________________
-१०२. १०]
जिनदत्तकथानकम् सताऽपि तान् मणीन् प्राप्य मातरं भ्रातरौ तथा । निहन्मीति मतिं चक्रे लोभतः किं न जायते॥१४॥ तयाऽप्यनुशयं प्राप्य तदा ते मणयोऽमलाः । भ्रात्रोः समर्पिताः प्रीत्या तद्वेषस्थितचित्तया ॥१५॥ विलोक्य तान् मणीन् पूर्वान् मुक्तान्यांस्तद्धनीहदे । महावैराग्यसंपन्नावभूतां भ्रातराविमौ ॥१६॥ परस्परं समालोच्य तद्वृत्तान्तमशेषतः । चत्वारोऽपि तके भक्त्या जिनाय ददिरे मणीन् ॥ १७ ॥ हित्वा परिग्रहं सर्व धनमित्रादयस्तदा । मुदा दमवराभ्याश जिनभक्ताः प्रवव्रजुः॥१८॥ ... ॥ इति 'श्रीधन मित्राख्यभ्रातृदयकथानकम् ॥ १०॥
१०१. सागरदत्तकथानकम् । अत्रैव भरतक्षेत्रे जम्बूद्वीपोपलक्षिते । विषये वत्सकावत्यां कौशाम्ब्याख्याऽभवत् पुरी ॥१॥ धनमित्रोऽपरो धन्यो धनदत्तो धनप्रियः। यशोधरादयः पौरा वसन्त्यस्यां परिस्फुटम् ॥२॥ अन्यदा भाण्डमादाय द्वात्रिंशद् वाणिजाः पुरः । धनमित्रादयः सर्वे वणिज्यायै प्रतस्थिरे ॥३॥ कृतकोलाहलवानैश्चापोन्मुक्तशरबजैः । गृहीता दस्युभिः सर्वे वैश्या राजगृहान्तरे ॥४॥ एकैकशो विषं क्षिप्त्वा मद्ये मांसे च भोजने । विषमिश्रितमाहारं भुक्त्वा ते दस्यवो मृताः ॥५॥ अथ सागरदत्ताख्यस्तन्मध्ये वाणिजो महान् । अपरं न मृति प्राप्तो रात्रिभोजनवर्जनात् ॥६॥ दृष्ट्वा वणिग्जनान् सर्वान् स चौरान् मृतिमागतान् । महावैराग्यसंपन्नो बभूवायं महामनाः॥७॥ ततः सागरदत्तोऽयं विहाय सकलं धनम् । मुदा सागरसेनान्ते तपो जैनमशिश्रयत् ॥ ८॥5 ॥ इति श्रीद्वात्रिंशद्वणिग्जनचौरलुण्टनपरस्परविषाहारभक्षण
समस्तमरणसागरदत्ततपोग्रहणकथानकम् ॥ १०१॥
*
१०२. जिनदत्तकथानकम् । मणिचन्द्राभिधानेऽस्ति देशे मणिमती पुरी । अस्यां मणिपती राजा तत्प्रिया पृथिवी परा ॥१॥ मणिचन्द्रोऽनयोः पुत्रो बभूवोन्नतशासनः । प्रतापसाधितारातिर्गुणरञ्जितभूतलः ॥ २॥ अन्यदा भूपतिर्दृष्ट्वा पलितं स्वशिरः स्थितम् । वैराग्यमगमत् सद्यो महादेवीकरार्पितम् ॥३॥ मणिचन्द्राभिधानस्य पुत्रस्य जितवैरिणः । राज्यपढें बबन्धाशु तत्पिता वसुधां प्रति ॥४॥ अवधिज्ञानयुक्तस्य स्थितस्य प्रासुके वने । महादमवरस्यान्ते गुरोराचारवेदिनः॥५॥ अन्तःपुरेण सर्वेण सामन्तैर्बहुभिः सह । दीक्षां मणिपती राजा जग्राह जिनदेशिताम् ॥ ६॥ ततः कृतार्थतां प्राप्य कृतान्ताभ्याशयोगतः । पुरीमुज्जयिनीं प्राप्य चैकाकी स मुनिःक्रमात् ॥७॥ महाकालवरोधाने श्रीमदुजयिनीभवे । सह प्रतिमया रात्री संतस्थे स मुनिर्मुदा ॥८॥ अथ कापालिको विद्यां वेतालाख्यां श्मशानकम् । सितेतरचतुर्दश्यामाराधयितुमागतः ॥९॥ अन्वेषयन् मुदा भ्राम्यंस्तद्वने मृतकत्रयम् । ददर्शाशु मुनिं सुप्तं मृतकप्रतिमास्थितम् ॥ १०॥
1 [धन्य ]. 2 [श्रीधन्यमित्राख्य' ]. 3 पफ द्वणिजाः. 5 [प्राप]. 6 ज ददर्शासौ,
4 पफ युग्मम्, ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org