________________
-१०२. ७५] जिनदत्तकथानकम्
२४७ जिनदत्तवचः श्रुत्वा बभाणेमं सकौतुकम् । तोषपूरितचेतस्का वरमाश्चर्यमीयुषा ॥४३॥ नानादुःखं मया प्राप्तं कोपेन विहितेन भोः । यावज्जीवमतोऽमुष्य गृहीतं व्रतमुत्तमम् ॥४४॥ कारणेनामुना भद्र सज्जनानन्ददायका । यशोव्याप्तसमस्ताशा न रुष्टाऽहं तवोपरि ॥४५॥ यथा श्रावक संप्राप्तं मया दुःखं सुदारुणम् । क्रुधा संपन्नया लोके कथयामि तथा शृणु ॥ ४६॥ अत्रैव भरतक्षेत्रे मेढ़ाख्यो' विषयो महान् । आनन्दनगरं रम्यं शिवशर्मा द्विजोऽभवत् ॥४७॥ कमलश्रीः प्रिया तस्य वेदवेदाङ्गशालिनः । अष्टौ पुत्रास्तयोर्जाताः शिवभूत्यादयोऽनघाः ॥४८॥ तन्मध्ये नवमी जाता तनयाऽहं प्रियंवदा । भट्टाख्या रूपसंपन्ना समस्तजनवल्लभा ॥४९॥ समस्तशास्त्रनिष्णाता कलाविज्ञानकोविदा । तत्पत्तनजनवातमहानन्दविधायिनी ॥ ५० ॥ समस्तनगरस्यान्तः पित्रा तेन प्रदापिता । घोषणेयं नृपादेशात् समस्तजनसाक्षिका ॥ ५१ ॥ मत्सुतां वक्ति यो लोकः पुरे चुंकारिकामिति । धनापहार एतस्य क्रियते निर्विकल्पकम् ॥ ५२ ॥ ॥ कोऽपि तत्पत्तने लोकस्तद्भयेन वणिक्पते । न मां चुंकारिकां वक्ति जिनदत्त जिनप्रिय ॥ ५३॥ अतो लोकेन मन्नाम द्वितीयं विहितं बुधैः । अचुंकारिकभट्टेति प्रसिद्धं जनविश्रुतम् ॥ ५४॥ अनयाऽवस्थया भद्र कुमारी सोमशर्मणा । परिणीता द्विजेनाहं रूपलावण्यसंयुता ॥ ५५ ॥ चुंकारिकामिमां नूनं न जल्पामि महामते । परिणीयामुना नीता श्रीमदुज्जयिनीमिमाम् ॥ ५६ ॥ ततोऽहं स्वगृहे भद्र तिष्ठामि प्रमदान्विता । ब्राह्मणोऽपि न मां जातु वक्ति चुंकारिकाभिधाम् ॥५७॥ 15 अन्यदा विप्रशालायां समस्तपुरमाहनैः । प्रेक्षा दत्ता भृकुंशाय गीतनृत्यविलासिने ॥ ५८॥ तत्र मद्राह्मणो भद्र नटं द्रष्टुं समागतः । नक्तं स्वमन्दिरे कान्तो नागच्छति चिरादपि ॥ ५९॥ तावदीर्ध्याभराकान्ता रोषपूरितमानसा । कपाटयुगलं दत्त्वा तिष्ठामि शयनस्थिता ॥ ६०॥ हावभावविलासज्ञं विभ्रमेणान्वितं नटम् । दृष्ट्वा भट्टोऽपि संप्राप्तः स्वगृहं निजलीलया ॥६१ ॥ ताडयन् खकराङ्गुल्या कपाटद्वयमादरात् । गृह्णन् मन्नाम सोऽत्यर्थं तिष्ठति द्वारमाश्रितः ॥ ६२ ॥ ॥ महारुषं समासाद्य तन्नादं शृण्वती स्थिता । तावन्मधुरया वाचा वक्ति मां स पुनः पुनः ॥ ६३॥ हले माहनि मानाहे महादेवि मनःप्रिये । द्वारमुद्धाटय क्षिप्रं त्वद्गुणानां स्मराम्यहम् ॥ ६४ ॥ श्रुत्वाऽस्य निनदं श्रेष्ठिन् वारत्रयसमीरितम् । भूयो मया परिध्यातं कोपारुणितनेत्रया ॥६५॥ शिक्षापणं करोम्यद्य धवस्यास्य विचेतसः । न याति येन मां हित्वा नक्तमन्यत्र जात्वरम् ॥६६॥ चिन्तयन्ती चिरं यावत् तिष्ठामि शयनस्थिता । तावद्भटेन भूयोऽपि तारनादेन जल्पितम् ॥ ६७ ॥ 25 अपि चुंकारिके मूढे मत्तमातङ्गगामिनि । उद्घाटयसि किं नेदं द्वारं रमणि दुर्जने ॥ ६८॥ जिनदत्त मया भूयश्चिन्तितं तदुरुक्तितः । निकारोऽनेन विप्रेण विहितो मम नाल्पकः ॥ ६९ ॥ न कार्यमधुनानेन विप्रेण द्वेषकारिणा । तद्गृहेणापि संचिन्त्य शय्यातोऽहं समुत्थिता ॥ ७० ॥ समुत्थायामुतः शीघ्रं द्वारं कृत्वा निरर्गलम् । निःसृता तगृहान्नक्तं दिव्यरूपविभूषिता ॥ ७१॥ . द्वारं पिधाय विप्रोऽपि क्रोधारुणनिरीक्षणः । शय्यातलगतः कान्तः सुष्वाप वणिजां पते ॥ ७२ ॥ ॥ नानातरुसमाकीर्णमशोकवनमागता । चौरैस्तत्र गृहीताऽहं 'महाभरणहारिभिः ॥७३॥ ततः स्वपलिकां नीत्वा स्वनाथाय कृतस्वना । मकां विनयसेनाय दत्तवन्तो मलिम्लुचाः ॥ ७४ ॥ तेनापि तोषपूर्णेन गृहीताऽस्मि वणिक्पते । ममैषा गणिका नूनं पट्टबन्धा भविष्यति ॥ ७५ ॥
1 ज मोढाख्यो. 2ज महामुने. 3 पफ भरकान्ता. 4 [ मदाभरण].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org