________________
-१०२*२. ५ ]
कपिलाब्राह्मणीकथानकम्
२४९
एवं विचिन्त्य मूढात्मा जिनदत्तस्तदन्तिकम् । संप्राप्तस्तत्क्षणेनायं धनविह्वलमानसः ॥ १०९ ॥ विलोक्य तं मुनिं नत्वा हृदयस्थ महाधनः । जगादेति वचः श्रेष्ठी मायया तत्पुरः स्थितः ॥ ११० ॥ यावन्मुनिपदाम्भोजं न दृष्टं सुरपूजितम् । तावन्न भोजनं नूनं विदधामि मनागपि ॥ १११ ॥ एवमुक्त्वा सुतेनाहं भार्ययाऽपि त्वदन्तिकम् । प्रेषितो जिनभक्तया च भक्तिनिर्भरचेतसा ॥ ११२ ॥ * जिनदत्तोदितं श्रुत्वा ज्ञाततत्कुटिलाशयः । जगाम तगृहं हृष्टो मन्दमन्दगतिक्रियः ॥ ११३ ॥ ' कुर्वन् जिनस्तुतिं भक्त्या खाध्यायं पञ्चभेदकम् । तचैत्यमन्दिरे तस्थौ पञ्चषाणि दिनानि सः ॥ ११४॥ अन्येद्युर्जनदत्ता॒ऽयं सन्ध्याऽनेहसि सत्वरम् । समं कुबेरदत्तेन जगाम मुनिसंनिधिम् ॥ ११५ ॥ मुः श्रेष्ठ तो भार्या तदा कृतजिनस्तुतिः । संभाषणादिकं कृत्वा सर्वे तस्थुर्यथासनम् ॥ ११६॥ अत्रान्तरे मुनिं प्राह जिनदत्तस्त्वरान्वितः । कथानकं यथा ब्रूहि महापुरुषसेवितम् ॥ ११७ ॥ जिनदत्तवचः श्रुत्वा जगौ साधुरिमं पुनः । त्वमेव प्रथमं ब्रूहि कुशलो धर्मसंकथाम् ॥ ११८ ॥ " साधुवाक्यं समाकर्ण्य जिनदत्तो जगावमुम् । ममोपरि दयां कृत्वा शृणु त्वं मत्कथानकम् ॥ ११९॥ वराटविषये साधो पद्मादिनगरं परम् । वसुपालो नृपस्तत्र बभूवोन्नतशासनः ॥ १२० ॥ कोशलाधिपते राज्ञो जितशत्रोर्नरेशिना । वसुपालेन कार्यार्थं दूतः संप्रेषितो द्रुतम् ॥ १२१ ॥ पद्मावत्यटवीमध्ये क्षुधापम्पाकदर्थितः । तरुमूलस्थितो दूतः प्राप मूर्च्छा शिलोपमः ॥ १२२ मूर्च्छागतं समालोक्य तं नरं वानरो वने । स्वशरीरं जले क्षिप्त्वा संप्राप्तैतत्समीपताम् ॥१२३॥ धूनयित्वा निजं देहं दूतोपरि स वानरः । पश्चात् प्रवीजनं चक्रे सजलैस्तरुपल्लवैः ॥ १२४ ॥ ततः स चेतनां प्राप्य दूतो भूमेः समुत्थितः । नीतो महाहृदं तेन वानरेण कृपावता ॥ १२५ ॥ हृदमध्यं प्रविश्याशु जलं तत्र प्रपाय च । दूतो विश्रब्धको भूत्वा दध्याविति स चेतसि ॥ १२६ ॥ जलं भवेन्न वा मार्गे पुरतो गच्छतो मम । हत्वा हरिमिमं चर्म गृह्णाम्यस्य ससंभ्रमम् ॥ १२७ ॥ शीतलेन जलेनेदं परिपूर्य त्वरान्वितः । स्ववाञ्छितं पुनर्देशं निर्विघ्नं येन याम्यहम् ॥ एवं विचिन्त्य तं नीत्वा पञ्चतां शरघाततः । जग्राह तत्त्वचं दूतो कृतघ्नोऽसौ निषादधीः ॥ तेन गोणतकं कृत्वा भृत्वा तं नीरसंघतः । जगाम स्वमतं देशं दूतः स्वगतियोगतः ॥ स दूतो भगवन् कक्षे पतितो जलमन्तरा । मर्कटेनास्य संदत्तं जीवितं जलदर्शनात् ॥ स दूतस्तं हरिं हत्वा सोपकारं गतः क्वचित् । युक्तमेवंविधं कर्तुं कर्म किं तस्य पावन निशम्य तद्वचो योगी बभाणेमं ससंभ्रमम् । न युक्तं कृतमेतेन कर्मेदं श्रावक स्फुटम् ॥ त्वयाऽपि श्रावक स्पष्टं कथितं यत् कथानकम् । धर्मार्थसंगतं चारु बुधकर्णरसायनम् ॥ ॥ इति श्रीदूतमर्कटकारणं जिनदत्तकथानकमिदम् ॥ [ १०२*१] ॥
१२८ ॥ 20
॥
*
Jain Education International
१२९ ॥
१३० ॥
१३१ ॥
१०२*२. कपिलात्राह्मणीकथानकम् ।
तद्वाक्यतः पुनः प्राह जिनदत्तं दिगम्बरः । आकर्णयैकचित्तेन कथयामि कथानकम् ॥ १ ॥ विषये वत्सकावत्यां कौशाम्ब्यां पुरि माहनः । शिवशर्माऽभवत् तस्य कपिला नाम गेहिनी ॥२॥ ̈ अथ विप्रे गते क्वापि बहिर्वृत्तिनिमित्ततः । शिवशर्माभिधानेन दृष्टं नकुलबालकम् ॥ ३ ॥ तमादाय ततो विप्रो गृहमागत्य वेगतः । वल्लभायै समप्येमं जगादैवं पुरः स्थितः ॥ ४ ॥ अयं पुत्रविहीनाया भवत्या शोकहानये । नकुलो नन्दनो भावी पालयेममतः प्रिये ॥ ५ ॥
१३२ ॥
१३३ ॥ 25
१३४ ॥
1 पफ युग्मम् ज युगलमिदम्. 2 [ संप्रापैतत्समीपकम् ] 3 पफ युग्मम् ज युगलमिदम्. बृ० को ० ३२
For Private & Personal Use Only
www.jainelibrary.org