________________
२३४
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ९७.५३
विधाय वन्दनामस्य मुनेर्भक्तिपरायणाम् । उत्ततार गिरेरस्मादर्शिकावृन्दमादरात् ॥ ५३ ॥ अकालवर्षनीरौघघातविह्वलमानसा । ज्येष्ठार्यिका गुहामध्यं विवेश जलपाततः ॥ ५४ ॥ विहायातापनायोगं सात्यकिर्जलविह्वलः । विवेश तद्गुहामध्यं वेगतो जलभीतितः ॥ ५५ ॥ गुहामध्यस्थितां ज्येष्ठां विलोक्य सहसा यतिः । सद्यो बभूव मूढात्मा कामविह्वलमानसः ॥ ५६ ॥ • ज्येष्ठाऽपि तं समालोक्य मन्मथाकुलमानसा । जजल्प तत्समं किंचित् कन्दर्पोद्रेककारणम् ॥ ५७ ॥ परस्परं समासंगं विधाय मदनोद्भवम् । जगाम गुरुसामीप्यं सत्यकितवाञ्छया ॥ ५८ ॥ गुरुपार्श्व स संप्राप्य कृतालोचननिन्दनः । कृत्वा गुरूदितं सर्वं प्रायश्चित्तं बभौ मुनिः ॥ ५९ ॥ ज्येष्ठाऽपि मणिकां प्राप्य स्वकीयां तां यशोमतिम् । तन्निवेदितवृत्तान्तं संतस्थे हृष्टमानसा ॥ ६० ॥ सुज्येष्ठां तां समादाय क्षान्तिका सा यशोमतिः । मुमोच चेलनागेहे तद्वृत्तान्तनिवेदिनी ॥ नवमासेष्वतीतेषु सुज्येष्ठा तगृहस्थिता । प्रसूता दारकं दिव्यं बालादित्यसमप्रभम् ॥ ततोऽभयकुमारेण जातमात्रोऽपि बालकः । गुहायां कालपूर्वायां स्थापितः परमोदयः ॥ ६३ ॥ ततोऽसौ चेलना चख्यौ' रुद्रं कालगुहागतम् । त्याज्यात् स्वप्नं स्वकान्तस्य श्रेणिकस्य महात्मनः ॥६४॥ स्वभार्यांमुखतः श्रुत्वा रुद्रस्वप्नं महीपतिः । महासाधनसंयुक्तस्तदा कालगुहां ययौ ॥ ६५ ॥ दृष्ट्वा कालगुहान्तस्थं रुद्रं सैन्यसमन्वितः । विस्मयं परमं प्राप्य श्रेणिकः श्रीतमानसः ॥ ६६ ॥ 15 ततो रुद्रं समादाय श्रेणिक चेलनाकरे । महाप्रमोदसंपन्नो ददौ तद्वालसंपदम् ॥ ६७ ॥
६१ ॥
६२ ॥
I
चेलना वारिषेणेन सह संवर्धनं शिशोः । तैलाशनादियोगेन चक्रे प्रीतिसमुत्कटम् ॥ ६८ ॥ अमाभयकुमारेण चेलना धर्मभाविता । ज्येष्ठावगूहनं चक्रे स्थिरसम्यक्त्वभावना ॥ ६९ ॥ ज्येष्ठाऽपि स्वगुरुं प्राप्य कृत्वा निन्दनगर्हणम् । स्वनिवेदितवृत्तान्ता दीक्षां जग्राह मूलतः ॥ ७० ॥ ज्येष्ठाया नन्दनस्तत्र रौद्रभावसमन्वितः । करयष्टिप्रघाताभ्यां चेटकांस्ताडयत्यरम् ॥ ७१ ॥ ज्येष्ठातनय मालोक्य कुर्वन्तं शिशुचापलम् । चेलना रुद्रनामास्य चकार क्रोधसंगता ॥ ७२ ॥ अन्यदा चेलना प्राह तं रुष्टा चेटताडनात् । जारजात खल क्षिप्रं निर्लज्ज व्रज मे गृहात् ॥ ७३ ॥ श्रुत्वा स्वहीलनं वाक्यं रुष्टोऽसौ चेलनां जगौ । किमिदं भाषितं मातः सत्यं वद यथायथम् ॥ ७४ ॥ कुमारवचनं श्रुत्वा चेलना मूलतोऽखिलम् । यथावृत्तं जगादास्य तिरस्कारविचेष्टितम् ॥ ७५ ॥ तद्वाक्यतो विनिःसृत्य तगृहात् स कुमारकः । दीक्षां जग्राह जैनेन्द्रीं तदानीं पितुरन्तिके ॥ ७६ ॥ • क्रमेणैकादशाङ्गानि रुद्रेण पठितान्यरम् । तथा दश च पूर्वाणि निश्चयात् किं न सिध्यति ॥ ७७ ॥ शतानि पञ्च विद्यानां रोहिणीप्रभृतीनि च । तथा सप्तापि मन्त्राणां सिद्धान्यस्यातिपुण्यतः ॥ ७८ ॥ गोकर्णपर्वतस्थस्य सात्यकेरस्य योगिनः । आतापनाविधानेन हानयेऽखिलकर्मणाम् ॥ ७९ ॥ अर्चनं वन्दनां कर्तुं महाभक्तिपरायणाः । अर्थिकाः श्रावकाः प्रापुः श्राविकाभिः समं मुदा ॥ ८० ॥ अर्यिकादिपथे भीमं सिंहरूपं विधाय सः । विकुर्वणाकृतं रुद्रस्तस्थावन्यत्र भूतले ॥ ८१ ॥ साधुमार्गे विलोक्यायं हरिरूपं भयानकम् । अर्यिकादिगणस्तत्र चकाराशु पलायनम् ॥ ८२ ॥ तच्चेष्टितमिदं वीक्ष्य सत्यकिः प्राह तं पुनः । त्वं यास्यसि तपोभङ्गं स्त्रीकृते नियतं मुने ॥ ८३ ॥ गुरुवाक्यं समाकर्ण्य खचारित्रविनाशनम् । रुद्रसाधुर्विलक्षः सन् दध्याविति स्वचेतसि ॥ ८४ तपः करोम्यहं देशे स्त्री पाण्डुपशुवर्जिते । येन पापानि कर्माणि निहन्म्याशु विशुद्धधीः ॥ ८५ ॥ एवं विचिन्त्य शुद्धात्मा रुद्रयोगी विचक्षणः । निर्जगामाशु तद्देशान्मन्दमन्दगतिक्रियः ॥ ८६ ॥
25
1 पफ चक्षौ. 2 पफ युग्मम्, ज युगलमिदम्. 3 पफ त्रिकुर्वाणाकृतं. 4 पफ स्त्रीकृतं.
10
20
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org