत्य पतितो भुवि ॥ २७७॥ उपसर्गावसाने च तत्कलादगृहादरम् । अकृताहारसंबद्धो निर्जगाम स धीरधीः ॥ २७८॥ कौशाम्बीकापुरं लग्नं देवपादाभिधं गिरिम् । आरुरोह समुत्तुङ्ग मेदज्जाख्यो मुनिस्तदा ॥ २७९॥ यावजीवं विधायात्र शरीराहारपूर्वकम् । नियमं स मुनिर्धारः कायोत्सर्गेण तस्थिवान् ॥ २८०॥ एवं स्थित्वा मुनिस्तत्र क्षपकश्रेणिकारणात् । आद्यं पृथक्त्ववीचारं शुक्लध्यानं प्रविष्टवान् ॥२८॥
1 [स्पटहस्तादिकं]. 2 पफ युग्मम् , ज युगलमिदम्. 3 ज°मायान्तं. 4 [ कलादोऽतिष्ठिपन्मुनिम् ]. 5 [केन सो मणिः]. 6 [°संबन्धो].
वृ. को. ३४ Jain Education International For Private & Personal Use Only
www.jainelibrary.org