________________
- १०५.१९]
हस्तकश्रेष्ठिकथानकम्
२५७
जिनदत्तवचः श्रुत्वा नरेन्द्रोऽपि बभाण तम् । निर्दोषः सन् समादाय प्रतिमां याहि मन्दिरम् ||४३|| तद्वाक्यतः प्रणम्येशं जिनदत्तस्त्वरान्वितः । भूपसन्मानितो दृष्टो' जगाम निजमन्दिरम् ॥ ४४ ॥ ततः पिनाकगन्धस्य कुशीभिः सह तद्धनम् । स्वगेहं प्रापयामास स्वनरैर्नरकुञ्जरः ॥ ४५ ॥ तत्सुतादिकुटुम्बं च कृत्वा निगडसंयुतम् । कारागारे तरां भीमे स्थापयामास भूपतिः ॥ ४६ अथ पिनाकगन्धोऽपि पिप्पलग्रामतस्तदा । आगच्छन्नथ कंचित् तं पप्रच्छेति नरं सकः ॥ ४७ ॥ भो भो र गृहेऽस्माकं कुशलं किं न वा वद । सोऽपि तद्वाक्यतः प्राह कुशलं न गृहे तव ॥ ४८ ॥ कुशीदोषेण ते श्रेष्ठिन् गृहीतं सकलं धनम् । कुटुम्बं च घृतं राज्ञा त्वदीयं व्यवतिष्ठते ॥ ४९ ॥ निशम्य तद्वचः श्रेष्ठी स्वजङ्घायुगलं रुषा । चूर्णयित्वा सुपाषाणैर्निजपादयुगं तथा ५० ॥ कृतावासे तृतीयप्रस्तरे सकः । द्वाविंशतिसमुद्रायुर्जातो लल्लकनामनि ॥ ५१ ॥ ॥ इति श्रीषष्ठनरकसमुद्भावतृतीय प्रस्तरलल्लकनामधेयगमनद्वाविंशति
सागरायुःस्थितिपरिग्रहपरायणपिन्नाकगन्धश्रेष्ठिकथानकमिदम् ॥ १०४ ॥
*
१०५. हस्तकश्रेष्ठिकथानकम् ।
अङ्गाभिधमहादेशे पुरी चम्पाभिधा परा । अभग्नवाहनो राजा बभूवास्यां प्रजापतिः ॥ १ ॥ रूपिणी तत्प्रिया रम्या सुन्दरीकाभिधा प्रिया । पीनोन्नतकुचद्वन्द्वा पुण्डरीकनिभेक्षणा ॥ २ ॥ अस्यैव भूपतेः श्रेष्ठी बभूव धनसंयुतः । अलुब्धनामकोऽस्यापि भार्या नागवधूः परा ॥ ३ ॥ रूपयौवनसंपन्ना कलाविज्ञानकोविदा | अभूतां नन्दनौ साधू नन्दिताशेषबान्धवौ ॥ ४ ॥ गरुडोपपदो दत्तस्तयोर्ज्यायानभूत् सुतः । नागोपपदको दत्तः कनिष्ठोऽपि यथाक्रमम् ॥ ५ ॥ लुब्धश्रेष्ठी पुनः स्वार्णौ द्वौ हयौ द्वौ गजौ मृगौ । द्वौ यक्षौ द्वौ श्रियौ दिव्यौ विधाय स्वगृहे न्यधात् ॥६॥ कृत्वैकं वृषभं दिव्यं पद्मरागविनिर्मितम् । द्वितीयं तत्समं कर्तुं चक्रे यत्नमहर्निशम् ॥ ७ ॥ सप्तरात्रं जले बाढं सवाते पतति द्रुतम् । महाजलभरापूर्णां विवेशासौ सुरापगाम् ॥ ८ ॥ प्रासादस्थितया देव्या स्थितया सुरसं प्रति । काष्ठान्युत्तारयन् दृष्टो नक्तं गङ्गाजलादसौ ॥ ९ ॥ विलोक्येमं महादेवी गृह्णन्तं काष्ठसंचयम् । जगाद भूपतिं नक्तं विस्मयव्याप्तमानसम् ॥ १० ॥ पश्य पश्य प्रिय क्षिप्रं चित्रं गुरुतरं प्रभो । विद्यतेऽस्मत्पुरे कोऽपि महादारिद्रपीडितः ॥ ११ ॥ येशे घने देवे वर्षति दुःखितो नरः । कोऽपि गृह्णाति काष्ठानि गङ्गावाहव्यवस्थितः ॥ १२ ॥ - आहूयेमं प्रभातेऽस्मै प्रदेहि विविधं धनम् । येन दारिद्रपङ्केन स्पृश्यतेऽयं न जातुचित् ॥ १३ ॥ ' महादेवीवचः श्रुत्वा प्रभातसमये सति । आजुहाव नरैरेतं नराधीशः सभागतम् ॥ १४ ॥
5 पफ
1 [ हृष्टो ]. 2 ज ' प्रस्तरक'. 3 पफज put No. 104. 4 ज चतुः कुलकमिदम्. omit No. 14. 6 [ तिष्ठसि ]. 7 पफ युग्मम्, ज युगलमिदम्. 8 पफ युग्मम्, ज युगलमिदम्.
वृ० को० ३३
Jain Education International
10
खपुरवास्तव्यं श्रेष्ठिनं विहसन् मनाक् । जगाद विस्मितस्वान्तो भूपतिर्लुब्धवाणिजम् ॥१५॥ भो भो नर गृहाणेदं मदीयं विविधं धनम् । येन तिष्ठति संतुष्टो मदीये नगरे चिरम् ॥ १६ ॥ निशम्य भूपतेर्वाक्यं लुब्धश्रेष्ठी जगावमुम् । महताऽपि धनेनेश न कार्यं मे मनागपि ॥ १७ ॥ " किं तु मे विद्यते चैकोऽनाथनाथ हरिर्गृहे । तत्समं यदि देहि त्वं गृह्णाम्येतं तव स्फुटम् ॥१८॥ लुब्धश्रेष्ठीवचः श्रुत्वा भूपतिः प्राह तं पुनः । गत्वा मगोकुलं श्रेष्ठिन् गृहाण वृषभं परम् ॥ १९ ॥
For Private & Personal Use Only
15
20
www.jainelibrary.org