________________
-९७. ११९] नीललोहितकथानकम्
२३५ नानाशिलातलोपेतं नानावृक्षसमाकुलम् । आरुरोह समुत्तुङ्गं कैलासं स मुनिस्तदा ॥ ८७॥ मार्तण्डकरसंतप्ते कैलासस्य शिलातले । तस्थौ 'प्रतिमया धीरस्तदानीं स मुनिः शुचौ ॥ ८८॥ अथ विद्याधरावासविजयाधगिरीशतः । अष्टापदसमाशेषसोधपंक्तिविलासिनः ॥ ८९॥ दक्षिणाशासमुद्भूतं पुरं मेघनिबन्धनम् । मेघादिनिचयं सारं तथा मेघनिनादकम् ॥९॥ पुरत्रयस्य चैतस्य राजाऽऽसीत् कनकप्रभः । मनोवेगाऽस्य सत्पत्नी मनोनयनवल्लभा ॥ ९१॥ । अभूतां नन्दनावस्य नन्दिताशेषबान्धवौ । देवदारुस्तयोज्येष्ठो विद्युजिह्वः कनिष्ठकः ॥ ९२॥ देवदारुसुतायास्मै ददौ राज्यं महात्मने । प्रज्ञप्तिं युवराज्यं च विद्युजिह्वाय सक्रमम् ॥ ९३॥ हित्वा परिग्रहं सर्वं भूपतिः कनकप्रभः । तदा गुणधराभ्याशे तपो जैनमशिश्रियत् ॥ ९४ ॥ अथ प्रज्ञप्तिसामर्थ्याद् विद्युजिह्वेन लोभिना । निर्धाटितोऽमुना शीघ्रं देवदारुः स्वमण्डलात् ॥१५॥ ततो मेघनिबद्धाख्यं मेघादिनिचयं पुरम् । तथा मेघनिनादं च महाजनधनान्वितम् ॥ ९६॥ ॥ पुरत्रयमिदं सारं समादाय त्वरान्वितः। कैलासपर्वतं प्राप्य देवदारुः स तस्थिवान् ॥ ९७॥ रूपयौवनसंपन्नमष्टापदतनुप्रभम् । भार्याचतुष्टयं तस्य देवदारोरिदं परम् ॥ ९८॥ आद्या योजनगन्धा स्याद्वितीया कनकप्रभा । अन्या तरङ्गवेगा च तरङ्गभङ्गिनी परा ॥ ९९ ॥ अथ योजनगन्धाया द्वे सुते भवतः परे । प्रथमा गन्धिला प्रोक्ता द्वितीया गन्धमालिनी ॥१०॥ कनकायाः सुताद्वन्द्वं रूपराजितविग्रहम् । आद्या कनकचित्रा स्याद्वितीया स्वर्णमालिनी ॥१०१॥ 15 ततस्तरङ्गवेगायाः सद्रूपं तनयाद्वयम् । तरङ्गमतिरेकाऽन्या सेनान्तादितरङ्गका ॥ १०२॥ तथा तरङ्गभङ्गिन्या बभूवेष्टं सुताद्वयम् । प्रभावती मता पूर्वा द्वितीया सुप्रभावती ॥ १०३॥ अष्टौ ता रूपसंपन्ना विद्याधरकुमारिकाः । वृत्ताः कुञ्चुकिभी रन्तुं वापीजलमगुस्तदा ॥ १०४ ॥ तत्र वापीजलाभ्याशे शिलातलसमन्विते । रुद्रोऽप्यातापनायोगं बभार प्रीतमानसः ॥ १०५॥
आतापनस्थितो दृष्ट्वा कन्यास्ता रूपशालिनीः । सद्यो बभूव रुद्रोऽपि कामाकुलितमानसः॥१०६॥* . तद्वस्त्राणि विचित्राणि रुच्यानि विविधानि च । विद्ययाऽऽत्मसमीपेऽसौ स्थापयामास तान्यरम् १०७ स्वानं विधाय ता वाप्यां खेच्छया प्रीतचेतसः । वेगात्ततः समुत्तीर्य तत्प्रतीरे स्थिताः पुनः॥१०८॥ तत्प्रदेशे न पश्यन्ति वस्त्राण्याभरणानि च । वाचाला रुद्रसामीप्यं जग्मुः खेचरकन्यकाः॥१०९॥ दृष्ट्वाऽग्रे तं मुनिं प्रोचुर्विद्याधरकुमारिकाः । मदीयवस्त्ररुच्यानि त्वया ज्ञातानि किं क्वचित् ॥११॥ श्रुत्वा तद्वचनं रुद्रो जगादैताः पुरः स्थिताः । यदि भार्या मे भवथ ततो दास्यामि तानि वः ॥१११॥ तदीयं वाक्यमाकर्ण्य वदन्तीमं पुनस्तकाः । स्वच्छन्दा न भवामो हि विद्याधरसुता यते ॥११२॥ अस्माकं च स्वतत्राणां मुने तत्क्षणमात्रतः । विद्या विनाशमायान्ति वाञ्छन्तीनां परंपराम् ॥११३॥ अस्मान् ददाति ते नूनं यदि तातो महामुने । ततो भार्या भवामोऽत्र भुवने भवतोऽखिलाः॥११४॥ तद्वाक्यतोऽमुना तासां वस्त्राण्याभरणानि च । समर्पितानि सर्वाणि प्रोक्ताश्चेदं वचस्तकाः॥११५॥ खमातापितरौ पृष्ट्वा बान्धवान् सकलानपि । आगच्छत मदाभ्याशं बालिका द्रुतमादरात् ॥११६॥" आकर्ण्य तद्वचः कन्या संप्राप्य जनकान्तिकम् । तद्वार्ता सकला ताभिःस्खताताय निवेदिता॥११७॥ यथैकस्तात निर्ग्रन्थो मुनिरस्माभिरादरात् । सहसा सह संबन्धं कामुकः कर्तुमिच्छति ॥ ११८॥ खपुत्रीवाक्यमाकर्ण्य देवदारुर्जगाविमाः । यद्यस्मांत्रिपुरे कान्ते प्रवेशयति सोऽधुना ॥ ११९ ॥
1 पफ प्रीतितया. 2 पफ युग्मम् , ज युगलमिदम्. 3 [वृताः कञ्चुकिभी]. 4 पफ omit 106. 5 पफ त्रिकलम्, जत्रिकलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org