________________
१०४.१०] पिनाकगन्धकथानकम्
२५५ ददतः पुरुषस्यास्य यष्टिघातं मुने?तम् । मयूरस्य गले लग्नः स घातो दैवयोगतः ॥१४॥ मयूरगलतोऽमुष्मात् यष्टिघाताद् भुवस्तले । पपात स मणिः सद्यो नरेन्द्रादिसमीक्षितः ॥१५॥ दृष्ट्वा मणिं सभामध्ये शिखिकण्ठविनिर्गतम् । चक्रुर्नृपादयः सर्वे मुनेरस्य क्षमापणम् ॥१६॥ नृपादिवचनं श्रुत्वा स्वनिन्दनपरायणम् । जगादैतान् स योगीन्द्रो मस्तकन्यस्तपाणिकान् ॥१७॥ लातुं परधनं स्वल्पं नरेन्द्र यदि वा बहु । मुनीनां कल्पते नैवं यथोक्तागमचारिणाम् ॥ १८॥ मुनिवाक्यं समाकर्ण्य धनभोगपराङ्मुखम् । नृपादयोऽभवन् सर्वे श्रावका विस्मयान्विताः॥१९॥ सापराधमपि स्पष्टं परदोषं न युज्यते । मुनीनां वक्तुमन्येषां जिनदत्त मनागपि ॥ २० ॥ निशम्य योगिनो वाक्यं जिनदत्तो निरुत्तरः । विलक्षो विस्मयोपेतस्तस्थौ स्वसुतलक्षितः ॥ २१ ॥ ततः कुबेरदत्तोऽपि तत्सुतो भोगनिःस्पृहः । दध्यौ स्वमानसे धीरः पितृस्नेहपराङ्मुखः ॥ २२ ॥ उपसर्गों महानस्य तत्पित्रा कृत ईदृशः । करोति यावदन्यं न मत्तातो लोभलम्पटः ॥ २३ ॥ ॥ तावद्धनमहं सर्व लोभिनोऽस्य पितुर्दुतम् । अर्पयामि सुखं येन तिष्ठत्ययमतन्द्रितः ॥ २४ ॥ एवं संचिन्त्य चोत्थाय घटमानीय सत्करम् । पितुः समर्पयामास तत्सुतो निगदन्निदम् ॥ २५ ॥ सप्तव्यसनयुक्तेन गृहीतं तद्धनं मया । तथाऽपि योगिनः पापतिरस्कारं ददास्यरम् ॥ २६ ॥ रुदन्नप्यतिनम्रो हि गृहीत्वाऽस्य पदद्वयम् । पश्चात्तापं करोत्येष भूयो भूयोऽतिलजितः ॥ २७॥ मुनेः क्षमापणं कृत्वा हित्वा सर्वं परिग्रहम् । समं कुबेरदत्तेन जिनदत्तो जनप्रियः ॥ २८॥ 5 मुनेर्मणिपतेः पार्थे महावैराग्यसंगतः । दधौ दैगम्बरी दीक्षां संसारार्णवतारिणीम् ॥ २९ ॥ नानातपः प्रकुर्वाणावध्यासितपरीषहौ । विहरन्तौ धरापृष्ठे तस्थतुस्तौ यथागमम् ॥ ३०॥
- इति दशकथानकमिदम् - ॥ भट्टप्रतिवद्धचुंकारिकान्तर्गतकथानकनिबद्धमुनिकथानकमिदम् ॥१०॥"
१०४. पिन्नाकगन्धकथानकम् । अथास्ति विषये सारे कान्ते पञ्चालनामनि । काम्पिल्यनगराभिख्यं पुरं सुरपुरोपमम् ॥१॥ बभूवात्र पुरे राजा नाम्ना रत्नप्रभः प्रभुः । विद्युन्मती महादेवी तस्य विद्युत्समप्रभा ॥२॥ अस्यैव भूपतेः श्रेष्ठी बभूव श्रावको महान् । जिनदत्ताभिधस्तस्य जिनदत्ता प्रिया परा ॥३॥ अपरोऽत्र पुरे श्रेष्ठी द्वात्रिंशद्धनकोटिकः । नाम्ना 'पिन्नाकभक्षोऽभूत् तत्प्रिया सुन्दरी मता ॥४॥ तत्सुतो विष्णुदत्तोऽभूत् कलाविज्ञानपारगः । खसा पिन्नाकभक्षस्य सुमित्रा मित्रवत्सला ॥ ५ ॥ 23 काम्पिल्यनगरासन्नपिप्पलग्रामवासिने । दत्ता सागरदत्ताय श्रेष्ठिने साऽमुना क्रमात् ॥ ६ ॥ तत्सुता सूर्यमित्रासीत् सूर्यदीप्तिसमप्रभा । महालावण्यसंयुक्ता कन्दोट्टदललोचना ॥ ७ ॥ अथ रत्नप्रभो राजा नगरासन्नभूतले । 'प्रदायोडसहस्रेभ्यो धनं बहुविधं तदा ॥ ८॥ महासरोवरं रम्यमगाधं दीर्घमायतम् । कारापयति हृष्टात्मा धर्मविन्यस्तमानसः ॥९॥" तस्मिन् सरोवरे रम्ये खनतौडेण तद्धराम् । कुद्दालकेन चैकेन वृद्धेन चिरजीविना ॥ १० ॥
1 पफ कुलकम् , ज कुलकमिदम्. 2 पफ चतुष्कुलकम्, ज चतुष्कुलकमिदम्. 3 ज जिनप्रियः, 4जर्णवदायिनीम्. 5 ज दशकथानकमिदम्. 6 पफ have no number, but ज has 103. 7 पफ पिनाक. 8 पफ सूर्यमित्रसम'. 9 [प्रदायौड°]. 10 पफ युग्मम् , ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
- www.jainelibrary.org