________________
२६०
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १०५.८५
15
१०० ॥
१०१ ॥
सोऽनुभूय सुखं देवो जलकान्तविमानके । भवदेवोऽनयो रूपी कुमारोऽभवदिद्धधीः ॥ ८५ ॥ अस्यामेव पुरि श्रीमान् पद्मदेवोऽमरप्रियः । इभ्यो बभूव तद्भार्या पद्मादेवी जनप्रिया ॥ ८६ ॥ नन्दिघोषविमानेशो योऽसौ देवः सुखैधितः । जिनदेव कुमारोऽभूदेतयोः प्रीतचेतसोः ॥ ८७ ॥ पूर्वस्नेहानुबन्धेन तयोः प्रीतिरनुत्तरा । राम-लक्ष्मणयोर्यद्वद् बभूव श्रेष्ठिपुत्रयोः ॥ ८८ ॥ • अन्यदा धर्मसंयुक्तो जिनपादाब्जषट्पदः । मेरुप्रभगुरोः पार्श्वे जिनदेवोऽभवन्मुनिः ॥ ८९ ॥ क्रमेण जिनदेवोऽयं जिनागमविशुद्धधीः । महासंघाधिपो जातो धर्माख्यानपरायणः ॥ ९० ॥ पूर्वप्रेमानुबन्धेन भवदेवोऽपि निःस्पृहः | जिनदेवान्तिके दीक्षां जग्राह जिनदेशिताम् ॥ ९१ ॥ अन्यदा गुरुमापृछ्य भवदेवो महामुनिः । विहरन् क्वापि विश्रब्धः कलिङ्गविषयं ययौ ॥ ९२ ॥ ऐरावती नदीतीरे नन्दिग्रामसमुद्भवे । भवदेवोऽत्र संतस्थे तदातापनयोगतः ॥ ९३ ॥ • उपसंहृत्य तं योगं भवदेवः कदाचन । ददर्श तन्नदीतीरे स्वर्णकुम्भं धनान्वितम् ॥ ९४ ॥ आदाय तं निजस्कन्धे खात्वा भूमिं निधाय च । दत्त्वोपरि शिलां तत्र निश्चलां महतीं पुनः ॥ ९५ ॥ तद्द्रव्यरक्षणार्थं च तत्रत्यो धनतृष्णया । ददावातापनायोगं भवदेवो दिने दिने ॥ ९६ ॥' आतापनां ददात्येष तत्रत्यः प्रहरद्वयम् । भवदेवः समुत्तीर्य ततोऽसौ याति पत्तनम् ॥ ९७ ॥ तंत्र भिक्षां विधायाशु भवदेवो विशुद्धधीः । ददावातापनं योगं तत्प्रदेशे धनाशया ॥ ९८ ॥ दिने दिने दिनं सर्वं स्थित्वाऽऽतापनयोगतः । शर्वरीप्रतिमास्थोऽयं तत्रैव स वितिष्ठते ॥ ९९ ॥ एवं तपः प्रकुर्वाणमुग्रं नक्तंदिवं मुनिम् । देवीयं मन्दिरा नाम ददर्श निधिपालिका ॥ अर्जिकारूपसंपन्ना दिव्यालंकार भूषिता । हसन्ती तं जगादेति दिव्यरूपसमन्विता ॥ उग्रं तपस्त्वया साधो विहितं ननु सांप्रतम् । महीग्रामं परिप्राप्य मत्समं शर्ममानय ॥ देवीवचनमाकर्ण्य जगौ साधुरिमां रुषा । मत्समं किं खले ब्रूषे त्वं वृद्धे दुष्टमीदृशम् 20 अनूचानवचः श्रुत्वा देवता निजगावमुम् । विस्मयव्याप्तचेतस्का तच्छिक्षापणकारिणी ॥ निर्लज्जस्त्वं तरां साधो लोभदूषितमानसः । येनेदृशं व्रतं प्राप्य देवानामपि दुर्लभम् मणिरत्नादिपूर्णस्य कुम्भस्योपरि संस्थितः । तपः करोषि लोभेन संसारभयनिर्भयः ॥ देवताभारतीं श्रुत्वा प्रतिबोधपरायणः । स्वनिन्दा गर्हणासक्तो बभूव सहसा मुनिः देवतावाक्यसंबुद्धः संसारत्रस्तमानसः । जिनदेवगुरोः पार्श्वे जगामायं यतीश्वरः ॥ • आलोचनाविधिं कृत्वा प्रव्रज्यां चापि निर्मलाम् । भवदेवो बभौ योगी गुरोराचारवेदिनः ॥ जिनदेवाभिधानेन निजेन गुरुणा सह । अयनाख्यपुरं प्राप भवदेवो विशुद्धधीः ॥ तत्र राजा सुकेत्वाख्यो बभूवोन्नतशासनः । प्रिया केतुमती चास्य गृहीतपतिमानसा ॥ बभूवास्य नरेन्द्रस्य सुभद्राख्यो वणिक्पतिः । श्रीदत्ता गेहिनी तस्य श्रीदत्तेव सपत्निका सर्वलोककृतानन्दः सर्वलोकमनोहरः । बभूव भुवनख्यातो भद्रबाहुः सुतोऽनयोः ॥ महाविभूतियोगेन दृष्ट्वेमं पूजितं सताम् । भवदेवश्चकारेदं निदानं मन्दबुद्धिकः ॥ ११४ ॥ पूजाविधानमीदृक्षं नियतं तपसः फलात् । अन्यजन्मनि मे पूतं भवतु प्रीतिकारणम् ॥ ११५ ॥ सनिदानं मृतिं कृत्वा भवदेवो भवप्रियः । सांसारिक सुखा संगनितान्तस्थितमानसः ॥ ११६ ॥ सनत्कुमारसंभूतजम्बूनदविमानके । बभूव भासुरो देवः सप्तसागरजीवितः ॥ ११७ ॥ आराधनां समाराध्य विधिना स चतुर्विधाम् । द्वाविंशतिसमुद्रायुर्जिन देवोऽच्युतं ययौ ॥ ११८ ॥
१०२ ॥
॥
॥
॥
॥
११३ ॥
30
Jain Education International
१०३ ॥
१०४ ॥
For Private & Personal Use Only
१०५ ॥
१०६ ॥ *
१०७ ॥
१०८ ॥
१०९ ॥
1 पफ युग्मम् ज युगलमिदम्. 2 पफ युग्मम् ज युगलमिदम्. 3 पफ युग्मम् ज युगलमिदम्. 4 पफ युग्मम् ज युगलमिदम् 5 पफ युग्मम् ज युगलमिदम्.
११० ॥ *
१११ ॥
११२ ॥
www.jainelibrary.org