________________
२६२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१०५. १५१यदि द्वादशवर्षाणि भुक्त्वा भोगान् समं तया । ततः प्रव्रजसि क्षिप्रं कनकारों ददामि ते ॥१५॥ मेदजोऽपि समाकर्ण्य पुरन्दरमुनेर्वचः। अवादीत् तं विनीतात्मा तत्कन्याहृतमानसः ॥ १५२॥ जायते यदि मे साधो तिलकश्रीसमागमः । ततस्तद्वचनं सत्यं करोमि शिरसा द्रुतम् ॥ १५३॥' मेदज्जस्योदितं श्रुत्वा कन्याकुलितचेतसः । आखण्डलमुनिः प्राह तद्गुणाकृष्टमानसः ॥१५४ ॥ । सन्मार्जनादिकं साधु कारयित्वा स्वसद्मनः । सिते प्रसारित वस्त्रे वर्णार्चा गच्छति प्रखात् ॥१५५॥ एवं निगद्य कक्षस्थं मेदजं पाकशासनः । जगाम स्वालयं तूर्णं तद्गुणध्यानतत्परः ॥ १५६॥ गते पुरन्दरे सोऽपि वृक्षादुत्तीर्य वेगतः । तोषपूरितचेतस्को जगाम निजमन्दिरम् ॥ १५७ ॥ शक्रोदितेन तेनापि स्वगृहे गगनान्ततः । सितवस्त्रोपरि क्षिप्रं कानकं प्रापि तत्प्रखात् ॥ १५८ ॥ मेदजस्तां समादाय भवश्रीषेणमाप्य सः । बभाण विस्मितस्वान्तः पुलकाञ्चितविग्रहः ॥ १५९ ॥ ॥ कनत्कनकनिर्माणां गृहीत्वा प्रतियातनाम् । सांप्रतं मातुल क्षिप्रं देहि मे तिलकश्रियम् ॥१६०॥ निशम्य तद्वचः श्रेष्ठी दृष्ट्वाऽाँ कानकी पुरः । विस्मयव्याप्तचेतस्को जगादैतं कृतस्मितः ॥१६१॥ क्षीरोदवारिधिं भद्र यद्यानयसि सत्वरम् । ततोऽहं कन्यकां तेऽलं ददामि तिलकश्रियम् ॥१६२॥ तद्वाक्यतः परिप्राप्य मातरं स्नेहवत्सलाम् । बमाणैतां विनीतात्मा तिलकश्रीसमुत्सुकः ॥ १६३ ॥ मातर्मातुलको वक्ति यदि त्वं क्षीरवारिधिम् । आनयसि मदाभ्याशं तन्वी दास्यामि ते सुताम् ॥१६४॥ 15 सुतवाक्यं समाकर्ण्य जगादेमं तदम्बिका । अन्यां कन्यां वृणीष्व त्वं पुत्र कस्यापि शोभनाम् ॥१६५॥
अस्माकमरिरूपोऽसौ छिद्रान्वेषणतत्परः । ददाति किं निजां कन्यां दुष्टचित्तः स ते वद ॥१६६॥' मन्मामो याचते यावत्प्रमाणां प्रतियातनाम् । कार्तस्वरमयीं साधो सा मे नास्ति कियत्यपि ॥१६७॥ इन्द्रस्तगिरमाकर्ण्य तत्सिद्ध्यर्थं मुदा ददौ । चिन्तामणिमथानेन कुरु त्वमभिवाञ्छितम् ॥१६८॥ ततो गत्वा वनात् प्रोक्तो मामोऽनेन ददामि ते । यत्किंचिद्याचसे नूनं किमन्यैः परिभाषितैः॥१६९॥ " भागिनेयवचः श्रुत्वा श्रेष्ठी तं निजगौ तदा । क्षीरोदमानय क्षिप्रं येन पश्यामि तं पुनः ॥१७०॥ श्रेष्ठिवाक्येन तेनापि गत्वा तद्भवने पुनः । चिन्तामणिकरेणाशु जल्पितं तारनादतः ॥ १७१॥ भो भो क्षीरसमुद्र त्वं भवश्रीषेणमन्दिरम् । आगच्छ त्वरितं श्रेष्ठी येन त्वां पश्यति ध्रुवम् ॥१७२॥ श्रुत्वा तन्निनदं श्रव्यं महारवसमन्वितः । पर्वतोन्नतकल्लोलः शङ्खवर्णजलौघकः ॥ १७३ ॥
महाजलप्लवेनायं प्लावयन्नगरीमिमाम् । क्षीरवाधिस्तदाऽऽगन्तुं प्रवृत्तो वातचञ्चलः ॥ १७४॥ 23 दृष्ट्वा क्षीरसमुद्रं तं प्लावयन्तं जलैः पुरीम् । मेदजश्रेष्ठिनं प्राह सप्रणामं जनोऽखिलः ॥ १७५ ॥
दृष्टो भवत्प्रतापोऽयमस्माभिर्न च कस्यचित् । अस्मान् बाह्यधुना नाथ क्षीरवारिधिनीरतः ॥१७६॥ ततस्तद्वचनात् तेन चिन्तामणिनिवारितः । स्वस्थावस्थो बभूवायं तदानीं क्षीरवारिधिः ॥१७७॥ तस्मिन् क्षीरोदधौ तेन मेदजेन निराकृते । विज्ञातोऽयं महान् कोऽपि पुरुषः सकलैनरैः ॥१७८॥ विद्यासामर्थ्यमेतस्य प्रविज्ञाय स मातुलः । ददावस्मै महाभूत्या स्वसुतां तिलकश्रियम् ॥१७९॥ " महाविभतियोगेन श्रीमदुजयिनीपतिः। कीर्तिषेणां ददावस्मै स्वकन्यां श्रीसमप्रभाम् ॥ १८० ॥ रूपलावण्यसंपन्ना द्वात्रिंशत् कन्यकाः पराः । परिणीतास्तथाऽनेन राजश्रेष्ठिसमुद्भवाः ॥ १८१ ॥ राजश्रेष्ठिमहापर्ट प्राध्वंकृत्य महीपतिः। पूजयामास तं वीरं मेदजं वरसंपदा ॥ १८२ ॥ एताभिर्वरनारीभी रूपराजितमूर्तिभिः । मेदज्जो बुभुजे भोगान् दिनानि कतिचिन्मुदा ॥१८३॥
1 पफ युग्मम् , ज युगलमिदम्. 2 पफ युग्मम् , ज युगलमिदम्. 3 पफ युग्मम् , ज युगलमिदम्. 4 पफ युग्मम् , ज युगलमिदम्. 5 पफ युग्मम् , ज युगलमिदम्. 6 पफ युग्मम् , ज युगलमिदम्. 7 पफ युग्मम्, ज युगलमिदम्. 8 पफ युग्मम्, ज युगलमिदम्. 9 पफ युग्मम्, ज युगलमिदम्,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org