________________
२४८
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ १०२. ७६
एवं संचिन्त्य तुष्टेन कस्मिन्नपि दिने सति । मम प्रकर्तुमेतेन प्रारब्धं शीलखण्डनम् ॥ ७६ ॥ ततो देवतया शीघ्रं स्तम्भितोऽयं सुदुष्टधीः । विधाय महतीं पूजां क्षमयित्वा मुमोच माम् ॥ ७७ ॥ अथ पलिं प्रविष्टस्य सार्थवाहस्य तोषतः । दत्ता धनेन तेनाहं महता भयवेपिना ॥ ७८ ॥ तेनापि मम मूढेन विधातुं शीलखण्डनम् । प्रारब्धं च विमुक्ताऽहं स्तम्भितेनानया भयात् ॥ ७९ ॥ तेनापि भयभीतेन धनेन महता पुनः । दत्ताऽहं पारसीकस्य सच्चित्तस्य' कुटुम्बिनः ॥ ८० ॥ षण्मासं पोषणं कृत्वा सृष्टाशनविधानतः । कुटम्बी सोऽपि यत्नेन मम दुःखितचेतसः ॥ ८१ ॥ तरां गृह्णाति कीलालं जलूकाभिः प्रचण्डधीः । कृते हि कृमिरागस्य कम्बलान्तस्य सादरम् ॥ ८२ ॥ अत्रान्तरे मम भ्राता द्रोणदेवाभिधानकः । जगाम पारसीकान्तं स्वनाथादेशतो ध्रुवम् ॥ ८३ ॥ दूतकार्यं विधायात्र सिद्धमेतेन गच्छता । तिष्ठन्ती पुरमध्येऽहं जिनदत्त विलोकिता ॥ ८४ ॥ 10 पारसीकप्रभुं दृष्ट्वा विधाय मम मोचनन् । अनेनोज्जयिनीं श्रेष्ठिन्नानीय प्रेमकारिणा ॥ ८५ ॥ भूयः समर्पिता तेन द्रोणदेवेन सादरम् । तुष्टस्य निजकान्तस्य विधिना सोमशर्मणः ॥ ८६ ॥ जलूकाभिर्यतो रक्तमाकृष्टं मत्तनोरिदम् । ततः प्रभृति वातेन गृहीतं मे शरीरकम् ॥ ८७ ॥ मच्छरीरं समालोक्य वातग्रस्तं प्रयत्नतः । पृष्टो वैद्योऽमुना श्रेष्ठिन्नौषधं सोमशर्मणा ॥ ८८ ॥ सोमशर्माप्रयुक्तेन वैद्येन प्रीतिकारिणा । लक्षपाकमिदं तैलं कथितं वातहानये ॥ ८९ ॥ " कार्तस्वरसमा दीप्ता चारुरूपसमन्विता । जिनदत्त ममानेन तैलेन विहिता तनुः ॥ ९० ॥ सम्यक्त्वादि समादाय जिनधर्मं गुरौः पुनः । इदं व्रतं मया साधो गृहीतं जिनभक्तितः ॥ ९१ ॥ यथा मयाऽपि न कस्य निकारे विहिते गुरौ । रोषो भुवि विधातव्यः स हि दुःखकरो नृणाम् ॥९२॥ जिनदत्त त्वया पृष्टा नितान्तं क्षान्तिकारणम् । यथापृष्टं मया सर्वं भवतः प्रतिपादितम् ॥ ९३ ॥ यावन्मात्रेण तैलेन विद्यते ते प्रयोजनम् । तावन्मात्रं गृहीत्वेदं वैयावृत्यं मुनेः कुरु ॥ ९४ ॥ 20 एवं निगद्य हृष्टात्मा तदा चुंकारिकाऽपि तम् । जिनभक्तिसमायुक्ता योषमास्त्र' स्वमङ्गलम् ॥९५॥ * श्रुत्वा चुंकारिकावाक्यं जिनभक्तिपरायणम् । प्रशंसनं विधायास्या वचोभिः प्रेमसंगतैः ॥ ९६ ॥ तत्तैलघटमेकं हि प्रदाय प्रीतमानसः । निजगेहं ययौ शीघ्रं जिनदत्तो जनप्रियः ॥ ९७ ॥ शरीरमिदमेतस्य मुनेस्तत्तैलयोगतः । जिनदत्तप्रयत्नेन बभूव कनकच्छविः ॥ ९८ ॥ जिनदत्तगृहाभ्याशे तत्कारितजिनालये । जग्राह स मुनिर्धीरश्चतुर्मासीं यथागमम् ॥ ९९ ॥ 25 अथ ताम्रमयं कुम्भं मणिरत्नादिसंभृतम् । तत्साधुमस्तकस्थाने जिनदत्तो निखातवान् ॥ १०० ॥ रत्नकुम्भं समालोक्य निखातं जनकेन तम् । कुबेरोपपदो दत्तस्तत्पुत्रो व्यसनान्वितः ॥ १०१ ॥ ततस्तं कुटमादाय लाभहृष्टतनूरुहः । निखातवानयं तूर्णं पश्यतोऽन्यत्र योगिनः ॥ १०२ ॥ * तान स्थापितं दृष्ट्वा गृहीतं तत्सुतेन च । साधुस्तस्थावुदासीनः तत्त्वार्थध्यानचिन्तकः ॥ १०३ ॥ राद्धान्तं पठतो भक्त्या तपः साधु प्रकुर्वतः । चातुर्मासिकयोगोऽस्य समाप्तिं प्रययौ मुनेः ॥ १०४ ॥ चातुर्मासिकयोगान्ते जिनदत्तान्तिकं तदा । आपृच्छ्य भाषयित्वा च निर्ययौ स मुनिः पुरात् ॥ १०५ ॥ श्रीमदुज्जयिनीतोऽयं निर्गत्य स्तोकमन्तरम् । स्वाध्यायव्याजतस्तस्थौ तत्प्रतीक्षणकारणात् ॥१०६ ॥ जिनदत्तो धनं तच्च तत्रत्यकुट संगतम् | अदृष्ट्वा चिन्तयामास विस्मयव्याप्तमानसः ॥ १०७ ॥ इमं रत्नमयं कुम्भं वेद्म्यहं मुनिरप्यसौ । तृतीयः कोऽपि नो वेत्ति गृहीतं साधुना धनम् ॥ १०८ ॥
30
1 ज सचित्तस्य, [ सवित्तस्य ] 2 [ जोषमास्त ]. 3 पफ कुलकम् ज कुलकमिदम्. 4 पफ युग्मम्, ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org