________________
-९८. ११२] राजमुनिकथानकम्
२४१ प्रद्मनागेन्द्रनीलादिमहारत्नकदम्बकैः । मूल्यहीनैर्महादेवी भृत्वा सा करवालिकाम् ॥ ८१॥ वसनेन समाच्छाद्य शशिशंखनिभेन ताम् । विश्वसेना ददावस्मै विप्राचार्याय भक्तितः ॥ ८२॥' श्रीखण्डेन समालब्धो नववस्त्रसमावृतः । गृहीतकरताम्बूलो निर्जगाम तदालयात् ॥ ८३॥ आगत्य तगृहं शीघ्रं गोविन्दः प्रीतमानसः । नमये रत्नसंपूर्णां ददौ तां करपालिकाम् ॥ ८४ ॥ नानारत्नभृतां तत्र समादाय स्वहस्ततः । विश्वदेव्यै प्रदायासौ जगादैतां नमिः पुनः॥ ८५॥ । तव भद्रे सुतो भावी द्वात्रिंशल्लक्षणान्वितः । जातमात्रस्त्वया नूनं मोक्तव्योऽयं श्मशानके ॥८६॥ पुत्रहीनेन भूपेन कालं प्राप्तेन सुन्दरि । राजहस्ती तमादाय तद्राज्ये स्थापयिष्यति ॥ ८७॥ एवमुक्त्वा प्रियां गेहे तद्वाक्यात् प्रीतमानसाम् । नमिर्मुदितचेतस्को मौनमादाय तस्थिवान् ॥८॥ विश्वदेवी ततः पुत्रं प्रसूता चारुलक्षणम् । आदाय तं श्मशाने च मुमोच नमिवाक्यतः ॥ ८९॥ अथ देवरती राजा तत्पुरे छत्रवर्जिते । कालगोचरतां प्राप्तो बालपुण्योदयादपि ॥ ९० ॥ ॥ । भूपमत्रिविमुक्तेन तदानीं राजहस्तिना । श्मशानात् पाणिनादाय स्वपृष्ठे स्थापितः शिशुः ॥९१॥ ततः सिंहासने मुक्त्वा बालं कुञ्जरनायकः । अभिषेकं चकारास्य भर्मकुम्भेन चारुणा ॥ ९२॥ राज्यपढें नृपा बवा कुमारस्य महत्तराः । पादारविन्दमानेमुर्मस्तकन्यस्तपाणयः ॥ ९३ ॥ क्रमेण वृद्धिमासाद्य तदा कालप्रिये पुरे । राज्यं कर्कटनामायं चकार पृथुधर्मतः ॥ ९४ ॥ विश्वदेवीमपहाय वैराग्याहितमानसः । नमिः स्वगुरुमासाद्य दीक्षितस्तदनुज्ञया ॥ ९५॥ भूयोऽपि विहरन् प्राप पुरिमोपपदं पुरम् । आपणारामसाणूरसौधवापीविराजितम् ॥ ९६ ॥ बभूव मरुदेशे च मूलस्थानं महापुरम् । सिंहसेनो नृपस्तस्य सिंहसेनाऽस्य कामिनी ॥ ९७॥ अनयो रूपसंपन्ना नीलोत्पलदलाम्बिका । कन्या वसन्तसेनाख्या तिष्ठत्यन्तःपुरान्तरे ॥ ९८॥ ततो नमिमुनिः प्राप्य मूलस्थानं पुरं परम् । यामद्वये च भिक्षार्थे प्रविष्टो राजमन्दिरम् ॥ ९९॥ ततः प्रविष्टमात्रः सन् कन्यां तां वीक्ष्य स चिरम् । परस्परं तयोर्बाढमनुरागो महानभूत् ॥१००॥ 20 दरवलं प्रविश्याशु नमिर्नक्तं दिने दिने । वसन्तसेनया साध कन्यया रमतेऽनिशम् ॥ १०१॥ नमिनाऽमात्र शं नक्तं भुजानाया निजेच्छया । गर्भो वसन्तसेनाया बभूव रतियोगतः ॥१०२॥ कन्यां वसन्तसेनाख्यां दृष्ट्वा धात्री सुमङ्गला । जगाद केन गर्भस्ते विहितः पुत्रि मे वद ॥१०३॥ धात्रीवचनमाकर्ण्य कन्या प्रोवाच तां पुनः । नक्तमेको मुनिः प्राप्तस्तेन गर्भः कृतो मम ॥१०४॥ भूयस्तां धात्रिका प्राह स्वकर्तव्यानताननाम् । यस्मिन् दिने मुनिःप्राप्तस्तदिनं वेत्सि बालिके॥१०५॥ भूयो धात्रीं सका प्राह मातनों वेभि तद्दिनम् । धान्योदिता पुनः कन्या शिक्षापणनिमित्ततः॥१०६॥ त्वत्समं रन्तुकामस्य मुनेरस्य नितम्बिनि । कर्तव्यो गच्छतः पृष्ठे त्वया कुङ्कुमहस्तकः ॥ १०७॥ आगतस्य पुनर्नक्तं कन्यया तस्य तत्कृतम् । ज्ञातोऽसौ तेन चिह्नन प्रभाते पुरि तन्नरैः ॥१०८॥ ततोऽसौ तन्नरैनीतः स्वगृहं भाषितः पुनः । सांप्रतं भगवन् शीघ्रं मा भोगं प्रशमं नय ॥१०९॥ ततस्तद्वाक्यतः साधुः कन्यया सह निर्भयः । आदित्यभवनं प्राप मूलस्थानसमुद्भवम् ॥ ११०॥॥ तद्गर्भे नमकिर्नाम पुत्रो भासुरविग्रहः । उत्पादितः पुनस्तूर्णमादित्येन प्रभावता ॥ १११॥ नमिरादित्यरूपेण तेजोव्याप्तनभोदिशा । एवं प्रसिद्धिमायातो लोके विस्मितमानसे ॥ ११२ ॥
1 पफ युग्मम् , ज युगलमिदम्. 2 पफ त्रिकलम् , ज त्रिकलमिदम्. 3 ज छत्रवर्जितः. 4 ज भूयोऽसौ. 5 पफ सन्नरैः.
वृ० को० ३१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org