________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १०५. २१७
युष्मदीयेऽस्मदीये च वंशे यः कुलसंततिम् । जानाति स भवेन्नूनं मेदज्जो वणिजां पतिः ॥२१७॥ यस्त्विमां संततिं भूप न जानाति सभान्तरे । तस्य धूर्तस्य चाद्यैव कर्तव्यो निग्रहस्त्वया ॥२१८॥ देवश्रेष्ठवचः श्रुत्वा नरेन्द्रो निजगावमुम् । एवं भवतु साधूक्तं भवतामपि संगतम् ॥ २१९ ॥ ततोऽवाचि नरेन्द्रेण मेदज्जो वणिजां पतिः । सांप्रतं नियमं श्रेष्ठिन् ब्रूहि मत्कुलसंततिम् ॥ २२० ॥ ' इदं भूपेन संपृष्टः श्रेष्ठी मेदञ्जनामकः । भूपस्य चात्मनश्चापि न विवेद कुलान्वयम् ॥ २२९ ॥ मूकभावं समासाद्य स्थिते मेदजवाणिजे । देवश्रेष्ठ ततोऽवाचि भूभुजेदं सभान्तरे ॥ २२२ ॥ सांप्रतं परमार्थेन मद्वशं त्वं निवेदय । येन जाजायते तोषो मम सभ्यजनस्य च ॥ २२३ ॥ निशम्य भूपतेर्वाक्यं देवश्रेष्ठी जगावमुम् । आकर्णयैकचित्तेन त्वद्वंशं कथयाम्यहम् ॥ २२४ ॥ जर्जयन्तो नराधीश प्रथमोऽभवदन्वये । बभूव साधितारातिः श्रीमदुज्जयिनीपतिः ॥ २२५ ॥ तत्सुतोऽरिंजयो जातस्तत्पुत्रोऽपि च धीरजः । तत्पुत्रोऽपि जयन्तोऽभूत् तत्सुतश्चक्रनामकः ॥ २२६॥ तत्सुतोऽप्युञ्जयो नामा ततो मेघंजयः सुतः । तत्पुत्रश्चक्रवर्ती च मेघवाहस्ततोऽङ्गजः ॥ २२७ ॥ अधुना त्वं नराधीश मेघवाहननन्दनः । सिंहवाहननामा च जातः सिंहपराक्रमः ॥ २२८ ॥ एते त्वद्वंशजा भूपा नरवृन्दारकस्तुताः | जिनधर्मं समादाय बभूवुः श्रमणा मुदे ॥ २२९ ॥ केचित् स्वर्गं परिप्राप्ताः सुरदेवमनोरमाः । केचिच्च क्षीणकर्माणो मोक्षं बाधाविसर्जितम् ॥२३०॥ त्वद्वंशजातभूपानां परिपाट्या मदन्वये । बभूव मानवो नाम राजश्रेष्ठी महाधनः ॥ २३१ ॥ सुतो महेन्द्रदत्तोऽस्य तस्याप्यक्षोभनामकः । जातो धनपतिस्तस्मात् स्वर्णदत्तः सुतस्ततः ॥ २३२॥ इन्द्रदत्तस्ततो जातो दत्तान्तः सागरादिकः । वरुणोपपदो दत्तो मेघदत्तस्ततः सुतः ॥ २३३ ॥ मेघदत्ततनूजोऽहं मेदजाख्यो नरेश्वर । जातो भवत्प्रसादेन राज श्रेष्ठी महाधनः ॥ २३४ ॥ एते सर्वेऽपि राजेन्द्र श्रेष्ठिनस्त्वत्कुलान्वये | जिनधर्मं परिप्राप्य बभूवुः श्रमणोत्तमाः ॥ २३५ ॥ कुलवंशे नरेन्द्रस्य स्वस्यापि कथितेऽधुना । बभूव भूपतिः प्रीतस्तदा देववणिक्पतेः ॥ ततो जगाद भूपालो नरसिंहं कुधातुरः । धूर्तश्रेष्ठिनमेतं च प्राध्वंकृत्य खलाधमम् ॥ असत्यवादिनं हीनं दुष्टाचारसमन्वितम् । नरसिंह श्मशानस्थशूलिकायां निधापय ॥ २३८ ॥ ततो भूपालवाक्येन हस्तद्वयनियत्रितम् । तदा तलारसंघोऽपि शूलिकान्तं निनाय तम् ॥२३९॥ अथ मौनीश्वरं रूपं सामादाय तदन्तिकम् । संप्राप्याह तं देवो हसन् किंचित् तदग्रतः ॥ २४० ॥ श्रेष्ठिन् द्वादशवर्षाणि त्वमन्यानि च सांप्रतम् । भुंक्ष्व तावन्महाभोगान् सरसं तिलकश्रिया ॥२४१॥ साधुवाक्यं समाकर्ण्य जगौ श्रेष्ठी तदा तकम् | पाहि पाहि मुने मां हि न मे भोगैः प्रयोजनम् ॥ २४२ ॥ कारापय मुने शीघ्रं मोचनं मम येन च । तपः करोमि जैनेन्द्रं सर्वदुःखक्षयावहम् ॥ २४३ ॥ ज्ञात्वा तन्निश्चयं साधु पूर्व स्नेहार्द्रमानसः । तलारान्निजगौ योगी कोधारुण निरीक्षणः ॥ २४४ ॥ रे रे मा मारणं वत्साः कुरुतास्यापराधिनः । यावद् दृष्ट्वा सुभूपालमागच्छामि तदन्तिकात् ॥ २४५ ॥ " देवसाधुर्जगादेमं भूपालं सदसि स्थितम् । श्रेष्ठिनः सत्यभूतस्य मा कारापय हिंसनम् ॥ २४६ ॥ सुरसाधुवचः श्रुत्वा जगौ भूपोऽपि तं पुनः । दोषं राजसभामध्ये प्राप्तोऽयं किं न हन्यते ॥ २४७॥ निशम्य भूपतेर्वाक्यं देवसाधुर्जगावमुम् । सोऽहं येन कुलोत्पत्तिः कथिता तव भूपतेः ॥ २४८ ॥
२३६ ॥
२३७ ॥
10
10
15
20
25
२६४
1 पफ त्रिकलम् ज त्रिकलमिदम्. 2 पफ युग्मम्, ज युगलमिदम्. 3[विवर्जितम् ]. 4 ज तस्याप्यक्षोभ्य 5 पफ नरेश्वरः. 6 पफ कुलकम् ज कुलकमिदम्. 7 पफ कुलकम् ज कुलकमिदम्. 8 [ संप्राप्याह च तं ]. 9 पफ युग्मम् ज युगलमिदम्. 10 पफ वस्साः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org