________________
- १०२*८. १८ ]
सर्पकथानकम्
२५३
तत्रत्यस्य नरस्यास्य भयविह्वलचेतसः । ततो जगाम सिंहोऽपि स्वनादापूरिताम्बरः ॥ ४ ॥ ततोऽनेन नरेणाशु दृष्ट्वा राजनरा वने । आहूतास्ते समायातास्तत्समीपं क्षणेन च ॥ ५ ॥ दृष्ट्वा समीपकान् यातान् पुरुषांस्तांस्तरोरधः । समुत्तीर्य ततो वृक्षाज्जगादेति किमागताः ॥ ६ ॥ श्रुत्वा तद्वचनं तेऽपि जगुस्तं खेदसंगताः । नृपभेरीनिमित्तार्थं पश्यामोऽत्र वने तरुम् ॥ ७ ॥ निशम्य तद्वचः सोऽपि बभाणैतान् पुरः स्थितान् । भेरी शिवनिवृक्षेऽत्र जायते भूपतेः परा ॥८॥ ततस्तद्वचनेनाशु तन्नरैस्तोषमागतैः । खण्डितः स तरुः शीघ्रं भूपभेरीनिमित्ततः ॥ ९ ॥ कण्ठीरवभयाद्भीमाद्येन वृक्षेण रक्षितः । कारापयितुमेतस्य छेदः किं युज्यते मुने ॥ १० ॥ जिनदत्तवचः श्रुत्वा बभाणेमं यतीश्वरः । इदं न युज्यते कर्तुं नरस्यास्य कुधीमतः ॥ ११ ॥ ॥ इति श्रीसिंहभयरक्षितशिवनितरुच्छेदोपदेशदायकपुरुषजिनदत्तमुनिनिवेदितचतुर्थकथानकमिदम् ॥ [ १०२*७] ॥
*
१०२*८. सर्पकथानकम् ।
किंतु धर्मार्थसंयुक्तं महापुरुषसंमतम् । आकर्णयैकचित्तेन कथयामि कथानकम् ॥ १ ॥ विनीताख्यमहादेशे साकेतायां पुरि प्रभुः । चन्द्रभद्रोऽभवत् तस्य भार्यां चन्द्रमती शुभा ॥ २ ॥ शतानि पञ्च दाराणामस्य सन्ति महात्विषाम् । शक्रपत्नीसमानानां रूपसौभाग्यधारिणाम् ॥ ३ ॥ अनेन भूभुजा दिव्या नन्दनोद्यानमध्यगा । कारापिता महावापी स्वर्णसोपानराजिता ॥ ४ ॥ " हंसकारण्डचक्राह्वशकुन्तरवशोभना । पद्मेन्दीवरसंछन्ना जलकल्लोलसंकुला ॥ ५ ॥ तत्रत्यडिण्डुकैः सार्धं नानावर्णमनोहरैः । रमन्ते सरसं बाढं भूपालस्य पुरन्ध्रयः ॥ ६ ॥ अन्यदा रक्तलोलाक्षो लेलिहानोऽसितप्रभः । विवेश तां महावापीं लोलजिह्रो भयंकरः ॥ ७ ॥ दृष्ट्वा समागतं सर्पं जगौ तान् वृद्धडिण्डुकः । सर्वेऽपि मद्वचः सत्यं समाकर्णयतादरात् ॥ ८ ॥ अमुष्मात् सर्पतो वित्थ् विनाशो नो भविष्यति । तस्मादिमं द्रुतं क्रूरं निर्धाटयत सज्जनाः॥ ९ ॥ ” ततस्तद्वचनं सर्वैर्डिण्डुकैर्नाभिमतम् । सोऽपि मौनं समादाय तस्थौ चकितमानसः ॥ १० ॥ अत्रान्तरे नृपेणामा सर्वमन्तःपुरं द्रुतम् । अवतीर्णं जलक्रीडां विधातुं वापिकाले ॥ ११ ॥ तत्र डिण्डुकसादृश्यात् सर्पपोतोऽतिचञ्चलः । गृहीतोऽसौ महादेव्या पाणिना पद्मकान्तिना ॥१२॥ ततो गृहीतमात्रेण तेन सर्पेण कोपतः । करे दष्टा महादेवी मृता तद्विषयोगतः ॥ १३ ॥ वापीजलात् समुत्तीर्य दन्दशूकोऽपि वेगतः । ननाश क्वापि दुष्टात्मा भावि भद्रं हि जीवितम् ॥ १४॥ ततो नृपो रुषं प्राप्य महादेवीविनाशनात् । धीवरानादिदेशासौ डिण्डुकानां मृतिं प्रति ॥ १५ ॥ प्राध्वंकृत्य च जालेन डिण्डुकानखिलानरम् । भूपादेशेन ते जन्नुर्नियतिः केन लक्ष्यते ॥ १६ ॥ जिनदत्तनृपस्यास्य युक्तं किं कर्तुमीदृशम् । येन सर्पकृते दोषे डिण्डुका निहता बत ॥ १७ ॥ अनूचानवचः श्रुत्वा जिनदत्तोऽपि तं जगौ । न युक्तं डिण्डिकान् हन्तुं भूपस्यैवं निरागसः ॥ १८ ॥ ॥ इति श्रीजिनदत्तसाधुनिवेदितचतुर्थसर्पकथानकम् ।। [१०२*८] ॥
*
1 [ दृष्टा ]. 2 फ पराः. 3 पफ कुलकम् ज कुलकमिदम्. 5 पफ युग्मम् ज युगलमिदम्. 6 पफ कुलकम् ज कुलकमिदम्.
Jain Education International
For Private & Personal Use Only
10
4 पफ युग्मम् ज युगलमिदम्. 7 पफ चतुर्थ.
25
30
www.jainelibrary.org