________________
-१०२४. १६] वृषभकथानकम्
२५१ जीवितः सन्नयं व्याघ्रस्त्वदीयौषधयोगतः । अस्मानेव क्षुधाग्रस्तः प्रसभं भक्षयिष्यति ॥१०॥ ज्येष्ठोदितं समाकर्ण्य कनिष्ठोऽपि बभाण तम् । तिर्यञ्चोऽपि हि केचिच्च शमं यान्त्युपकारतः॥११॥ तेन रोगाभिभूतस्य व्याघ्रस्याहं महामते । वैयावृत्त्यं करिष्यामि दिव्यौषधिविधानतः ॥१२॥ कनिष्ठवचनं श्रुत्वा जगौ ज्येष्ठोऽपि तं पुनः । वैयावृत्त्यं निषिद्धोऽपि यद्येतस्य करिष्यसि ॥१३॥ तिष्ठैकं वत्स तावत्त्वं मुहूर्तमपि दुर्विधम् । करोमि नियतं भ्रातर्यावदृक्षाधिरोहणम् ॥ १४ ॥ एवं निगद्य तं तत्र भ्रातरं बुद्धिवर्जितम् । आरुरोह समुत्तुङ्गं धनमित्रो महातरुम् ॥ १५॥ तत्समीपं परिप्राप्य कनिष्ठः कौतुकान्वितः। विवेद पुण्डरीकं स स्फुटं लोचनरागिणम् ॥ १६ ॥ दिव्यौषधं समादाय तद्वने कौतुकेक्षणा । तल्लोचनद्वयं तेन तद्रसेन भृतं धनम् ॥ १७ ॥ तदौषधिप्रभावेन लोचने तस्य तत्क्षणात् । काचकामलदोषेण विमुक्ते ते बभूवतुः ॥ १८॥ समुत्थाय ततो देशाद् बुभुक्षाग्रस्तमानसः । वैद्यं जघास दुष्टात्मा पुण्डरीकः खलोऽहितः ॥१९॥ भदन्त तस्य किं युक्तं कर्तुमीदग्विचेष्टितम् । हतः कृतोपकारोऽपि येन वैद्यो दुरात्मना ॥२०॥ जिनदत्तवचः श्रुत्वा जगौ योगी तकं पुनः । ईदृक्षं कर्म नो युक्तं कर्तुं श्रावक तस्य हि ॥२१॥ ॥ इति श्रीजिनदत्तेन मुनिकथितं वैद्यकथानकम् ॥ [१०२*३] ॥
१०२४४. वृषभकथानकम् । जिनदत्त गुणाधान जिनधर्मपरायण । शृणु त्वमेकचित्तेन मत्कथानकमादरात् ॥१॥ ॥ अङ्गनामकदेशोऽस्ति" चम्पाख्यायां पुरि द्विजः । वेदवेदाङ्गसंयुक्तः सोमशर्माभिधानकः ॥२॥ विनयाचारसंपन्ना भर्तृभक्तिपरायणा । सोमिल्ला" सोमशर्मा च बभूवास्य नितम्बिनी ॥३॥ सोमिल्लायाः सुतो जातो रूपराजितविग्रहः । सोमशर्मा पुनर्वन्ध्या सपत्नीद्वेषमिच्छति ॥४॥ अन्यदा तगृहं हृष्टो भद्रादिवृषभोऽविशत् । निहत्य तत्सुतं क्रुद्धा तद्विषाणे मुमोच सा ॥५॥ भद्रादिवृषभस्तुङ्गशृङ्गस्थितशिशुस्तदा । भ्राम्यन् पुरान्तरे दृष्टः पौरेण सकलेन सः ॥६॥ दृष्टुमं सर्वलोकेन कृतोऽयं ब्रह्मघातकः । भुवनेषु" समस्तेषु प्रवेशं लभते न च ॥७॥ अन्यदा जिनदत्तोऽसौ श्रावको जिनमन्दिरे । तस्थौ कृष्णचतुर्दश्यां निशि प्रतिमया सुधीः॥८॥ अस्यामेव च शर्वयां जिनदत्तप्रिया तदा । अभ्याख्यानं परिप्राप्ता लोकतो नरसंभवम् ॥ ९॥ पुरमध्ये सकात्मानं तदा शोधयितुं पुनः । अग्नितप्तस्य फालस्य समीपे व्यवतिष्ठते ॥१०॥ तावदागत्य वेगेन भद्रादिवृषभः सकः । निजवक्रेऽग्निना तप्तं फालं चिक्षेप तत्पुरः ॥११॥ दृष्ट्वा तं वृषभं लोकस्तत्फालवदनं तदा । शुद्धः शुद्धतरामेष संजजल्प परस्परम् ॥ १२ ॥ अनेन विधिना सोऽपि शोधयित्वा स्वकं पुनः । बभ्राम पूर्ववत् तोषात् पुरमध्ये निजेच्छया ॥१३॥ युक्तं किं वक्तुमीदृशं वाक्यं लोकस्य सजन । येन दोषविहीनोऽपि वृषभः शिशुघातकः ॥१४॥" मुनिवाक्यं समाकर्ण्य जिनदत्तो जगावमुम् । तस्य लोकस्य नो युक्तं वचनं वक्तुमीदृशम् ॥१५॥ किंतु साधो मदाख्यानं धर्मसंबन्धकारणम् । आकर्णयैकचित्तेन कथयामि तवापरम् ॥१६॥" .
॥ इति श्रीमुनिनिवेदितजिनदत्तद्वितीयकथानकमिदम् ॥ [१०२४] ॥
1 पफ युग्मम् , ज युगलमिदम्. 2 पफ व्याघ्रस्यायं. 3 पफ युग्मम्, ज युगलमिदम्. 4 पफ युग्मम् , ज युगलमिदम्. 5 [ कौतुकेक्षणात् ]. 6 पफ हतकृतोप. 7 पफ कुलकम्, ज कुलकमिदम्, 8 ज द्वितीयं वैद्यकथानकमिदम्.9 पफ परायणः. 10 [देशे ]. 11 पफ सोमिला. 12 [भवनेष. 18 पफ कुलकम्,जकुलकमिवम्. 14जयुगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org