________________
२५०
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १०२*२. ६
नकुलः कान्तवाक्येन तया कपिलया तदा । वृद्धिं नीतो विनीतात्मा तत्प्रेक्षणविधायकः ॥ ६ ॥ अन्यदा दैवयोगेन कपिलायां मनोरमः । बभूव नन्दनो रूपी स्वजनानन्ददायकः ॥ ७ ॥ बालकं मञ्चके सुप्तं विधाय नकुलस्य सा । समर्प्य कपिला याता नदीकूलं जलं प्रति ॥ ८ ॥ बभ्रुस्तं दारकं गेहे 'शून्यं यत्नपरस्तदा । ररक्ष प्रीतचेतस्को भ्रातृस्नेहपरायणः ॥ ९॥ • अत्रान्तरे गृहं सर्पः प्रविष्टो भीमविग्रहः । ' दृष्टो बालोऽमुना वेगात् पञ्चतामगमत् पुनः ॥ १० ॥ बभ्रुणागत्य वेगेन स सर्पोऽपि विपादितः । तद्बालमञ्चकस्याधो विहितो व्यवतिष्ठते ॥ ११ ॥ अथ सा ब्राह्मणी प्राप्ता स्वगेहं सुतवत्सला । मञ्चकस्थं शिशुं तत्र ददर्श मृतिमागतम् ॥ १२ ॥ मृतं तं बालकं दृष्ट्वा कपिला क्रुद्धमानसा । मुसलेन समाहत्य ममार नकुलं खला ॥ १३ ॥ बालमञ्चस्य मृतं भीमं भुजङ्गमम् । दम्पतिभ्यां परिज्ञातं बालो दष्टोऽमुना ध्रुवम् ॥१४॥ गुञ्जाफलसमानाक्षो भीमदंष्ट्रोऽलिविग्रहः । नकुलेनापि रुष्टेन निहतोऽयं भुजङ्गमः ॥ १५ ॥ पुत्रकल्पो मया बभ्रुरपरीक्षणशीलया । पुत्रवर्जितया कष्टं निहतो मन्दभाग्यया ॥ १६ ॥ पुत्रं सर्पहतं दृष्ट्वा नकुलं संनिपातितम् । बभूव सुमहद्दुःखं कपिलाया भुवस्तले ॥ १७ ॥ अस्याः श्रावक किं युक्तं कर्तुमीदृग्विचेष्टितम् । येन सर्पकृते दोषे नकुलो निहतोऽनया ॥ १८ ॥ अपरीक्षणशीलानां सहसा कार्यकारिणाम् । पश्चात्तापो भवत्येव जगति प्राणधारिणाम् ॥ १९ ॥ तथा चोक्तम्'अपरीक्षितं न कर्तव्यं कर्तव्यं सुपरीक्षितम् ।
1
पश्चाद् भवति संतापो ब्राह्मणीनकुलं यथा ॥ २० ॥
श्रुत्वा मुनिवचः सत्यं जिनदत्तो जगावमुम् । विधातुं नाथ नो युक्तं धर्मेदं खलु योषितः ॥ २१ ॥ कथानकमिदं साधु विपश्चित्प्रीतिकारणम् । धर्मार्थानुगतं लोके युष्माभिः कथितं मम ॥ २२ ॥ " किं पुनर्मम योगीन्द्र सुरासुरनतक्रम । धर्मार्थसंगतं चारु कथानकमिदं शृणु ॥ २३ ॥ ॥ इति श्रीकपिलाब्राह्मणी निबद्धं जिनदत्तनिवेदितं मुनिकथानकम् ॥ [ १०२*२] ॥
*
10
18
१०२*३. वैद्यकथानकम् ।
1
काशी जनपदे रम्ये वाणारस्यां पुरि प्रभुः । जितशत्रुः प्रिया चास्य रूपिणी कनकप्रभा ॥ १ ॥ 2• बभूवास्य नरेन्द्रस्य वैद्यः प्रेयान् महाधनः । धनदत्तः कलाधारो धनदत्ता च तत्प्रिया ॥ २ ॥ अनयोर्नन्दनौ स्यातां वैद्यशास्त्रपराङ्मुखौ । धनमित्रस्तयोरायो धनचन्द्रोऽपरो मतः ॥ ३ ॥ तत्ताते पञ्चतां प्राप्ते तज्जीवनमपि द्रुतम् । कुशलायान्यवैद्याय वितीर्णं जितशत्रुणा ॥ ४ ॥ तस्मिन्नपि हृते वैद्यौ तदेतौ द्वावपि द्रुतम् । चम्पकाख्यां पुरीं प्राप्तौ भ्रातरौ वैद्यकं प्रति ॥ ५ ॥ शिवभूत्याख्यवैद्यस्य समीपे भ्रातरौ तौ । समस्तं वैद्यकं ज्ञात्वा निवृत्तौ स्वगृहं प्रति ॥ ६ ॥ egesपात्रमिमं कक्षे पुण्डरीकं पथि स्थितम् । कनिष्ठो धनचन्द्राख्यो धनमित्रं जगाविति ॥ ७ ॥ व्याघ्रस्यास्यौषधं भ्रातर्ददामि परमोदयम् । कीर्तिर्धर्मोऽपि मे येन जीवितेऽस्मिन् प्रजायते ॥ ८ ॥ धनचन्द्रवचः श्रुत्वा धनमित्रो जगावमुम् । व्याघ्रसर्पादिसत्त्वानामुपकारो न शान्तये ॥ ९ ॥
30
1 [ शून्ये ]. 2 [ दष्टो ]. 3ज कुलकमिदम्. 4 पफ निबद्ध 5 The Mss. do not put any numbers for these stories. I have treated them as sub-stories of 102, and added the numbers in square brackets. 6 पफ युग्मम् ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org