________________
-
२३९
-९८. ४९]
राजमुनिकथानकम् मत्तातोपार्जितं मूढ भोजनं हि दिने दिने । निरुत्साहो निरामर्षो भुञ्जानः किं न लज्जसे ॥ १७॥' भार्यावचनमाकर्ण्य विलक्षीभूतमानसः । तदानीं च विलक्षात्मा क्षणमेकं स तस्थिवान् ॥ १८॥ पूर्ववार्धिप्रतीरस्थं नानाजनधनान्वितम् । ययौ सचित्रसाणूरं मुण्डीरस्वामिपत्तनम् ॥ १९॥ तत्र प्रेक्षां स संप्राप्य रवावस्तमनं गते । नक्तं नृत्यं प्रकुर्वाणो मुमोच कुसुमाञ्जलिम् ॥ २०॥ नानाजनसमाकीर्णे सभामध्ये नमिस्तदा । दिव्यं श्लोकं पपाठेमं घनाघनकलस्वनः ॥ २१॥ । चिन्तनीयं खतो दीर्घ कर्तव्यं नाल्पकं सुखम् । उत्पथेन न यातव्यं न श्रोतव्यं खलोदितम् ॥ २२॥' अथ राजसुता तन्वी कुमारी यौवनान्विता । परं नरं समादाय संध्याऽनेहसि रूपिणी ॥ २३ ॥ बहुभेदानि रुच्यानि रत्नं रजतकाञ्चनम् । बवा वस्त्राञ्चले सारनानावस्तूनि सादरम् ॥ २४ ॥ स्तोकवेलां समास्थाय यास्यावः स्वपुरादरम् । नटं द्रष्टुं समायाता सुन्दरं विटसंगता ॥२५॥ चिन्तनीयं खतो दीर्घ श्लोकप्रथमपादकम् । श्रुत्वा सा तद्धनं दत्त्वा नटाय स्वगृहं ययौ ॥२६॥ काचित् तपस्विनी चैका ब्रह्मचर्यकदर्थिता। परं पुरुषमादाय गन्तुकामा मदातुरा ॥२७॥ पद्मरागमहानीलकनकादिकदम्बकम् । प्राध्वंकृत्य च वस्त्रान्ते नटं द्रष्टुं समाययौ ॥ २८॥ कर्तव्यं नाल्पकं सौख्यं द्वितीयश्लोकपादकम् । सा परिव्राजिकाऽऽकर्ण्य तोषकण्टकिताङ्गका ॥२९॥ वितीर्य तं मणिग्रन्थि शैलूषाय त्वरावती । जगाम मन्दिरं तुष्टा तदा सा बालिका निजम् ॥३०॥ तत्रैकः सार्थवाहोऽपि शुल्कं भङ्क्तवा विहाय तम् । मार्ग गच्छति वेगेन प्राप्य रत्नकदम्बकम् ॥३१॥ नटं द्रष्टुं समायातो हावभावसमन्वितम् । विलासविभ्रमोपेतं नवनाट्यरसान्वितम् ॥ ३२ ॥ उन्मार्गेण न यातव्यं श्लोकपादतृतीयकम् । आकर्ण्य सार्थवाहोत्र शैलूषेण निवेदितम् ॥ ३३॥ रत्नग्रन्थि प्रदायास्मै शुल्कं स नृपसंभवम् । सार्थमादायमार्गेण ययौ धाम स्ववाञ्छितम् ॥३४॥ तथैको राजपुत्रोऽपि निहत्य पितरं द्रुतम् । राज्यं गृहीतुकामोऽयं नटं द्रष्टुं ययौ धनी ॥ ३५॥ न श्रोतव्यं खलस्योक्तं श्लोकपादचतुर्थकम् । निशम्य राजपुत्रोऽयं संतोषस्थितमानसः ॥ ३६॥ " मणिग्रन्थिं प्रदायास्मै राजपुत्रो नटाय सः । युवराज्यपदे तस्थौ हित्वा सर्वां कुवासनाम् ॥ ३७॥ रत्नग्रन्थीः समादाय चतुरोऽपि नमिः पुनः । प्रदाय हृष्टचेतस्को जगाद कनकसृजम् ॥ ३८॥ गर्भेऽमुष्मिन् प्रिये तेऽरं भविष्यति सुतः शुभः । अमुं मुरजमध्यस्थं चितायां मोक्तुमर्हसि ॥३९॥ तद्वाक्यतस्तया बालो जातमात्रोऽपि तत्क्षणात् । कृतो मुरजमध्यस्थः श्मशाने निष्ठुराशया ॥४०॥ तत्काले तत्पुरे शीघ्र विश्वसेनो महीपतिः । जगाम पञ्चतावाप्तिं शरीरेण विवर्जितः॥४१॥ 5 अत्रान्तरे समालभ्य कुङ्कुमेन प्रसूनकैः । अर्चयित्वा प्रदायापि यूपमादाय पेशलम् ॥ ४२ ॥ तूर्याणि समतालानि कृत्वा तत्पुरतो नृपाः । मत्रिणः करकुम्भं हि मुमुचू राजहस्तिनम् ॥४३॥' आपणं गृहमारामं साणूरं निम्नगं तटम् । सरोवरं पुरं सर्वं बभ्राम स करी क्रमात् ॥४४॥ दृष्ट्वा पितृवने बालं मुरजान्तरवर्तिनम् । करस्थस्वर्णकुम्भेन स्नापयामास वारणः ॥ ४५ ॥ करेण तं समादाय पृष्ठमारोप्य वेगतः । राजहस्ती जगामायं दरवलं समुत्तमम् ॥ ४६॥ . कृत्वा सिंहासने दिव्ये मेरुकूटसमप्रमे । भूयोऽपि स्लपयामास करकुम्भेन कुञ्जरः ॥४७॥ ततो भूपतयः सर्वे पट्टबन्धनकारिणः । सस्नुमहत्तरा बालं कनत्कनककुम्भकैः ॥४८॥ विधाय दुर्मुखाभिख्यं शेषान्निक्षिप्य मस्तके । राज्यपढें बबन्धुस्ते बालस्य नरकुञ्जराः॥४९॥
1 पफ युग्मम् , ज युगलमिदम्. 2 पफ त्रिकलम् , ज त्रिकलमिदम्. 3 पफ युग्मम् , ज युगलमिदम. 4 पफ युग्मम् , ज युगलमिदम्. 5 पफ युग्मम् , ज युगलमिदम्. 6 पफ चिताया, 7 पफ युग्मम्,ज युगलमिदम्. 8 [शारीरेण]. 9 पफ युग्मम् , ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org