________________
२४० हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ९८. ५०क्रमेण यौवनं प्राप्य मुण्डीरस्वामिपत्तने । चकार दुर्मुखो राज्यं कण्टकैः परिवर्जितम् ॥ ५० ॥ पूर्वजन्मकृतेनायं धर्मेण पृथुसंपदम् । दुर्मुखं पाप तेनोचैर्धर्म कुरुत सज्जनाः ॥५१॥ नमिर्वैराग्यमासाद्य भूयोऽपि स्मृतदुःकृतः । गुरोर्वृषभसेनस्य समीपे मुनितामितः ॥५२॥ ग्रामादिकं परिभ्रम्य तदानीं गतियोगतः । कालप्रियं पुरं पाप नानाजनमनोरमम् ॥ ५३॥ 5 तत्र राजा महासेनः पुत्रहीनः कलालयः । बभूव तन्महादेवी विश्वसेना मनःप्रिया ॥ ५४॥ अत्रैव नगरे रम्ये पताकावलितोरणैः । गङ्गाभद्रो कुलालोऽस्य विमलाख्याऽभवत् प्रिया ॥ ५५ ॥ अनयोस्तनया जाता रूपयौवनगर्विता । विश्वदेवीति विख्याता कलाविज्ञानकोविदा ॥५६॥ आमपात्राणि शोषार्थ विधाय स्वगृहाजिरे । गतावन्यत्र' तौ तस्याः पितरौ कारणं प्रति ॥ ५७ ॥ तत्काले कालपानीयं धनाधनविसर्जितम् । बभूव विश्वदेवी च व्याकुला तत्सुता तदा ॥ ५८॥ " विश्वदेवीं समालोक्य विलापं कुर्वती तराम् । नमिः साधुर्बभाणेमां प्रविष्टश्चर्यया कुधीः ॥ ५९॥ यदि त्वं बालिके मुग्धे नरमिच्छसि सांप्रतम् । प्रवेशयामि ते गेहं भण्डकानि ततो वद ॥६॥ विश्वदेवी तदाकर्ण्य तद्वचो निजगाविदम् । अहं कुमारिका साधो तिष्ठाम्यद्यापि पावन ॥ ६१॥ किंतु मत्पितरौ साधो विद्येते क्वापि संगतौ । यदि मां प्रयच्छतस्तौ च ततो वाञ्छाम्यहं नरम् ॥२॥
अवाचि साधुना भूयो विश्वदेवी पुरःस्थिता । देवी नृपतिरस्कारकारिणी निजरूपतः ॥ ६३॥ 15 विद्याभिमत्रितं दण्डं गृहाणेमं मनस्विनि । स्पृशानेन खभाण्डानि गृहान्ते येन यान्त्यरम् ॥ ६४॥
आदाय तत्कराद्दण्डं तेन स्पृष्टानि तानि च।[...........................] ॥६५॥ तगृहान्तं प्रविष्टानि भण्डकानि विलोक्य तौ । तोषपूरितचेतस्कावभूतां दम्पती तदा ॥६६॥ ज्ञात्वा भाण्डकवृत्तान्तं विश्वदेवीनिवेदितम् । कुम्भकारो ददावस्मै हृष्टचेताः स्वकन्यकाम् ॥६७॥ कुम्भकारसुतां तत्र परिणीय नमिः पुनः । एकवर्ष तया सार्धं स्थितवान् प्रीतमानसः॥ ६८॥ 2. विधाय सुरतं हृद्यं नमिना सह सादरम् । संजाता गर्भिणी बाला विश्वदेवी मनोरमा ॥ ६९ ॥
एकस्मिन् दिवसे प्रोक्तो विश्वदेव्या नमिस्तदा । निरुत्साहतयाऽनेहाः कथं यास्यन्ति ते धव ॥७॥ विश्वदेवीवचः श्रुत्वा नमिना करपालिका । कृता मृत्स्वासमुत्पन्ना जनमानसहारिणी ॥ ७१ ॥ अथ गोविन्दनामाशु ब्रह्मचारी द्विजोत्तमः । नमिं प्राप्य परिश्रान्तो ययाचे करपालिकाम् ॥ ७२॥ विप्रस्य वचनं श्रुत्वा नमिर्विद्याभिमत्रितम् । अनयाऽवस्थया तस्मै प्रददौ करपालिकाम् ॥ ७३॥ 25 अद्यैकदिवसे नूनं यत्किंचिल्लभते द्विज । अस्यां सर्वं तदस्मभ्यं दातव्यं भवता सता ॥ ७४ ॥
नमिवाक्यं समाकर्ण्य गोविन्दो निजगावमुम् । अहो प्रजापते सत्यमेवमस्त्विति सज्जन ॥ ७५॥ नमिदत्तां समादाय गोविन्दः करपालिकाम् । भिक्षार्थ पत्तनं यातो नानाजनसमाकुलम् ॥ ७६ ॥ प्रविशन्तं समालोक्य पुरमध्यं द्विजं त्विमम् । सुरूपया महादेव्या विश्वसेनाऽभिधानया ॥ ७७॥
उपवासविधि सत्यामदृष्टस्त्रीसमाभिधम् । कुर्वाणया तमानेतुं निजविप्रः प्रवेशितः ॥ ७८॥ 30 दृष्ट्वाऽमुं पुरमध्यस्थं पुरस्कृत्य स माहनः । विश्वसेनमहादेवीसमीपं नीतवान्नरम् ॥ ७९ ॥ भोजनं षड्रसोपेतं यथेष्टविधिपूर्वकम् । प्रददौ विश्वसेनाऽस्मै विप्राय ब्रह्मचारिणे ॥ ८ ॥
___ 1 पफ गतवान्यत्र. 2 पफ युग्मम् , ज युगलमिदम्. 3 युग्मम् , ज युगलमिदम्. 4 In all the Mss., the verse No. 71 is made up of three lines, i. e., निरुत्साहतया...to जनमानसहारिणी. It appears that perhaps the second line of No. 65 is missing. I have kept it blank and adjusted the other lines. 5 पफ सरूपया. 6 पफ युग्मम्, ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org