________________
-१०५. २१६ ] हस्तकश्रेष्ठिकथानकम्
२६३ तिष्ठन्नेवं तदा श्रेष्ठी मेदजः सुरसाधुना । आगत्य गदितः क्षिप्रं भोगसंसक्तमानसः ॥ १८४ ॥ राजन् श्रेष्ठिन् कुतो मूढ नितरां भोगसंपदा । न करोषि तपो जैनं महाविभवकारणम् ॥ १८५॥ निशम्य तद्वचः श्रेष्ठी बभाणेमं पुरःस्थितम् । भोगं द्वादश वर्षाणि भुक्त्वाऽहं तिलकश्रिया ॥१८६॥ पश्चात्तपः करिष्यामि संसारोच्छेदकारणम् । भवत्पार्धं विनीतात्मा त्यक्ताशेषपरिग्रहः ॥ १८७॥ मेदजवचनं श्रुत्वा भोगयाचनतत्परम् । एवमस्त्विति संभाष्य ययौ शको निजास्पदम् ॥१८८॥ गतेषु द्वादशाब्देषु भुञ्जानस्यास्य संपदम् । आगत्य तत्समीपं च जगादैतं सुराधिपः ॥१८९॥ तद्वाक्यतः पुनः प्राह मेदजं सुरकुञ्जरम् । देहि द्वादशवर्षाणि ममान्यानि सुखं प्रति ॥ १९०॥ इन्द्रस्तस्योपरोधेन भोगसंसक्तचेतसः । जगाम निजमावासं तद्गुणाकृष्टमानसः ॥ १९१ ॥ मेदजोऽपि तया सार्धं सरसं तिलकश्रिया । मनसः प्रियया भोगं भुञ्जानो व्यवतिष्ठते ॥१९२॥ भूयः समाप्तिमाप्तेषु वर्षेषु द्वादशात्मसु । संप्राप्य स सुराधीशः प्राहेमं भोगलोलुपम् ॥ १९३ ॥ ॥ मेदज सांप्रतं मूढ कुरु जैनं तपोऽमलम् । नाकापवर्गसौख्यानि येन सन्ति तव स्फुटम् ॥१९४॥ शक्रवाक्यं समाकर्ण्य मेदजो निजगावमुम् । भूयो द्वादश वर्षाणि देहि मे तत्सुखं प्रति ॥१९५॥ इन्द्रस्तदुपरोधेन दत्त्वा तावन्मितानि सः । जगाम प्रीतचेतस्को निजनाकं महामनाः ॥ १९६ ॥ पूर्णेषु द्वादशाब्देषु देवः संप्राप्य तं जगौ । मेदज कुरु जैनेन्द्रं तपो निवृत्तिकारणम् ॥ १९७॥ देववाक्यं समाकर्ण्य मेदज्जोऽमरकुआरम् । बभाण भासुराकारः कोपलोहितलोचनः॥ १९८॥5 कोऽसि त्वं वद किं नाम व वास्तव्यो महान् किल। भूयो भूयोऽपि मां प्राप्य येनेदं भाषसे बुध ॥१९९ हित्वा देवोपमान् भोगान् नग्नत्वेन करोमि किम् । गृहसिद्धन को नाम भिक्षांभ्रमति मूढधीः॥२०॥ आकर्ण्य तद्वचो देवो दध्यौ मनसि धीरधीः । महाकामग्रहग्रस्तो भोगान् हृद्यान्न मुञ्चति ॥२०१॥ तथा करोम्यहं किंचित् कार्यं जगति तद्धितम् । तपस्यति यथाऽयं हि भोगनिःस्पृहमानसः॥२०२॥ चिन्तयित्वा चिरं देवस्तद्रूतग्रहणेच्छया । बभूव विह्वलीभूतमानसप्रसरः क्षणम् ॥ २०३ ॥३॥ ततोऽन्यस्मिन् दिने जाते मेदजश्रेष्ठिनि द्रुतम् । नरेन्द्रसेवया याते भूपालभवनं प्रति ॥ २०४ ॥ अथान्तरे गृहद्वारे तदीये पुरुषान्निजान् । गृहीतसायकवातान् स्थापयित्वा भयानकम् ॥ २०५॥ मेदजरूपमादाय तत्समानाकृति द्रुतम् । आखण्डलो विवेशासौ तहान्तरमादरात् ॥ २०६ ॥ आदाय तत्परीवारमन्तःपुरधनादिकम् । तदाकृतिधरो देवस्तस्थौ मुदितमानसः ॥ २०७॥ एवं तत्र स्थिते देवे मेदजः प्राप्य भूपतिम् । विशन् स्वमन्दिरद्वारं निषिद्धो द्वारपालकैः ॥२०८॥ अस्मिन् गृहान्तरे श्रेष्ठिन् मा प्रवेशं विधत्स्व भोः । आस्ते ममाधिपो भोगं भुञ्जानस्तिलकश्रिया २०९ स्वगृहाभ्यन्तरं गन्तुं लभमानो न तन्नरैः । राजान्तिकं जगामाशु मेदजो विस्मयाकुलः ॥२१०॥ मेदज्जोऽपि नृपं प्राप्य जगादेमं सविस्मयः। महान्तरमाविश्य कोऽपि धूर्तः स्थितो नृप ॥२११॥ स्वगृहेऽलभमानोऽहं प्रवेशं नरकुञ्जरः । त्वदन्तिकं परिप्राप्तस्तद्भयाकुलमानसः ॥ २१२ ॥ तद्वाक्यतः समाहूतो देवश्रेष्ठी महीभुजा । आगत्य स्वोचितस्थाने निविष्टो भूपचोदितः ॥ २१३॥" अनयोः श्रेष्ठिनोर्मध्ये समानाकारधारिणोः । मेदजो निश्चयं कर्तुं न शशाक महीपतिः ॥२१४॥ ततो योषं समादाय विस्मयव्याप्तमानसः । सभ्यैः समं सभान्तस्थः संशयी स वितिष्ठते ॥२१५॥ नृपं ततोऽमरश्रेष्ठी सचिवादिसमन्वितम् । जगौ तदा सभाध्यक्ष खनादापूरिताम्बरः ॥ २१६ ॥
___ 1 पफ युग्मम् , ज युगलमिदम्. 2 पफ त्रिकलम् , ज त्रिकल मिदम्. 3 पफ युग्मम् , ज युगलमिदम्. 4 [ नरकुञ्जर ]. 5 [ जोषं ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org