________________
२५८ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१०५. २०श्रेष्ठी भूपस्य वाक्येन प्राप्य तगोकुलं द्रुतम् । स्वगोपतिसमं तत्र न पश्यति वृषं परम् ॥२०॥ आगत्य गोकुलात् प्राप्य नरेन्द्रं वक्ति वाणिजः । मगोपतिसमस्तत्र विद्यते वृषभो न च ॥२१॥ त्वद्गोकुलेऽखिले राजन् मद्बलीवर्दसंनिभः । न दृष्टो वृषभो यावत् तेनाजातो वृषं विना ॥२२॥ आकर्ण्य तद्वचो राजा श्रेष्ठिनं निजगौ रुषा। तवाथो वृषभो भद्र कीदृशो मे प्रदर्शय ॥ २३ ॥ नरेन्द्रवचनं श्रुत्वा लुब्धश्रेष्ठी बमाण तम् । गत्वा मद्भवनं भूप गोपतिर्मम दृश्यताम् ॥ २४ ॥ भूपालः श्रेष्ठिवाक्येन तगृहं कौतुकाशया। हरिहस्त्यादियुग्मानि पश्यतीमानि तद्यथा ॥२५॥ कानिचित्कानकैर्दिव्यैः कृतानि वरशिल्पिभिः । कानिचिन्मौक्तिकैर्दिव्यैः कानिचिद्वज्रगारुडैः ॥२६॥ कानिचिच्चन्द्रकान्ताभैः कानिचिद्रविसंनिभैः । पुष्परागेन्द्रनीलैश्च मणिभिर्भान्ति कानिचित् ॥२७॥ विलोक्यैतानि युग्मानि चित्ररूपाणि तगृहे । तद्रूपहृतचेतस्को विस्मयं नृपतिर्ययौ ॥ २८ ॥ ॥ पश्चाजातीप्रसूनाभपद्मरागविनिर्मितम् । ददर्श भूपती रम्यं वृषभं मूल्यवर्जितम् ॥ २९ ॥ दृष्ट्वेमं वृषभं रम्यं विस्मयव्याप्तमानसः । बभाण श्रेष्ठिनं तत्र तोषकण्टकिताङ्गकः ॥ ३० ॥ त्वदलीवर्दसंकाशो मदृषो न कदाचन । मयेदमधुना ज्ञातं बहुना जल्पितेन किम् ॥ ३१ ॥ नितान्तं षड्रसोपेतं स्वर्णपात्रादिषु स्थितम् । चकार भोजनं भूप महे' प्रीतमानसः ॥ ३२॥
सुवर्णपात्रिकां भृत्वा नानारत्नैः प्रभोज्वलैः । तत्प्रिया नागवस्वाख्या लुब्धष्ठिकरे ददौ ॥ ३३॥ ॥ नानारत्नभृतां पात्रीं महारजतनिर्मिताम् । त्वं देहि नरनाथाय भार्ययाऽसौ प्रचोदितः ॥ ३४ ॥ रत्नपात्रीं समादाय प्रसारितकरद्वयः । भूपालपुरतस्तस्थौ श्रेष्ठी दानपराङ्मुखः ॥ ३५ ॥ रत्नपात्रकरं दृष्ट्वा संप्रदानपराङ्मुखम् । चक्रेऽस्यार्थीनुगं तस्य स्पटहस्ताभिधं नृपः ॥ ३६॥ इदं नाम विधायास्य सार्थकं नरकुञ्जरः । विस्मयव्याप्तचेतस्को जगाम निजमन्दिरम् ॥ ३७॥ तद्वृषार्थं महालोभगृहीतः स्पटहस्तकः। जगाम सिंहलद्वीपं बोधिस्थो यथा धनं प्रति ॥ ३८॥ ॥ चतस्रकोटिकाः प्राप्य कनकस्य स वाणिजः । वार्षिमध्ये मृतिं पाप भिन्नबोधिस्थकः सुधीः ॥३९॥ ततः स्वमन्दिरे सो बभूवायं भयंकरः । रक्षन्निजनिधिं तत्र तीक्ष्णदंष्ट्रो वितिष्ठते ॥४०॥ न कस्यचित् कदाचिच धनान्ते स्थातुमप्ययम् । ददाति दन्दशूकोऽपि भीषिताशेषजन्तुकः॥४१॥ ततो गरुडदत्तेन ज्येष्ठपुत्रेण रोषतः । निहतोऽयं गतायुः संश्चतुर्थं नरकं ययौ ॥ ४२ ॥ ततो खडखडाभिख्ये जलावते स तद्भवे । जातो दशसमुद्रायु रकः पापकर्मतः ॥ ४३ ॥ ॥ योऽसौ गरुडनामास्य ज्येष्ठपुत्रस्तुरीयके । श्वभ्रे मृतिं परिप्राप्य तदायुर्नारकोऽभवत् ॥४४॥ नागवखा समं दुःखी नागदत्तो विवेकधीः । धर्मं श्रुत्वा मुनेः पार्चे बभूव श्रावको महान् ॥४५॥ कामभोगान् विहायाशु संसारत्रस्तमानसा । सुव्रतान्ते प्रवव्राज धीरा नागवसूरियम् ॥ ४६॥ नागदत्तोऽपि संपाल्य धर्म श्रावकगोचरम् । प्रययौ पञ्चतावाप्तिं सुसमाधानयोगतः॥४७॥ विमाने नन्दिघोषाख्ये ब्रह्मलोकसमुद्भवे । देवो दशसमुद्रायुर्बभूवोऽसौ महाप्रभुः ॥४८॥ ॥ नागवखर्यिका साध्वी चम्पोद्यानवने तदा । विधायानशनं कृत्वा महाशुक्रेऽभवत् सुरः ॥४९॥ स्पष्टहस्तचरो जीवश्चतुर्थनरकोद्भवः । ततो निःसृत्य जातोऽयं वृषभाख्यगिरौ करी ॥ ५० ॥ योऽसौ गरुडदत्ताख्यो ज्येष्ठपुत्रोऽपि तद्भवः । काकजङ्घाभिधो व्याधस्तगिरावभवद् बली ॥५१॥
1 पफ omit No. 20. 2 [ तेनायातो]. 3 पफ युग्मम् , ज युगलमिदम्. 4 पफ त्रिकलम् , ज त्रिकलमिदम्. 5[भूपस्तद्गृहे ]. 6ज रत्नहस्ताभिधं. 7 [बोधिस्थोऽथ धनं]. 8ज चतस्रः 9 पफ खडखडामिख्यो. 10 पफ परिप्राप.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org