________________
२४४ हरिषेणाचार्यकृते बृहत्कथाकोशे
[९९.५६पूर्वोक्तविधिना नूनं ब्रह्मणस्तपसः फलात् । तिलोत्तमा मुखेक्षार्थ चतुर्थमभवन्मुखम् ॥५६॥ ततोऽन्यस्मिन् दिने जाते मस्तकोपरि तस्य च । तथा बभूव तन्नृत्यं तन्मनोहरणक्षमम् ॥ ५७॥ दशवर्षशतार्धस्य फलेन तपसः स्फुटम् । ब्रह्मणो मस्तकं जातं पञ्चमं गार्दभं शिरः ॥ ५८॥ दृष्ट्वोपरि प्रनृत्यन्तीं ब्रह्मणा तां तिलोत्तमाम् । ध्यातं मम तपो नष्टं समस्तं धरणीतले ॥ ५९॥ नर्तकी मां विहायैषा धूर्ती यावन्न गच्छति । मन्मस्तकस्थितं पादं तावद् गृह्णाम्यतो द्रुतम् ॥६०॥ चतुर्मुखो विचिन्त्यैवं तत्पादग्रहशक्तधीः । ऊर्ध्वं प्रसारयामास निजं दीर्घभुजद्वयम् ॥ ६१ ॥ तेन प्रसारितेऽमुष्मिन् ब्रह्माभिप्रायमञ्जसा । ज्ञात्वा सर्वाणि नष्टानि शक्रदेवीयुतान्यतः ॥ ६२ ॥ नष्टेषु तेषु सर्वेषु शिरसा पञ्चमेन च । पूत्कृतं तारशब्देन व गता हा तिलोत्तमे ॥ ६३॥ तिलोत्तमाऽपि संप्राप्य नाकं वेगेन तोषतः । महादेवादिदेवानां तपोभङ्गं जगौ विधेः ॥ ६४ ॥ * ततस्तिलोत्तमामिन्द्रः प्रोवाच पुरतः स्थिताम् । भद्रे त्वं ब्राह्मणा' सार्धं गृहधर्म प्रपालय ॥६५॥ तिलोत्तमामहादेव्या रूपलावण्ययुक्तया । पति भिमतो ब्रह्मा हावभावसमेतया ॥६६॥ ततः समस्तदेवोधैरुर्वशी ब्रह्मणोऽन्तिके । प्रेक्षतास्य च संजाता गृहवार्ताऽनया सह ॥ ६७ ॥ ततोऽस्य ब्रह्मणः सौख्यं भुञ्जानस्य निजेच्छया। उर्वश्या सह संजातो वसिष्ठो नाम नन्दनः ॥६॥ उर्वशी वेधसः कान्ता पण्यस्त्री प्राणवल्लभा । वसिष्ठस्तत्सुतो वित्तो वेदद्विजहितस्तराम् ॥ ६९ ॥
तथा चोक्तम्उर्वशी ब्रह्मणो भार्या वेश्या विख्यातसुन्दरी ।
तस्याः पुत्रो वसिष्ठाख्यो देवविप्रगणे हितः ॥ ७० ॥ ॥ इति श्रीब्रह्मोर्वशीमेलापककथानकम् ॥ ९९ ॥
१००. धन्यमित्रादिकथानकम् । 20 दशान्याख्यजनान्तेऽस्ति सितसौधापणान्विते । एकरथ्याभिधं चारु पुरं सुरपुरोपमम् ॥१॥
तत्पुरे धनदत्तेभ्यो बभूव धनवारिधिः । तत्प्रिया धनदत्ताख्या तत्पुत्रौ धन्यमित्रकौ ॥२॥ अनयोरपरा पुत्री धनमित्रा धनप्रिया । रूपराजितसर्वाङ्गी पीनोन्नतघनस्तनी ॥३॥ अन्यदा निर्धनौ भूत्वा तदा तौ द्वावपि द्रुतम् । मातुलाध्यासितां यातौ कौशाम्बी धनमित्रकौ ॥४॥ मातुलेन ततस्ताभ्यां विश्रब्धाभ्यां महाप्रभाः । अष्टौ मणीश्वरा दत्ता बहुपुण्यसमन्विताः ॥५॥ 28 आगच्छतोस्तयोर्मार्गे विचित्रमणिहस्तयोः। अन्योन्यमारणासक्तिरभवद् धन्यमित्रयोः ॥६॥
परस्परं समालोच्य स्वभावं भ्रातरौ तकौ । हित्वा वेत्रवतीतोये तान्मणीनागतौ गृहम् ॥ ७॥ तदानीं मणयस्तेऽपि मुक्तमात्रा धुनीजले । गिलिता रोहिताख्येन महामीनेन वेगतः ॥ ८॥ काकतालीययोगेन तन्मीनं जालयोगतः । बवा निनाय विक्रेतुं धीवरो विशिखान्तरम् ॥ ९॥ तन्माता बहुमूल्येन गृहीत्वा तं झपं द्रुतम् । आनिनाय तकं गेहं सुतप्राघूर्णकेच्छया ॥१०॥ ॥ तन्मीनपाटतस्ते च मणयो भुवमागताः । तजनन्या द्रुतं दिव्या गृहीतास्तोषयुक्तया ॥११॥
आदाय तान् मणीन् दिव्यान् पुत्रपुत्रीषु तत्क्षणे । बभूव मारणे बुद्धिस्तन्मातुर्धनतृष्णया ॥१२॥ पश्चात्तापं विधायाशु तया ते मणयस्तदा । अनर्घमूल्यसंयुक्ताः खसुतायाः समर्पिताः॥१३॥
[प्रेषिताऽस्य].
4 [बहुपण्य]. 5 पफ
1 पफ त्रिकला, ज त्रिकलमिदम्. 2 [ब्रह्मणा]. "भवद्धनमित्रयोः.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org