________________
5
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ९८. ११३
मुण्डितोपपदः स्वामी प्रभातेऽरुणविग्रहः । कालप्रियेऽपि मध्याह्ने मूलस्थाने दिनात्यये ॥ ११३ ॥ वसन्तसेनया सार्धं कामभोगं निजेच्छया । एवं कृतप्रयोगोऽयं नमिस्तिष्ठति तत्पुरे ॥ ११४ ॥ दुर्मुखेन सुतेनामा कर्कण्डेन विरागिणा । दधौ जैनेश्वरीं दीक्षां तथा नग्नकिना नमिः ॥ ११५ ॥ विहरन्तोऽपि चत्वारो जिनभक्तिपरायणाः । निगमं कुम्भकाराख्यं संप्राप्ता दिवसात्यये ॥ ११६ ॥ आपाके भूतिमध्ये च कुम्भकारगृहान्तिके । तस्थुरभ्रावकाशेन चत्वारोऽपि मुनीश्वराः ॥ ११७ ॥ कुलालोऽपि तमापाकं नक्तं मुनिसमन्वितम् । ददाह कुटभाण्डार्थं चित्रभानुसमाश्रयात् ॥ ११८ ॥ उपसर्गं सहित्वाऽमुं चत्वारोऽपि यतीश्वराः । आराधनां समाराध्य निर्वाणमगमंस्तराम् ॥ ११९॥ ॥ इति श्रीराजमुनिकथानकमिदम् ॥ ९८ ॥
25
२४२
९९. ऊर्वशीकथानकम् ।
15
1. ब्रह्मणा देवपुत्रेण ब्रह्मलोके हि तिष्ठता । इदं हि चिन्तितं तेन जनतानन्दमिच्छता ॥ १ ॥ विष्णुलोके तथा स्वर्गे शक्रविष्णुमहेश्वराः । सभां देवद्विजाः सर्वे तूर्णमायान्ति सादराः ॥ २ ॥ मत्समीपं न कोऽप्येति भक्तिनिर्भरमानसः । अहमेकोऽत्र तिष्ठामि ब्रह्मलोके भयोज्झितः ॥ ३ ॥ चिन्तयित्वा चिरं ब्रह्मा स त्रिलोकदिदृक्षया । ब्रह्मलोकविरक्तात्मा मर्त्यलोकं समाययौ ॥ ४ ॥ * बुद्धा विष्णुमहादेव दुर्गायक्षादिभावितः । स तिष्ठते जनः सर्वस्तद्रूपाहृतमानसः ॥ ५ ॥ तदर्थं सितवर्णानि समुत्तुङ्गानि सर्वतः । साण्वराणि सगीतानि लोकः कारयति स्म सः ॥ ६ ॥ तत्संस्कारं समालोक्य कोपमासाद्य चेतसि । ब्रह्मशालां जगामाशु ब्रह्मलोकपराङ्मुखः ॥ ७ ॥ ब्रह्मरूपं समालोक्य तत्र पूजाविवर्जितम् । ब्रह्मा कोपपरीताक्षो दध्याविति स मानसे ॥ ८ ॥ मुखबाहूरुपादेभ्यो द्विजक्षत्रियवैश्यकाः । शूद्राश्चेति मया सृष्टास्तथाऽप्येते प्रमादिनः ॥ ९ ॥ कर्ता हर्ता स्वयंभूश्च प्रजापतिरहं क्षितौ । हिरण्योपपदो गर्भो लोकवित्तः पितामहः ॥ १० ॥ 20 तथाऽपि सर्वलोकेन परिभूतोऽस्मि सांप्रतम् । मच्छिष्या' माहना ये च तैर्दृष्टोऽहमवज्ञया ॥११॥ स्वपूजास्थानमिच्छन् स महारण्यं प्रविश्य च । तपः कर्तुं समारब्धः सामान्यनरदुः करम् ॥ १२ ॥ दिव्यार्धाष्टसहस्राणि वर्षाणामस्य वेधसः । गतानि वनविष्टस्य कुर्वाणस्य तपः परम् ॥ १३ ॥ पञ्चकालप्रमाणानि सन्त्यलं वेदवादिनाम् । मनुष्यादिप्रमाणं तु प्रथमं परिकीर्तितम् ॥ १४ ॥ ऋषिप्रमाणमुद्दिष्टं स्फुटं दिव्यप्रमाणकम् । कालप्रमाणमन्यच्च तथा ब्रह्मप्रमाणकम् ॥ १५ ॥ मनुष्यादिप्रमाणं तु प्रथमं प्रतिपाद्यते । त्रिंशन्मुहूर्तसंभूतमहोरात्रमिदं भवेत् ॥ १६ ॥ त्रिंशदिवस संभूतो मासो भवति निश्चितम् । एवं द्वादशभिर्मासैर्वर्षमेकं प्रजायते ॥ १७ ॥ मनुष्याणां हि यः शुक्लः पक्षो भवति सर्वदा । तत्पितॄणां दिनं चैकं निगदन्ति मनीषिणः ॥ १८ ॥ यस्तु कृष्णः पुनः पक्षः सैकरात्रिः प्रकीर्तिता । उभयं तद्गृहीत्वैकमहोरात्रमिदं भवेत् ॥ १९ ॥ एभिस्त्रिंशदहोरात्रैर्दिव्यो मासो भवत्ययम् । एवं द्वादशभिर्मासैर्दिव्यं वर्षं मतं बुधैः ॥ २० ॥ एतेन वर्षमानेन समाधष्टसहस्रकम् । अन्यैर्दुःखकरं कक्षे ब्रह्मणा विहितं तपः ॥ २१ ॥ एवंविधं तपः शक्त्या कुर्वाणस्य तपो विधिः । महावने महात्रासं कारणे महतामपि ॥
30
२२ ॥
*
1 पफ निमिस्तिष्ठति 2 पफ चतुःकुलकम्, ज चतुःकुलकमिदम्. 3 ज तद्रूपहृत 4 [ साणूराणि ]. 5 [ ब्रह्मा ]. 6 पफ परीताख्यो. 7 पफ मच्छिक्षा. 8 [ विधेः ]. 9 पफ महात्रास •
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org