________________
-१०५. ८४]
हस्तकश्रेष्ठिकथानकम् बभूवतुरुभे जाये तस्य व्याधस्य वल्लभे । दुर्गा-गङ्गाभिधे तत्र कृष्णाङ्गे रक्तलोचने ॥ ५२ ॥ ततो दुर्गाभिधानाया ज्येष्ठाया निजयोषितः । वितीर्णे सति तेनास्या मुसले दन्तपूर्वके ॥ ५३॥ एवं सति कृतेऽनेन 'गङ्गा रुष्टा कनिष्ठिका । सोदिता ते प्रभातेऽहं दास्यामीदं विनिर्ययौ ॥५४॥ ततोऽन्यदिवसे जाते धनुर्मुक्तशरेण सः । स्पटहस्तचरो हस्ती निषादेन निपातितः ॥ ५५ ॥ ततो मृतः पुनः सोऽयं त्रिकूटाख्यमहीधरे । संजातः कीचकः पक्षी पूर्वपापफलोदयात् ॥५६॥। भूयः पापड़ियातेन तद्रौि तेन पापिना । दग्धो दवाग्निना पक्षी कीचको नीडगः सकः ॥ ५७॥ ततोऽपि सिंहलद्वीपे द्रविलासन्नवर्तिनि । विन्यानदी बभूवात्र जलकल्लोलसंकुला ॥ ५८॥ मिलितेयं समुद्रस्य यत्र देशे जलोज्वले । जातः कर्कटकः पापात् पक्षिजीवः सुदुःखितः ॥५९॥ काकजङ्घाभिधो व्याधः कृत्वा कालं सुदुःखतः । संजातो धीवरः पापः कुलीरग्रामसंभवः ॥६॥ समुद्रसंगमे तस्मिन् मुक्तागारे स धीवरः । मौक्तिकानि समादातुं संप्राप्तो निजलीलया ॥ ६१॥" कृत्वा तन्मौक्तिकैः पुजं विन्याख्यसरितस्तटे । यावद्याति च सोऽन्यत्र धीवरो मौक्तिकाशया॥६२॥ तावन्निःसृत्य वेगेन कर्कटः कुहरान्तरात् । गृहीत्वा तानि सर्वाणि मौक्तिकानि बिलं ययौ ॥६३॥ मुक्त्वा बिलान्तरे तानि मौक्तिकान्यखिलान्यसौ । कर्कटोऽदर्शनीभूय तस्थावन्यत्र तोपतः॥६४॥ तत्र धीवरमुक्तानि मौक्तिकानि पुनः पुनः । गृहीत्वा तानि यात्येषः कुरुविन्नो बिलान्तरे ॥६५॥ तन्मुक्तमौक्तिकान्येष कुर्वाणो निजमन्दिरे । धीवरेण हतः कोपात् कर्कटः पञ्चतामितः ॥६६॥॥ भग्नालिविषये नूनमम्बुदावर्तपर्वते । कसंवलकनामास्ति ग्रामो जनधनान्वितः ॥ ६७॥ अभूदुत्पलको नाम ग्रामेऽमुष्मिन् कृषीवलः । भृत्यो नन्दिविलासोऽस्य तत्प्रिया कृमिकाभिधा ॥६॥ अनयोनेन्दनः कान्तः करभाख्यः स कर्कटः। धीवरोऽपि मृति प्राप्य तद्रामेऽभूत् किशोरकः ॥६९॥ अश्वयूथस्य मध्यस्थं तं किशोरं मनोहरम् । रक्षति प्रीतचेतस्को करभः करभाननः ॥ ७० ॥ किशोरमश्ववृन्दस्थं दृष्ट्वा तं पूर्ववैरिणम् । रुष्टो निहन्ति सोऽत्यर्थं करभो यष्टिलोष्टुभिः ॥ ७१ ॥" अश्वोऽपि तं छलेनोचैर्विधातोत्कलितं महत् । घनपादप्रहारेण जघान करभं रुषा ॥ ७२ ॥ एवं याति तयोः कालो वैरेण महता तदा । परस्परसमायातविह्वलीकृतचेतसोः ॥७३॥ अन्यदा चारणास्तुङ्गमम्बुदावर्तपर्वतम् । चत्वारो मुनयः प्रापुर्धर्मविन्यस्तमूर्तयः ॥ ७४॥ प्रथमोऽनन्तवीर्याख्यः परो देवोपपादिकः। अन्यः श्रीनिलयो योगी श्रीधर्मश्चेत्यमी क्रमात् ॥७५॥ विलोक्य करमः साधूंस्तत्पर्वतशिरःस्थितान् । जगाम तत्समीपत्वं करभो धर्मवाञ्छया ॥ ७६ ॥ नत्वा मुनीन् स भावेन चतुरोऽपि यथाक्रमम् । स्वभावार्जवसंपन्नस्तत्समीपे निविष्टवान् ॥ ७७॥ धर्म जिनोदितं सर्व करभः प्रीतमानसः । अनन्तवीर्यसामीप्ये जग्राह विनयानतः ॥ ७८ ॥ नत्वा मुनीन् स निर्गत्य तत्समीपादरं सुधीः । गत्वा तदश्वसामीप्यं दुर्दिने सति सुप्तवान् ॥ ७९ ॥ सुप्तं करभमालोक्य सप्तिना पूर्ववैरिणा । गले दन्तैः समादाय मारितोऽयं पदाहतः ॥ ८॥ तेनाश्वेन हतः सन् स सौधर्मे धर्मसंभवे । अभ्यन्तरसभामध्ये जलकान्तविमानके ॥ ८१॥॥ हारराजितवक्षस्कः कर्णकुण्डलशोभितः । पञ्चपल्योपमायुष्को जातो देवो महर्द्धिकः ॥ ८२॥ अङ्गकाख्यमहादेशे चम्पाख्यायां पुरि प्रभुः। विद्युद्वाहननामाभूत् तत्प्रिया विमलप्रभा ॥ ८३॥ तस्येभ्यो भवदत्ताख्यः श्रेष्ठी प्राणसमोऽभवत् । रूपयौवनसंपन्ना चास्य भद्रमतिः प्रिया ॥ ८४ ॥
. 1 ज रुष्टा गङ्गा. 2 पफ कुर्कटकः. 3 पफ युग्मम् , ज युगलमिदम्. 4 ज स दुःखतः. 5 पफ कुर्कटः, 6 पफ कुर्कटः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org