________________
.
२५२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१०२*५. ११०२७५. तापसगजकथानकम् । अथ गङ्गानदीकूले हस्तियूथं मनोरमम् । अन्योन्यरमणासक्तं वसति प्रीतमानसम् ॥१॥ तयूथाधिपतिस्तुङ्गः श्वेतकर्णीति विश्रुतः । गन्धहस्ती प्रिया तस्य भद्राख्या वल्लभाऽभवत् ॥२॥
तत्पुत्रः श्वेतकर्णीति बभूव कलभः कलः । त्यक्तोऽयं निजयूथेन नितान्तं कलहप्रियः ॥३॥ : कदाचित् संभ्रमन् क्वापि वनेऽसौ निजलीलया । विश्वभूत्यभिधानेन तापसेन विलोकितः ॥४॥
उपचारेण तं नीत्वा तापसः पल्लिमात्मनः । पुपोष भोज्यभक्षेण वितीर्णेन मुहुर्मुहुः ॥५॥ ततस्तापसयत्नेन प्रत्यहं क्रमतः करी । सर्वलक्षणसंपूर्णो गन्धहस्ती बभूव सः ॥ ६॥ ततः श्रेणिकराजेन याचितोऽसौ पुनः पुनः । तापसेन न दत्तोऽस्मै महातत्त्रीतिकारिणा ॥ ७॥
भूयोऽपि याचितोऽनेन तापसोऽमुं नरेशिना । करिणाऽदीयमानेन तपस्वी निहतो रुषा ॥८॥ ।" भगवन् किं गजस्यास्य तत्पोषणपरायणम् । निहतं तापसं युक्तं महाप्रीतिविधायकम् ॥ ९॥ श्रावकस्य वचः श्रुत्वा बभाणेमं यतीश्वरः । हन्तुं स्वपोषकं श्रेष्ठिन् गजस्यास्य न युज्यते ॥१०॥ ॥ इति श्रीजिनदत्तनिवेदिततृतीयतापसगजकथानकमिदम् ॥ [१०२५५] ॥
. १०२४६. आम्रकथानकम् । श्रावकेदं मम स्पष्टं धर्माख्यानं बुधप्रियम् । शृणु त्वमेकचित्तेन कथयामि तवाधुना ॥१॥ 15 कुरुजाङ्गलदेशेऽस्ति हस्तिनागपुरं परम् । विश्वसेनोऽत्र भूपालः प्रियधर्माऽस्य गेहिनी ॥२॥
पुरपूर्वदिशो भागे कोकिलालापसुन्दरम् । महाम्रवनमुत्तुङ्गं भूपेनानेन कारितम् ॥ ३॥ निजकाले ततः सर्वे सहकाराः समुन्नताः । पुष्पस्तबकभारेण फलैरपि विरेजिरे ॥४॥ चूतवृक्षेषु चैतस्मिन् सर्पमादाय सौलिका । फलिते भक्षयन्तीमं तरां मुदितमानसा ॥५॥ चूतवृक्षेत्र तिष्ठन्त्या भक्षयन्त्या भुजंगमम् । तस्याः पतित एकस्मिन् फले हि विषबिन्दुकः ॥६॥ 20 तदानं विषयोगेन पक्कं सपदि शोभनम् । आदायोद्यानपालोऽपि ददौ भूपाय तन्मदा ॥ ७॥ तेनापि भूभुजा तच्च महादेव्याः समर्पितम् । साऽपि तत्फलमास्वाध मृत्युगोचरतां ययौ ॥ ८॥ श्रुत्वा पञ्चत्वमायातां महादेवी नरेशिना । छिन्नं आम्रवनं रोषादनिरूपितकारिणा ॥९॥ युक्तं किं श्रावकैतस्य छेत्तुमाग्रवनं परम् । एकाम्रविहिते दोषे सर्वे चूता हि खण्डिताः॥१०॥ श्रावकस्तद्वचः श्रुत्वा जगौ साधुं पुरः स्थितम् । इदं कर्तुं मुने राज्ञो न युक्तं चाम्रनाशनम् ॥११॥
॥ इति श्रीसाधुजिनदत्तकथिततृतीयकथानकम् ॥ [१०२*६] ॥
१०२७७. शिवनितरुकथानकम् । मुने मदीयमाख्यानं धर्मसंबन्धकारणम् । आकर्णयैकभावेन कथयामि तव स्फुटम् ॥१॥ माहिष्मतीपुरादेको वसुशर्मा नरोऽव्रजन् । विन्ध्यमध्ये हरिं भीमं गर्जन्तं प्रददर्श सः॥२॥ दृष्ट्वा भयानकं पान्थः 'सिंहगर्जितकारिणम् । आरुरोह तमुत्तुङ्ग शिवनेस्तरुमादरात् ॥३॥
1 पफ युग्मम् , ज युगलमिदम्. 2ज जिनदत्तमुनि. 3 प तृतीयं, 4 ज सौलिकाकांवली. 5 पफ सर्वचूताः. 6 पफ कुलकम् , ज कुलकमिदम्. 7 [सिंह ]. 8 [समुत्तुझं]. .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org