________________
२३८
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ९७. १८६
श्रुत्वा तत्पत्तनोद्याने नन्दिषेणयतीश्वरम् । विश्वसेनो नृपः प्राप दुरण्डनगराधिपः ॥ १८६ ॥ प्रणम्य तं मुनिं भक्त्या जैनं धर्मं निशम्य च । पप्रच्छेदं विनीतात्मा विश्वसेनो नराधिपः ॥ १८७॥ नाथ कस्यानुभावेन गन्धारविषये मम । उपसर्गो महान् जातो ब्रूहीमं वितथेतरम् ॥ १८८ ॥ विश्वसेनवचः श्रुत्वा जगादेति महामुनिः । ' अक्षमापितविद्योऽसौ खेचरैर्निहतो मृतः ॥ १८९ ॥ · गन्धारविषये राजन् भवदीयेऽक्षमापिता । उपसर्गं प्रकुर्वन्ति ता विद्या रुषमागताः ॥ १९० ॥ श्रुत्वा मौनीश्वरं वाक्यं विश्वसेनो जगाविमम् । केनोपायेन मद्देशो भवतीतिविवर्जितः ॥ १९१ ॥ अवाचि विश्वसेनोऽपि नन्दिषेणेन सूरिणा । कृत्वेष्टकचितां दिव्यां महाविस्तीर्णपीठिकाम् ॥ १९२॥ कृत्वा भवाक्षोपस्थं च कृत्वा तत्पीठिकोपरि । प्रविधायात्र तन्मध्ये प्रयत्नेन भवेन्द्रियम् ॥ ९९३ ॥ ततो बलिविधानेन तल्लिङ्गं वरिवस्यते । अनेन विधिना राजन् सन्ति विद्या क्षमापिता ॥ १९४ ॥ " एवं कृते सति क्षिप्रं गन्धारविषयस्तव । उपसर्गविहीनोऽसौ जायते धरणीपते ॥ १९५ ॥ *
श्रुत्वा मौनीश्वरं वाक्यं भक्तिनिर्भरमानसः । चकार विश्वसेनोऽरं सर्वं मुनिनिवेदितम् ॥ १९६ ॥ तन्मेढ्रपूजनाच्छीघ्रं गन्धारविषयोऽखिलः । बभूवेतिपरित्यक्तो नन्दिताशेषजन्तुकः ॥ १९७ ॥ ततः प्रभृति सर्वत्र विजयार्धस्य दक्षिणे । भरते शर्वलिङ्गस्य स्थापना विहिता जनैः ॥ १९८ ॥ ॥ इति श्रीनीललोहितकथानकमिदम् ॥ ९७ ॥
*
९८. राजमुनिकथानकम् ।
विदेहाख्यजनान्तेऽस्ति मिथिला नगरी परा । मरकोऽस्यां नराधीशो धनसेनाऽस्य गेहिनी ॥ १ ॥ अनयोरभवन् पुत्राः शूरः पद्मरथो नमिः । विनयाचारसंपन्ना नीतिशास्त्रविशारदाः ॥ २ ॥ अन्यदा मरको राजा नमिनामाऽमलाशयः । दधौ दमधरान्तेऽसौ दीक्षां दैगम्बरीं पराम् ॥ ३ ॥ दृष्ट्वा पानीयमध्ये च पश्यन्तं स्वतनुं क्वचित् । नमिं दमवराचार्यश्चकारादेशमस्य सः ॥ ४ ॥ " मुने त्वं नीरमध्यस्थं यत्स्वबिम्बं प्रपश्यसि । स्त्रीनिमित्तं ततो नूनं तपसो भङ्गमेष्यसि ॥ ५ ॥ गुरुवाक्यं समाकर्ण्य रामावैराग्यमागतः । विलक्षः स मुनिः शीघ्रं ययौ भीमां महाटवीम् ॥ ६ ॥ ततः सागरदत्ताख्यः सार्थवाहो महाधनः । सार्थेन महता युक्तश्चकारावासमत्र सः ॥ ७ ॥ तत्र नानानटाधारो गोविन्दो नटपेटकः । तत्प्रिया चाभवद् भद्रा भद्रभावा प्रियंवदा ॥ ८ ॥ सुता तयोः कलाधारा रूपयौवनराजिता । काञ्चनोपपदा माला काञ्चनाभशरीरका ॥ ९ ॥ 25 एतस्या रूपमालोक्य कामाकुलितमानसः । सद्यो बभूव मूढात्मा स मुनिस्तद्भताशयः ॥ १० ॥ नृत्यं शैलूषसंघानां नृत्यतां तत्र सादरम् । स मुनिर्दूषयामास नृत्यगीतविचक्षणः ॥ ११ ॥ श्रुत्वा तद्वचनं तत्र भृकुंशैः प्रीतमानसैः । दत्ता काञ्चनमालाऽस्मै गुणसंघातसिद्धये ॥ १२ ॥ विहाय चरणं दीनस्तया कनकमालया । भुञ्जानः सुतरां भोगान् भङ्गुरान् स वितिष्ठते ॥ १३ ॥ अथ काञ्चनमालायाः कृते गर्तेऽमुना सति । जगाद तनयां माता तद्विक्षेपणकारिणी ॥ १४ ॥ ॐ मद्भोजनं प्रभुञ्जानस्त्वत्पतिः सालसः सुते । संतिष्ठते विनीतात्मा धनोपार्जनवर्जितः ॥ १५ ॥' ततः काञ्चनमाला च नमिं भर्तारमादरात् । जगादेयं मिथो रुष्टा जननीवचनादरम् ॥ १६ ॥
15
1 प writes verse No. 187 twice. 2 फ अमाक्षपित 3 पफ युग्मम्, ज युगलमिदम्. 4 पफ चतुष्कुलकम्, ज चतुष्कुल कमिदम् 5 पफ युग्मम् ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org