________________
२४६ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१०२. ११दृष्ट्वा तं निश्चलं तत्र प्रादाय' मृतकद्वयम् । तत्समं चुल्लिकां चक्रे नक्तं कापालिको मुदा ॥११॥ तत्कपालेऽग्निना तप्ते सिद्धिं याति चरौ सति । तदा प्रदाहसंयोगात् साधुना चालितं शिरः ॥१२॥ तन्मस्तके चले क्षिप्रं भयवेपितविग्रहः । अर्धसिद्धं चरुं हित्वा नष्टः कापालिकस्ततः ॥ १३॥ तद्दाह्मवेदनाग्रस्तसमाधानपरायणः । स साधुस्तद्वनान्तस्थः स्थितो मृतकशय्यया ॥१४॥ । प्रभातसमये जाते रविणा निर्मलीकृते । अर्धदग्धो मुनिर्दृष्टो नरेणैकेन साधुना ॥१५॥
अर्धदग्धं मुनिं दृष्ट्वा स नरः कृपयाधीः । विवेश नगरं तूर्णं पताकावलिशोभितम् ॥ १६ ॥ तत्पुरे जिनदत्ताख्यो धनवान् श्रेष्ठितामितः । तद्भार्या धनदत्तासीत् तत्पुत्रो धनदत्तकः ॥ १७ ॥ द्यूतं पानं तथा वेश्या कुत्सिता परदारकम् । हिंसाऽदत्तं पुनर्मांसभक्षणं व्यसनं त्विदम् ॥१८॥
अमीभिः सप्तभिर्मेस्तो व्यसनैः साधुनिन्दितैः । तत्सुतो निन्दिताचारो विद्वज्जनकदम्बकैः ॥१९॥ "तगृहं स परिप्राप्य जिनदत्तं जगावसौ । अग्निदग्धं श्मशानान्ते साधुरेको वितिष्ठते ॥ २०॥ निशम्य तद्वचः श्रेष्ठी श्मशानं प्राप्य वेगतः । आदाय तं मुनि तस्मात् स्वगृहं नीतवानसौ ॥२१॥ तगृहं प्राप्य वेगेन जिनदत्तोऽतिदुःखितः । वैद्यं श्रीदत्तनामानं पप्रच्छेदं ससंभ्रमः ॥ २२ ॥ साधुरेकोऽग्निना दग्धो मद्गृहे व्यवतिष्ठते । केनोपायेन तदेहः शोभनो जायते वद ॥ २३ ॥ जिनदत्तवचः श्रुत्वा श्रीदत्तो निजगावमुम् । सोमशर्मगृहे तैलं लक्षपाकाख्यमस्ति वै ॥ २४ ॥ 15 लक्षपाकेन तेनेदं शरीरं तस्य योगिनः। शोभनं जायते साधो तत्तैलाभ्यङ्गमात्रतः ॥ २५॥"
श्रीदत्तवाक्यमाकर्ण्य जिनदत्तस्त्वरान्वितः । सोमशर्मगृहं प्राप मणिकुट्टिमभूतलम् ॥ २६ ॥ दृष्ट्वा चुंकारिकाभिख्यां योषितं तगृहे पुनः । सुखासनस्थितां प्राह तत्प्रदत्तासमस्थितः ॥ २७॥ लक्षपाकाभिधं तैलं विद्यते तव मन्दिरे । अस्मभ्यं देहि तद्भद्रे तेन सुष्ठु प्रयोजनम् ॥ २८ ॥' जिनदत्तवचः श्रुत्वा जगौ चुंकारिकाऽपि तम् । प्राप्य वेश्मान्तरं श्रेष्ठिन् गृहाणैकं हि तत्कुटम् ॥२९॥ ॥ तद्वाक्यतः पुनः श्रेष्ठी गत्वा तद्वसुधान्तरम् । जग्राह कुटमेकं स तत्तैलपरिपूरितम् ॥ ३०॥
आगच्छतोऽस्य वेगेन मणिकुट्टिमभूतले । कराग्रात् स पतन्नाशु संप्राप शतखण्डताम् ॥ ३१ ॥ जिनदत्तः पुनः प्राप्य तां जगाद भयान्वितः । एकस्तैलघटो भग्नो मत्करात् पतितो भुवि ॥३२॥ श्रेष्ठिवाक्यं समाकर्ण्य विहस्योवाच तं सका । द्वितीयं घटमादाय गच्छ त्वं निजमन्दिरम् ॥३३॥ तगृहाभ्यन्तरं प्राप्य जिनदत्तस्तदुक्तितः । यावद् गृह्णाति हस्तेन सोऽपि भग्नोऽमुतः पतत् ॥३४॥ 25 ततो भूयोऽपि तां प्राप्य सभयोऽसौ जगावमूम् । द्वितीयोऽपि घटो भग्नः पतितो मत्कराद् भुवि ॥३५॥ निशम्य भारतीमस्य बभाणैषा वणिक्पतिम् । अन्यं तैलघटं भद्र गृहाण त्वं भयोज्झितः ॥ ३६॥ तद्वाक्येन परिप्राप्य तद्वेश्मान्तरमादरात् । तृतीयोऽपि घटो भग्नो गृह्णतः पाणिना द्रुतम् ॥३७॥ श्रेष्ठिवाक्यं समाकर्ण्य ब्राह्मणी विकसन्मुखी । जिनदत्तं जगादेति म्लानवक्रसरोरुहम् ॥ ३८॥ विश्रब्धतां परिप्राप्य भयवर्जितमानसः । गृहाणान्यं कुटं भद्र घटलक्षान्तरस्थितम् ॥ ३९॥ निशम्य तद्वचः श्रेष्ठी दध्यौ विस्मितमानसः । ब्राह्मणीयं महासत्त्वा क्षान्तिभूषितविग्रहा ॥४०॥ आस्तां तावदिदं नूनं पक्कतैलस्य कारणम् । एतामहं प्रपृच्छामि महाक्षान्तिप्रयोजनम् ॥४१॥ चिन्तयित्वा चिरं श्रेष्ठी जगावेतां पुरःस्थिताम् । कुतः कोपं न यासि त्वं घटतैले क्षयं गते ॥४२॥
1 पफ प्रदाय. 2 पफ नष्टकापालिक. 3 पफ तन्मुनिं. 4 पफ युग्मम्, ज युगलमिदम्. 5 पफ युग्मम्, ज युगलमिदम्. 6 [°सनस्थितः] 7 पफ युग्मम् ,ज युगलमिदम्.. 8 पफ युग्मम् , ज युगलमिदम्. 9 पफ त्रिकला, जत्रिकलमिदम्,
5 पफ यम्मम., ज युगलमिदम. 6 [ सनस्थितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org