________________
२५६ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१०४. ११अष्टापदमयाशेषकुशीशतभृतां तरा । लब्ध्वा मञ्जूषिका तेन नीता सा निजमन्दिरम् ॥ ११ ॥ एकं कुशं समादाय सौवर्णं स तदन्तरा । वर्षीयांस्तोषसंपूर्णो जिनदत्तान्तिकं ययौ ॥ १२ ॥ गृहीत्वा तत्कुशं तेन लोहमूल्येन मोहिना । कारयित्वा जिनस्यार्चा स्थापिता जिनमन्दिरे ॥१३॥ ततोऽन्यदिवसे चान्या तत्कुशी स्थविरेण सा । जिनदत्तान्तिकं तेन समानीता प्रमोदिना ॥१४॥ विलोक्य तत्कुशं सोऽपि जिनदत्तेन भाषितः । भवत्कुशेन मे भद्र गच्छ त्वं न प्रयोजनम् ॥१५॥ ततः शातकुशी तेन प्राप्य पिन्नाकमन्दिरम् । दत्ताऽस्मै लोहमूल्येन गृहीताऽनेन तोषिणा ॥१६॥ ज्ञात्वा स्वर्णकुशां हृष्टः पिन्नाको निजगावमुम् । कियन्त ईदृशा भद्र तिष्ठन्ति कुशकास्तव ॥१७॥ पिन्नाकवचनं श्रुत्वा बभाणौडोऽपि तं पुनः । भद्रेशकुशानां मे तिष्ठत्येकोनकं शतम् ॥ १८॥
एकैकं तं समादाय कुशकं लोहनिर्मितम् । अहन्यहनि ते श्रेष्ठिन् ददामि सकलानपि ॥ १९ ॥ 10 एवं निगद्य पिन्नाकं तोषकण्टकिताङ्गकम् । मन्दमन्दगतिवृद्धो जगाम निजमन्दिरम् ॥ २० ॥
आदाय कुशमेकैकं पिन्नाकाय दिने दिने । ददाति लोहमूल्येन स्थविरोडो भयान्वितः ॥ २१ ॥ अष्टाधिकाऽमुना यावन्नवतिः कुशिकाः स्फुटम् । दत्ताः पिन्नाकगन्धाय परमेका स्थिता सका ॥२२॥ अत्रान्तरे समागत्य ग्रामात् पिप्पलपूर्वकात् । स्वसा सुमित्रनाम्यस्य श्रेष्ठिनं निजगाविदम् ॥२३॥ विवाहः सूर्यमित्राया मत्सुतायाः सहोदरः । वर्तते साधुना कर्तुं नेच्छामि भवता विना ॥ २४ ॥ 15 स्वसुर्वचनतः श्रेष्ठी समाहूय निजं सुतम् । जगाद वचसा स्पष्टं विष्णुदत्तं पुरःस्थितम् ॥ २५ ॥
ओडः 'कुशीन् समादाय प्रभाते चागमिष्यति । द्रमद्वयेन मद्वाक्यात् ग्रहीतुं तां त्वमर्हसि ॥२६॥ एवं निगद्य तं श्रेष्ठी सुमित्रावचनादरम् । जगाम पिप्पलग्रामं तत्कुशास्थितमानसः ॥ २७॥ ओडोऽन्यदिवसे जाते गृहीत्वा तां कुशीमसौ । विष्णुदत्तं परिप्राप्य गृहाणेमां बमाण च ॥ २८॥ जनकेनोदितेनापि विष्णुदत्तेन सा कुशी । न गृहीता गतः सोऽपि तामादाय पणान्तरम् ॥ २९॥ * दृष्ट्वा नृपनरः कोऽपि तमोडं विशिखाऽन्तरे । नीतवान् नृपसामीप्यं नामाङ्कितकुशान्वितम् ॥३०॥
आदाय तां कुशां राजा तस्करान्निजपाणिना । ज्ञात्वा तदक्षरं सर्वं नूनं शतकुशान्वितम् ॥ ३१॥ रत्नप्रभो नृपः प्राह तमोडं पुरतः स्थितम् । एकेनोनं शतं शीघ्रं कुशानामानय द्रुतम् ॥ ३२॥ रत्नप्रभनृपस्येदं निशम्य वचनं सकः । भयवेपितसर्वाङ्गो जगादेति वचः स्फुटम् ॥ ३३॥
भृता शतकुशेनोचैमञ्जूषा नरकुञ्जर । "लब्ध्वा तव क्षमासारं तडागं खनता मया ॥ ३४॥ 25 एका कुशी च तन्मध्ये बुभुक्षाग्रस्तचेतसा । जिनदत्ताय मे दत्ता लोहमूल्येन भूपते ॥ ३५॥
अष्टानवतिरन्यास्ताः कुशिका लोहमूल्यतः । दत्ता "पिन्नाकगन्धाय नरवृन्दारक स्फुटम् ॥ ३६ ॥ एकां कुशीं समादाय नरनाग त्वदन्तिकम् । आयातः सांप्रतं नूनमतः कुरु यथायथम् ॥३७॥ निशम्योडवचो राजा जिनदत्तान्तिकं द्रुतम् । नरं संप्रेषयामास कार्तस्वरकुशं प्रति ॥ ३८॥
ततस्तद्वचनेनाशु जिनदत्तो भयान्वितः। आदाय कानकीमर्चामाजगाम नृपान्तिकम् ॥ ३९ ॥ 30 रत्नप्रभनृपं नत्वा जिनदत्तो जगाविदम् । सभामध्यस्थितो वीरो धीरगम्भीरया गिरा ॥ ४० ॥
मजानता मया राजन्नोडहस्ताद् बुधप्रिय । गृहीतेयं कुशी सारा कानकी लोहमूल्यतः ॥४१॥ कानकी तु परिज्ञाय परमां भूपतेऽनया । मया कारापिता जैनी प्रतिमेयं वितिष्ठते ॥ ४२ ॥
___1 ज लब्धा मनुषिका. 2 बफ युग्मम् , ज युगलमिदम्. 3 पफ वर्षायांस्तोष. 4 पफ शतकुशी. 5 पफ युग्मम् , ज युगलमिदम्. 6 [स्थविरौडो ]. 7 [कुशी] 8 पफ त्रिकलम् , ज त्रिकलमिदम्. 9 पफ युग्मम् , ज युगलमिदम्. 10 [लब्धा]. 11 पफ पिनाकगन्धाय. 12 पफ चतुष्कुलकम् , ज चतुष्कुलकमिदम्. 13 पफ त्रिकलम्, जत्रिकलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org