________________
- १०५. १५० ]
हस्तकश्रेष्ठिकथानकम्
२६१
१२० ॥
१२१ ॥
१२८ ॥ ७
१२९ ॥
१३० ॥
अवन्त्याख्यमहादेशे श्रीमदुज्जयिनी पुरी । अस्यां सिंहबलो राजा श्रीषेणाऽस्य च कामिनी ॥ ११९ ॥ रूपराजितसर्वाङ्गी नीलोत्पलदलाम्बका । कीर्तिशुश्रीकृताकाशा कीर्तिषेणा सुताऽनयोः ॥ बभूव भूपतेरस्य श्रेष्ठी बहुधनान्वितः । 'सुबन्धुर्बन्धुसंपन्नो धनश्रीरस्य गेहिनी ॥ जाम्बूनदविमानेशो भवदेवचरोऽमरः । च्युत्वा सनत्कुमारात् स धनश्रीगर्भमाययौ ॥ तस्मिन् गर्भस्थिते सर्वे बान्धवा जनकादयः । कालगोचरतां प्राप्ता युगपद्दुःखपीडिताः ॥ मृतेषु तेषु सर्वेषु बान्धवेष्वसुखार्दिताः । धनश्री गर्भिणी प्राप तदा सिप्रानदीतटम् ॥ तत्रस्था रोदनं दीना धनश्रीः कुर्वती तराम् । मेदामहानरेणाशु पर्वतेन विलोकिता ॥ ततः स्वसारमाभाष्य पर्वतेन स्वमन्दिरम् । नीता कृपावता शीघ्रं धनश्रीः प्रेमकारिणा ॥ धनश्रीस्तगृहे दीना प्रसूता दारकं शुभम् | 'मेदजनामसंयुक्तो ववृधेऽसौ शनैः शनैः ॥ भ्राता धनश्रियः श्रेष्ठी भवच्छ्रीषेणनामकः । बन्धुरस्या महानेष स परं क्रूरमानसः ॥ नागश्री प्रिया हृद्या तत्सुता रूपशालिनी । तिलक श्रीरिति ख्याता सर्वस्त्रीतिलका भुवि ॥ एषा पूर्वभवे नूनमासीन्नागवसूर्भुवि । कुमारः सत्कुमारोऽयं मेदजः स्फुटहस्तकः ॥ पठतोर्लेखशालायां 'मेदज्जतिलकश्रियोः । पूर्वस्नेहानुरागेण बभूव प्रीतिरुन्नता ॥ १३१ ॥ अन्यदा मधुमासे च संप्राप्ते श्रेष्ठमन्दिरे । हिन्दोलके विरूढौ तौ मेदज्जतिलकश्रियौ ॥ १३२ ॥ हिन्दोलनं प्रकुर्वन्तौ हृष्टौ तौ श्रेष्ठिनं रुषा । आहत्य निजपादेन 'दोलातोऽयं वियोजितः ॥ १३३ ॥ " म्लेच्छविट्टालितः शीघ्रं त्वं यासि मम मन्दिरात् । पल्लिं जगाम तद्वाक्यान्मेदजो मातरं प्रति ॥ १३४ ॥ किंवदन्ती च सा तेन स्वमातुः पर्वतस्य च । कथितां वा समाकर्ण्य दुःखितौ तौ बभूवतुः ॥ १३५ ॥ श्रीमदुज्जयिनीं प्राप्य मेदजो निजमातुलम् । भवश्रीषेणनामानं ययाचे तत्सुतामिमाम् "मेदजवचनं श्रुत्वा महाग्रहसमन्वितम् । भवश्रीषेणनामेमं जगादेति धनातुरः ॥ तिलक श्रीप्रमाणां त्वं स्वर्णस्य प्रतिमां यदि । देहि मे नियतं भद्र ततो यच्छामि तेऽङ्गजाम् निशम्य मातुलस्योक्तं लोभदूषितचेतसः । संप्राप्य मातरं प्राह मेदजः पुरतः स्थिताम् तिलकश्रीसमं दिव्यं जातरूपं महाप्रभम् । याचते मां तव भ्राता सोपरोधं सगौरवम् पुत्रवाक्यं समाकर्ण्य धनश्रीर्निजगावमुम् | त्वत्पिता निहतोऽनेन गृहीतं धनमप्यदः ॥ अहं दुःखभराक्रान्ता मेदपलिं समाश्रिता । तिलकश्रीसमं स्वर्णं कुतः प्राप्नोमि बालकः ॥ अम्बिकोक्ते स मेदजः प्रविश्य गहनं वनम् । महावृक्षं समारुह्य मुञ्चामि खमतः स्थितम् ॥ १४३ ॥ अत्रान्तरे सुरः पूर्वो नागदत्ताभिधानकः । तपः कृत्वाऽच्युतं प्राप्य यः प्राप" सुरनाथताम् ॥ १४४॥ मुनिरूपं समादाय मेदज्ञं प्राप्य वेगतः । नागदत्तचरः शक्रो बभाणेमं ससंभ्रमम् ॥ १४५ ॥ त्वं मेदज्ञः कुतस्तात समुत्तुङ्गमहातरुम् । अधिरुह्यामुतः क्षिप्रं मुञ्चसि त्वं तु मे वद ॥ १४६ ॥ " भगवन् यद्यहं लप्स्ये तिलकश्रियमुन्नताम् । ततो जीवाम्यहं कक्षे वाऽन्यथा यामि पञ्चताम् ॥ १४७॥ मेदज्जवचनं श्रुत्वा शक्रः साधुर्जगावमुम् । किं कारणमिमां कन्यां न प्राप्नोषि वदाशु मे ॥ १४८ ॥ * इन्द्रसाधुवचः श्रुत्वा मेदज्जोऽपि बभाण तम् । तिलकश्रीसमं स्वर्णं याचते मातुलो हि माम् ॥ १४९ ॥ मेदज्जवाक्यमाकर्ण्य कन्यायाचनतत्परम् । पूर्वस्नेहानुरागेण देवसाधुरवोचत ॥ १५० ॥
॥
१३६ ॥
॥
1 पफ सुवधुर्वधु 2 [ मेदज° ]. 3 ज ववृधे सो. 4फ नावसु. दोलान्तोऽयं. 7 [ मेदज्ज]. 8 पफ युग्मम् ज युगलमिदम्. 9 [ बालक ]. युग्मम् ज युगलम.
Jain Education International
For Private & Personal Use Only
॥
॥
१२२ ॥
१२३ ॥
१२४ ॥
१२५ ॥
१२६ ॥
१२७ ॥
१३७ ॥
१३८ ॥ -
१३९ ॥
१४० ॥
१४१ ॥
१४२ ॥
5 पफ मेदज: 6 पफ 10 ज प्राप्तः 11 पफ
-30
www.jainelibrary.org