________________
२३३
-९७. ५२ ]
नीललोहितकथानकम् तत्प्रिया शीलसंपन्ना नामतः स्यान्मनोहरी । रुद्रमालीति विख्यातस्तत्पुत्रोऽहं घनस्तनि ॥१८॥ समस्तं स्वखसंबन्धं कथयित्वा परस्परम् । जग्मतुः प्रीतचेतस्कौ तकौ निजगृहं तदा ॥ १९ ॥ खस्वभवान्तरं पित्रोः संतोषस्थितचेतसोः । ऊचतुस्तौ मुदं प्राप्य तोषविस्फारितेक्षणौ ॥ २० ॥ निजापत्यवचः श्रुत्वा सानुरागं परस्परम् । चक्रतुः पितरौ प्रीत्या तयो वाहमङ्गलम् ॥२१॥ कृते विवाहसंबन्धे दम्पती प्रीतमानसौ । भुञ्जानौ परमान् भोगान् तस्थतुस्तौ सुखान्वितौ ॥२२॥ अन्यदा साधयित्वैतौ विद्यां प्रज्ञप्तिमूर्जितौ । पूजां प्रज्ञप्तिविद्यायाश्चक्रतुः कुसुमादिभिः ॥ २३ ॥ चैत्यपूजां विधायात्र महापुष्पादिसंपदा । स्तुतिभिस्तौ जिनं स्तुत्वा तस्थतुस्तत्प्रदक्षिणम् ॥ २४ ॥ अत्रान्तरे समायातौ भार्यामैथुनिकौ रुषा । तं प्रदेशं विलोक्येमौ दम्पती खेचरेश्वरौ ॥ २५॥ प्राध्वंकृत्य घनं तत्र तौ महाजालविद्यया । स्वपुरं तोषसंपूर्णावाटतुः परमोदयौ ॥२६॥ चेतनां प्राप्य तद्विद्यां स्थित्वा प्रज्ञप्तिविद्यया । रुद्रमाली समादाय स्वकान्तां स्वपुरं ययौ ॥ २७॥॥ तन्निमित्तं परिप्राप्य निर्वेदं भोगसंपदम् । कोशादिकं स्वपुत्राय ददौ राज्यं सुधीरधीः ॥ २८॥ बाह्यमाभ्यन्तरं संगं विहाय स्थिरमानसः । दीक्षां समाधिगुप्त्यन्ते रुद्रमाली समाददे ॥ २९ ॥ तस्मिन् प्रबजिते कान्ते महावैराग्यमीयुषे । तदर्चिमालिनी जैनं सुव्रतान्तेऽगृहीत् तपः ॥३०॥ अन्योन्यस्नेहरागेण सनिदानं तपस्तकौ । कृत्वा कालं च सौधर्मे देवीदेवौ बभूवतुः ॥३१॥ अथोत्तरापथे देशे गन्धकाख्यजनान्तिके । माहिष्मत्यां पुरि श्रीमानभूत् सत्यतनो नृपः ॥३२॥ अभवत् तन्महादेवी रूपलावण्यभूषिता । नीलोत्पलदलश्यामा कन्दोट्टदललोचना ॥ ३३॥ रुद्रमालिचरो देवश्युत्वा सौधर्मनाकतः । सत्यकिर्नाम संजातः सुरूपी नन्दनोऽनयोः ॥ ३४ ॥ वज्रबिम्बजनान्ते च वैताली नगरी परा । अस्यां बभूव भूपालश्चेटको नाम विश्रुतः ॥ ३५॥ बभूवास्य नरेन्द्रस्य जनतानन्दकारिणः । सुभद्राख्या महादेवी भद्रभावा प्रियंवदा ॥ ३६ ॥ अनयो रूपसंपन्ना नीलोत्पलदलाम्बकाः। आसन् सप्त सुता यास्तु नामानीमानि बिभ्रति ॥३७॥॥ तन्मध्ये पद्मपत्राक्षी प्रथमा प्रियकारिणी । द्वितीया सुप्रभा प्रोक्ता तृतीया च प्रभावती ॥ ३८॥ सिप्रादेवी चतुर्थी स्यात् सुज्येष्ठा पञ्चमी मता । षष्ठी च चेलना नाम सप्तमी चन्दना मता ॥ ३९॥ यार्चिमालिचरी देवी च्युत्वा सौधर्मनाकतः। सुज्येष्ठा सा समुत्पन्ना तत्सुता पञ्चमी मता ॥४०॥ चेटकेन समुद्दिष्टा सुज्येष्ठा सत्यकेः सुता । वीवाहमङ्गलं तस्या न तावद्विहितं किल ॥४१॥ अन्यदा चेलना कन्या नीयमाना सुरङ्गया । अभयादिकुमारेण पुरं राजगृहं परम् ॥४२॥ ईर्ष्याधर्मेण सा ज्येष्ठा महता रूपशालिनी । प्रेषिता हारमानेतुं तदा चेलनया गृहम् ॥ ४३॥ अभयादिकुमारेण चेलनाऽपि निशि द्रुतम् । जगाम प्रीतचेतस्का पुरं राजगृहाभिधम् ॥४४॥ सुज्येष्ठा हारमादाय यावत् संकेतभूतलम् । आगच्छत्यत्र तावच्च पश्यतीयं न चेलनाम् ॥ ४५ ॥ चेलनाऽन्वेषणं तस्याः कुर्वन्त्याः सा निशा क्षयम् । जगाम जनकादिभ्यो गताया नितरां भयम् ॥४६॥ विरोचनोदये जाते लजाभयसमन्विता । पितृगेहं न सा याता जगामार्यानिकेतनम् ॥ ४७॥ प्रविश्य तत्र चेटस्य यशोमत्याः स्वसुस्तदा । ज्येष्ठा प्राप्य तामायाँ तपो जैनमशिश्रियत् ॥४८॥ श्रुत्वा प्रव्रजन तस्या महावैराग्यसंगतः । समाधिगुप्तमानम्य सत्यकिमुनितां ययौ ॥४९॥ अथोत्तरदिशाभागस्थितगोकर्णपर्वते । सत्यकिः सत्यसंपन्नश्चकार विविधं तपः॥५०॥ ततो राजगृहासन्ने पर्वते सात्यकिर्यतिः । तस्थावातापनायोगे स्थानेन रविसन्मुखः ॥५१॥ अत्रान्तरेऽर्यिकावृन्दं प्रसन्नतरवृत्तिकम् । आतापनस्थितं साधु सात्यकिं प्राप' भक्तितः ॥ ५२ ॥ 35 1 पफ त्रिकलम् , ज त्रिकलमिदम्. 2 फ याचिमाली'. 3 ज सुरुंगया. 4 पफ प्राप्य.
वृ० को. ३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org