________________
२३६ हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ९७. १२०ततो महाप्रमोदेन तुर्यमङ्गलनादिना । ददामि भवतीस्तस्मै नान्यथा नियतं सुताः ॥ १२०॥ एवं निगद्य ताः कोऽपि कञ्चकी प्रेषितोऽमुना । तत्समीपं परिप्राप्य निजगादेति तं पुनः॥१२१॥ यथाऽस्मद्भूपतिर्वक्ति भवन्तं मन्मुखादरम् । सर्वकार्यसमासंगकारणोद्यतमानसम् ॥ १२२ ॥ प्रवेशं यदि मे तत्र करोति त्रिपुरे चिरात् । ततः कन्यां प्रयच्छामि भक्तो नान्यथा क्वचित् ॥१२३॥ ' श्रुत्वा कञ्चुकिनो वाक्यं रुद्रोऽपि निजगावमुम् । प्रवेशं त्रिपुरे वृद्ध करोम्येतस्य सांप्रतम् ॥१२४॥ निशम्य तद्वचो वृद्धः संप्राप्य स्खपति क्रमात् । जगादेमं पुनः प्रीतो विस्मयाकुलमानसः॥१२५॥ राजन् मुनिर्वदत्येवं यदि कन्याः प्रयच्छसि । मह्यं ततः प्रवेशं ते करोमि त्रिपुरे द्रुतम् ॥१२६॥ वृद्धकञ्चुकिवाक्येन देवदारुः स खेचरः। स्वगेहं रुद्रमानीय बभाणेमं ससंभ्रमम् ॥ १२७ ॥ पूर्ववृत्तववृत्तान्तं विजयाधसमुद्भवम् । देवदारुर्जगादास्मै रुद्राय सकलं तदा ॥ १२८॥ " विद्याधरोदितं श्रुत्वा रुद्रोऽपि निजगावमुम् । बहुनाऽपि किमुक्तेन सर्व संपादयामि ते ॥१२९॥ ततो रुद्रं समादाय देवदारुः ससैन्यकः । विजयाधस्य मूर्धानं क्षणादविदितं ययौ ॥ १३०॥ विद्युजिह्व निहत्याशु रुद्रोऽपि समरे तदा । त्रिपुरे स्थापयामास देवदारुं समङ्गलम् ॥ १३१ ॥ ततोऽष्टौ ता महाकन्यास्तदानीं देवदारुणा । रुद्राय विधिना दत्ता परिणीता यथाक्रमम् ॥१३२॥ परिणीय ततः कन्या रूपलावण्यसंयुताः । कृतकृत्यों बभूवायं तोषपूरितमानसः ॥ १३३ ॥ ॥ रुद्रो यया यया साधं रात्रि वसति तद्दिने । तां तां निपातयत्याशु शुक्रसंतापकारणात् ॥१३४॥ यावदष्टौ महाकन्या निहत्य रतिविभ्रमात् । महाशोकभराक्रान्तस्तस्थौ रुद्रो विषादवान् ॥१३५॥ एवं स्थितस्य रुद्रस्य तदा कैलासमूर्धनि । अष्टौ तिष्ठन्ति चैत्यानां रक्षपाला दिवानिशम् ॥१३६॥ देवदारुवयस्यानामेतेषां प्रीतिकारणम् । नामानीमानि सर्वेषां भवतां कथयाम्यहम् ॥ १३७ ॥ तन्मध्ये प्रथमश्चन्द्रो यमोऽन्यो वरुणोऽपरः । सोमश्चक्रधरणामा तथान्योऽपि महीधरः॥१३८॥ • धरसेनो महासत्त्वो हरिषेणस्तथापरः । अधुनाऽहं परेणैषां पुराणि कथयामि च ॥ १३९ ॥ पूर्व नागपुरं तेषां तथैन्द्रपुरमुत्तमम् । अन्यच्छैलपुरं प्रोक्तं जयन्तीपुरमेव च ॥ १४० ॥ नागयक्षपुरं चान्यदलकोपपदं पुरम् । तथापरं च विज्ञेयं विजयोपपदं पुरम् ॥ १४१॥ अमीभिरष्टाभिः खेटेः स्वकीयं रूपराजितम् । कन्याशतं च रुद्राय वितीर्ण विधिरूपकम् ॥१४२॥ विकुर्वाणाकृतेनाशु शेफेन पृथुनाऽमुना । हतं कन्याशतं तत्र रुद्रेण रतिमिच्छता ॥ १४३॥ - कन्याशतं निहत्यायं बृहन्मेद्रप्रयोगतः । तस्थौ विषण्णचित्तोऽसौ तदा कैलासमूर्धनि ॥ १४४ ॥
अत्रान्तरेऽर्यिका काचिद्देशान्तरसमागता । एकेन मीनबन्धेन निम्नगां तारिता सका ॥ १४५॥ तच्छरीरपरामर्शात् कामभोगवशं गता । सा निदानं चकारेदं कामाकुलितमानसा ॥ १४६ ॥ मच्चित्तवल्लभस्यास्य भार्याऽन्यस्मिन् भवे सति । संदेहमन्तरेणारं भविष्यामि भुवस्तले ॥१४७॥ धीवरोऽपि चिरं भ्रान्त्वा संसारे सारवर्जिते । ज्येष्ठासमुद्भवो रुद्रः सत्यकेस्तनयोऽभवत् ॥१४८॥ • आर्यिकाऽपि निदानस्था कालं कृत्वा मृदुत्वतः । सौधर्मे धर्मसंयोगाजाता देवी बिडौजसः ॥१४९॥ वासवाख्यो नराधीशः श्रावस्तीनगरीपतिः । बभूवास्य महादेवी साधु मित्रवती परा ॥ १५० ॥ अनयोरभवत् तन्वी विद्युदादिमती सती । शिवंकरपतेर्दत्ता विद्युदंष्ट्रस्य चानया ॥१५१॥ सौधर्मनाकतश्श्युत्वा देवी पूर्वनिवेदिता । अनयो रूपसंपन्ना संजाता तनया परा ॥ १५२ ॥
1 पफ युग्मम् , ज युगलमिदम्. 2 ज कन्या, [ कन्याः]. 3 पफ त्रिकलम् , ज त्रिकलमिदम्. 4 पफ युग्मम् , ज युगलमिदम्. 5 पफ युग्मम्, ज युगलमिदम्. 6 पफ कृत्यकृत्यो. 7 पफ रिपुविभ्रमात्. 8 जचान्यं. १ ज बृहन्मेंद. 10 ज भार्यास्मिन्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |