________________
२५४
हरिषेणाचार्यकृते गृहत्कथाकोशे
[१०२*९.११०२७९. चौरकथानकम् । किंतु साधो ममाख्यानं विद्वज्जनमनोहरम् । त्वं भावयैकचित्तेन कथ्यमानं मयेदृशम् ॥१॥ अत्रैव भरतक्षेत्रे श्रीमदुजयिनी' पुरी । अस्यां महीपतिः श्रीमान् बभूव श्रीपतिः प्रभुः ॥२॥ रूपराजितसर्वाङ्गी नीलोत्पलदलाम्बका । बभूवास्स महीशस्य श्रीमती दयिता परा ॥३॥ 5 अत्रैव नगरे श्रेष्ठी नानाधनसमन्वितः । अभूत् समुद्रदत्ताख्यो महासामन्तवल्लभः ॥४॥ जयन्ती कोकिलां वाचा वल्लकीमपि सुखनाम् । प्रिया समुद्रदत्ताऽस्य समुन्द्र मणिभूषणैः॥५॥ अथ भाण्डारशालान्तं विवेश पृथिवीपतेः । चौरः सर्वकषायाख्यश्चौरिकातिशयान्वितः ॥६॥ गृह्णन् सारं धनं तत्र दृष्टोऽयं दण्डपाशकैः । ततः पलायितः शीघ्रं तद्भयात् स सवेपथुः ॥ ७॥
तच्छ्रेष्ठिमञ्चिकामूले प्रविष्टस्तस्करस्तदा । मञ्चिकाच्छादितानेन गिरिदाऽनेन सर्वतः ॥८॥ 10 ततस्तन्मार्गतः प्राप्य तलाराः श्रेष्ठिनं जगुः । लम्पिक्षः क्वापि ते दृष्टो न वा वद यथायथम् ॥९॥ निशम्य तद्वचः श्रेष्ठी बभाणैतान् पुरः स्थितान् । न दृष्टोऽयं मया दृष्टो येन तं परिपृच्छत ॥१०॥ श्रुत्वा ते श्रेष्ठिनो वाक्यं तलाराः श्रान्तचेतसः। जग्मु थान्तिकं तूर्णं स्वचित्तस्थिततस्कराः ॥११॥ रखावस्तंगते श्रेष्ठी नीत्वाऽमुं निजमापणम् । चारुवस्त्रयुगं दत्त्वा सस्नेहं समपूजयत् ॥ १२ ॥ रत्नादिसंभृतं दृष्ट्वा श्रेष्ठिनो विशिखं सकः । तद्रव्यलुब्धचेतस्को जघान वणिजां पतिम् ॥१३॥ ॥ साधो किं तस्स चौरस्य युक्तं श्रेष्ठिनिपातनम् । तद्दत्तजीवितस्यास्य कर्तुं तन्मानितस्य च ॥ १४ ॥ श्रावकस्य वचः श्रुत्वा जगौ योगी तकं पुनः । तस्य चौरस्य नो युक्तं कर्तुं श्रेष्ठिनिपातनम् ॥१५॥ ॥ इति श्रीजिनदत्तकथितमुनिपञ्चमचौरनिहतश्रेष्ठिकथानकम् ॥ [१०२*९] ॥
१०२०१०. मयूरकथानकम् । किं पुनर्मद्वराख्यानं महापुरुषसंमतम् । एकाग्रमानसं कृत्वा त्वमाकर्णय सांप्रतम् ॥ १॥ २० अत्रैव भरतक्षेत्रे कौशाम्बी परमा पुरी । अभूदु भूपालनामास्यां भूपतिः शासिताहितः ॥२॥
पूर्णिमाचन्द्रसद्वका मुक्ताभरदनावलिः । बभूवास्य महादेवी सुन्दरी सर्वसुन्दरी ॥३॥ ततो मध्याह्नवेलायां मेदत्ताख्यो मुनीश्वरः । विवेशेमां पुरी रम्यामनुक्रामविधानतः॥४॥ तत्रत्यैकेन भक्तेन भूपालासन्नवर्तिनः । चर्यामार्गेण संविष्टो धृतोऽसौ राजमन्दिरे ॥५॥ पद्मरागो मणिस्तत्र मयूरेण पलाशया । गिलितो वीक्षितोऽनेन साधुना साधुपक्षिणा ॥ ६॥ ॐ यावजिनस्तुतिं योगी करोत्येकाग्रमानसः । एष तावदिदं पृष्टो नरेण मणिपालिना ॥ ७॥ मुने मणिस्त्वया दृष्टो यदि कापि नरेशिनः । ततो वद यथावृत्तं सत्यभाषणतत्परः ॥ ८॥ निशम्य तद्वचः साधुरवादीत् तं नरं पुनः । नाहं वेनि न पश्यामि तव रत्नं वरं कचित् ॥ ९॥ पृष्टेन साधुनानेन भूयोभूयः प्रपञ्चतः । तथाऽपि नोदितं किंचिन्मणिसंबन्धकारणम् ॥१०॥ विदित्वा भाविनं साधुरुपसर्गे पराभवम् । शरीराहारसंबन्धं सावलम्बं चकार सः॥ ११ ॥ ० अग्नितप्तेन तैलेन प्रेषितस्तन्नरेण सः । तथापि जायते क्षोभो न मनागपि योगिनः ॥ १२ ॥ अत्रान्तरे मयूरोऽयं गललग्नमणिः पुनः । संप्राप मुनिसामीप्यं विह्वलीभूतमानसः ॥१३॥
___1 पफ श्रीमदुजयनी. 2 [ समुद्र ]. 3 ज चोरः. इति जिन 6 पफ राज्यमन्दिरे,
4 पफ कुलकम् , ज कुलकमिदम्. 5 पफ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org