________________
-९९. ५५ ]
ऊर्वशीकथानकम्
२४३
२७
देवकोट्यस्त्रयस्त्रिंशद् भूतानामपि सत्वराः । अर्धाष्टकोटयो नूनं मार्तण्डा द्वादशापि च ॥ २३ ॥ एकादश तथा रुद्रा विष्णुरीशोऽपि च स्वयम् । मिलिता देवपुत्राश्च न पश्यन्ति विधिं क्वचित् ॥२४॥' अदृष्ट्वा वेधसं क्वापि महादेवो हरिं जगौ । विष्णो न दृश्यते ब्रह्मा मया सर्वत्र वीक्षितः ॥ २५ ॥ तद्वाक्यतो महादेवो विष्णुना गदितः पुनः । अन्वेषणा विधेरस्य क्रियते क्वापि शंकर ॥ २६ ॥ तदुक्तेन मृडेनापि स्वगणाः प्रेषिता द्रुतम् । गवेषणार्थमेतस्य ब्रह्मणोऽगुर्दिशो दश ॥ चतुर्दशसु ते तस्य भवनेषु गवेषणम् । चक्रुः संभ्रमणं युक्ता ददृशुस्तं न कुत्रचित् ॥ २८ ॥ भुवनेषु समस्तेषु वीक्षितोऽपि विधिः प्रभो । न दृष्टः कापि सोऽस्माभिः कथितं भवतः स्फुटम् ॥२९॥ विष्णुनाऽपि हरः प्रोक्तो यदीमं द्रष्टुमिच्छसि । तदन्तं भवसंक्षेपाद् वायुदेवं प्रवेशय ॥ ३० ॥ तदुक्तेन ततो देवैः सर्वैरपि ससंभ्रमैः । प्रेषितो वायुदेवोऽयं तदन्तं प्राप वेगतः ॥ ३१ ॥ अस्थिचर्मावशेषोऽयं तपः शोषितविग्रहः । पूर्वाशाभिमुखो धीरः समीरणकृताशनः ॥ ३२ ॥ " धरास्थितैकसत्पादो जानुस्थितपराङ्घ्रिकः । कृतोऽर्धबाहुयुगलो गणेत्रीकुण्डिकान्वितः ॥ ३३ ॥ घोरं तपः प्रकुर्वाणः पञ्चकूर्च भयंकरः । दृष्टो वायुकुमारेण विधिर्भीमवनस्थितः ॥ ३४ ॥ वायुदेवः समालोक्य वेधसं दूरतोऽपि सन् । परावृत्य ततो देशाज्जगाम च सुरान्तिकम् ॥ ३५ ॥ जगौ वायुकुमारोऽपि देवानेवं ससंभ्रमः । दृष्टो ब्रह्मा मया कक्षे कुर्वन्नुत्रं तपः परम् ॥ ३६ ॥ वातदेववचः श्रुत्वा महादेवो जगाद तान् । यथा नन्द्यादयो ब्रह्मा तपसो भज्यते द्रुतम् ॥३७॥ " अस्माकमुत्तमो यावज्जायते न मनागपि । जाते सत्युत्तमेऽमुष्मिन् का प्रभा परमा भवेत् ॥ ३८॥ स्थाणुवाक्यं समाकर्ण्य जगौ नन्दीश्वरोऽप्यमुम् । केनोपायेन नाशोऽस्य क्रियते तपसो विभो ॥ ३९ ॥ अत्रान्तरे हरिः प्राह तमेवं पुरतः स्थितम् । स्त्रीनिमित्तेन नाशोऽस्य क्रियते तपसो विधेः ॥ ४० ॥ एवं निगदिते तेन भूयः प्रोक्तोऽमरैरयम् । त्वं कथं परमं वेत्सि रहस्यं ब्रह्मणो विभो ॥ ४१ ॥ सर्वदेववचः श्रुत्वा जगौ विष्णुर्दिवौकसः । विवाहे शंकरस्यायं जातोऽत्र वरकारणात् ॥ श्रुत्वा विष्णूदितं तत्र महादेवो हरिं जगौ । इन्द्र त्वं क्षोभमेतस्य कुरु शीघ्रं मयोदितः ॥ निशम्य शंकरस्योक्तं शक्तो नर्तकपेटकम् | तिलोत्तमा वसन्ताभ्यां प्रजिघाय तदन्तिकम् ॥ ब्रह्मपार्श्वेऽलिझंकारहारिभिः पृथुपादपैः । फलपुष्पच्छदेोपेतैर्विजजृम्भे मधुस्तदा ॥ ४५ ॥ ततो नर्तितुमारब्धा तत्पुरः सा तिलोत्तमा । स्थिता पुरन्दराशायां हावभावादिसंयुता ॥ ४६ ॥ दृष्ट्वा स्वपुरतो वेधा नृत्यन्तीं तां तिलोत्तमाम् । ध्यानाद् भृशं परिप्राप्य ददर्शानिमिषेक्षणः ॥४७॥ " ततोऽन्यदिवसे जाते दक्षिणस्यां दिशि स्थिता । तत्पुरो नर्तनं चक्रे सविलासं तिलोत्तमा ॥४८॥ ब्रह्मा विलोक्य तां देवीं नृत्यन्तीं स्वपुरः स्थिताम् । दध्यौ विस्मितचेतस्कः कामाकुलितमानसः ॥४९॥ मुखं पराङ्मुखं कृत्वा चेत् पश्यामि सुरस्त्रियम् । ततो नभस्स्थदेवानामुपहास्यो भवाम्यहम् ॥५०॥ यदि मे तपसः किंचिन्माहात्म्यं विद्यते भुवि । ततो दक्षिणदिग्भागे द्वितीयं मुखमस्त्वरम् ॥५१॥ ततश्चिन्तितमात्रेण द्वितीयं वदनं विधेः । बभूव तत्समालोक्य स्थितो विस्फारितेक्षणः ॥ ५२ ॥ " यावद्विलोक्यते ब्रह्मा द्वितीयेन मुखेन ताम् । तावन्नृत्यमिदं नष्टं पश्चिमस्यां दिशि स्थितम् ॥ ५३ ॥ पूर्वोक्तविधिना तस्य मन्मथाकुलचेतसः । तिलोत्तमामुखेक्षार्थं तृतीयमभवन्मुखम् ॥ ५४ ॥ यावत् पश्यति तन्नृत्यं तृतीयवदनेन सः । अपरस्मिन् दिने तावदुत्तरस्यां दिशि स्थितम् ॥ ५५ ॥
४२ ॥ ̈
४३ ॥
४४ ॥
6
1 पफ युग्मम् ज युगलमिदम्. 2 पफ चर्मविशेषोयं. 8 [ कृतोर्ध्वबाहु ]. 4 पफ चतुःकुलकम्, ज चतुष्कुल कमिदम् 5 पफ युग्मम्, ज युगलमिदम्. 6 पफ बेक्षणा.
Jain Education International
For Private & Personal Use Only
5
www.jainelibrary.org