________________
- ९७. १८५ ]
नीललोहितकथानकम्
२३७
१६५ ॥
जातमात्राऽपि सा पुत्री नवमे मासि दुःखतः । निर्विण्णया महादेव्या परिमुक्ता गुहान्तरे ॥१५३॥ अत्रैव नगरे कान्ते सोमशर्माऽभवद् विजः । भार्याऽस्य सोमिला नाम प्राणेभ्योऽपि गरीयसी ॥१५४॥ बभूवुरनयोरस्याश्चतस्रस्तनयाः पराः । भद्रा खन्दा तथा सौम्या वैरिणी नाम विश्रुता ॥ १५५ ॥ अन्यदैताश्चतस्त्रोऽपि देवतार्चनकारणात् । जग्मुः पुष्पाणि चादातुमुद्यानवनमादरात् ॥ १५६ ॥ गुहायां च मोमेति नादं विदधतीं तदा । विलोक्य बालकां कान्तां चतस्रो विस्मयं ययुः ॥ १५७॥ ' अस्या विधाय नामेदमुमाख्यं भुवि विश्रुतम् । आदायेमां चतस्रोऽपि ययुर्जिनगृह' तकाः ॥ १५८ ॥ ततस्ताभिरुमा बाला बालादित्यसमप्रभा । वासवस्य महादेव्याः मित्रवत्याः समर्पिता ॥ १५९ ॥ संवर्धननिमित्तेन तद्रूपाहितचेतसा । मित्रमत्या च सा बाला धात्रिकायाः समर्पिता ॥ अन्यदेन्द्रपुराधीशश्चन्द्रसेनो महीपतिः । गिरिकर्णिकया सार्धं रूपवत्या स्वकान्तया ॥ तदा धराविहारेण विहरन् विस्मयाकुलः । श्रावस्तीं नगरीं प्राप पताकावलिराजिताम् ॥ विलोक्य तामुमामत्र मित्रवत्याः समर्पिताम् । गिरिकर्णाभिधा खेटी जग्राह बहुविस्मया ॥ आदाय तामुमां साऽपि रूपराजितविग्रहा । पुत्रीं पुत्रविहीनायास्तनूजाया ददौ पुनः ॥ तया सुतानुरागेण स्वपुरं प्राप्य बालिका । वृद्धिं नीता प्रयत्नेन जाता विद्यासमन्विता ॥ देवकूटपुरेशाय वज्रवेगाय बालिका । खेचराय वितीर्णा सा यौवनस्थाऽनया परा ॥ १६६ ॥ ततोऽसौ दत्तमात्रायामुमायां दयितो मृतः । स्वच्छन्दा सा मदोन्मत्ता देवदारुखगं ययौ ॥१६७॥ ” हतां दिने दिने श्रुत्वा कन्यामेकैककामसौ । तथाऽपि देवदारुस्तामीश्वराय ददौ तदा ॥ १६८ ॥ भवोऽपि च तया सार्धमुमया प्रीतचेतसः । विजयार्धगिरौ तस्थौ भुञ्जानः सुखमुत्तमम् ॥ १६९ ॥ जटामुकुटधारीशो भूतिधूसरिताङ्गकः । कर्ता सर्वस्य लोकस्य स्वयंभूरहमुत्तमः ॥ १७० ॥ एवंविधस्तयाधीशो मन्यमानः स्वमादरात् । अवतारं चकारासौ दक्षिणे भरते भुवि ॥ अत्र लोकस्य विख्यातः शैवधर्मं प्रकाशयेत् । शैवाचार्यैः समं सर्वैर्बहुभिः परिवारितः १७२ ॥ 20 उमया सह कुर्वाणः स्वेष्टदेशेषु मैथुनम् । चकार संगतः प्रीतो विहारं द्वादशाब्दकम् ॥ १७३ ॥ * गतेषु द्वादशाब्देषु सर्वे विद्याधरा द्रुतम् । भयात् क्षोभं परिप्राप्य जजल्पुस्ते परस्परम् ॥ १७४ ॥ विद्यानां पारदृश्वाऽयं समस्तानां प्रचण्डधीः । अस्मान् निर्धाट्य वेगेन विजयार्धं गृहीष्यति ॥१७५॥ उभयश्रेणिगाः खेटास्तद्भयाकुलमानसाः । कदाऽस्य मारणं कुर्मश्चिन्तयन्तः सदाऽभवन् ॥१७६॥ कृत्वा परस्परं पृच्छां खेचरा भयविह्वलाः । उमेदं मायया पृष्टा तदा योजनगन्धया ॥ १७७ ॥ 25 पुत्रि भर्तुस्तवैतस्य कस्मिन् काले नितम्बिनि । विद्या विनाशमायान्ति कथयेदं ममाधुना ॥ १७८ ॥ निशम्य तद्वचः क्षिप्रं जगौ छिद्रं भवस्य सा । यस्मिन् काले मया सार्धं भुञ्जानस्यास्य मन्मथम् ॥ १७९॥ तस्मिन् कालेऽखिला विद्या वशीकृतमहीतलाः । भविष्यन्त्यस्य नो वश्याः कथितं मे तव स्फुटम् १८०० तद्वाक्यतः परिप्रापुः तद्वधोपायमीदृशम् । तोषपूरितचेतस्का बभूवुः खेचरा भृशम् ॥ १८१ ॥ गन्धाराख्यमहादेशे दुरण्डनगरे परे । बहिः सुप्तं समालोक्य चोमया सह शंकरम् ॥ १८२ ॥ ३७ आदाय खेचरैस्तत्र तच्छिरः प्रीतमानसैः । निहत्य दंपती वेगात् पञ्चत्वं प्रापिताविमौ ॥ १८३ ॥ मुष्मिन् यथा सद्यो गन्धारविषयोऽखिलः । उपसर्गं विधायोग्रं विद्याभिर्नाशितो द्रुतम् ॥ १८४ ॥ तस्मिन्नुद्वासिते तत्र नन्दिषेणो मुनीश्वरः । दुरण्डनगरं प्राप्य' गन्धारविषयोद्भवम् ॥ १८५ ॥
१७१ ॥
॥
I
4 पफ युग्मम्,
1 [ ययुर्निजगृहं ] 2 पफ युग्मम् ज युगलम् 3 पफ युग्मम् ज युगलम्. ज युगलम् 5 पफ युग्मम् ज युगलम् 6 पफ युग्मम् ज युगलम् 7 [ प्राप ].
Jain Education International
For Private & Personal Use Only
१६० ॥
१६९ ॥ १६२ ॥ ̈
१६३ ॥
१६४ ॥
www.jainelibrary.org