________________
२३२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ९६. ७२गर्भान्निाक्रान्तमात्रोऽपि जनन्याः प्रीतचेतसः । व्यासो गन्तुं प्रवृत्तोऽसौ जनकेन समं पुनः ॥७२॥ गच्छन्तं तनयं दृष्ट्वा तातेन सह सत्वरम् । जगौ सत्यवती तं च पुत्रस्नेहपरायणा ॥ ७३ ॥ त्वत्पिता यदि मां हित्वा प्रयाति गतियोगतः। अधुना त्वं कुतो यासि मुक्त्वा द्वीपेऽत्र भीषणे ॥७४॥' मातृवाक्यं समाकर्ण्य व्यासोऽपि निजगाद ताम् । त्वदन्तमागमिष्यामि मोत्सुका भव मातृके॥७॥ 5 एवमुक्त्वाऽम्बिकां व्यासो विहायेमां ससंभ्रमः । जनकेन समं शीघ्रं हस्तिनागपुरं ययौ ॥ ७६ ॥ पाराशरवरेणाशु जाता साऽक्षतयोनिका । पितृमन्दिरमासाद्य कुलधर्मेण तिष्ठति ॥ ७७॥ अथ सत्यवती तत्र तिष्ठन्ती पितृमन्दिरे । भीष्मेण याचिता सा च शान्तनाथ प्रयत्नतः ॥ ७८॥ शान्तनाय स्वका कन्या दत्ता पित्रा विधानतः । परिणीताऽमुना क्षिप्रं तूर्यमङ्गलनिस्वनैः॥ ७९ ॥
जाताः पुत्रास्त्रयोऽनेन सत्यवत्यां महोजसः । चित्रो विचित्रनामा च तथा चित्राङ्गदः क्रमात् ॥८॥ 10 अमीषां च महादेव्यो बभूव रूपराजिताः । अम्बाऽम्बिका तथा चान्या नूनमम्बालिकाभिधा ॥८॥
त्रयाणां राजपुत्राणां गतानां दक्षिणां दिशम् । महापापर्द्धियोगेन कुञ्जरात् पञ्चताऽभवत् ॥ ८२॥ महास्नेहसमायोगव्याप्तमानसया तया । तत्पुत्रार्थ स्मृतो व्यासस्तदा योजनगन्धया ॥ ८३॥ अम्बायां पाण्डुरुत्पन्नो धृतराष्ट्रोऽम्बिकाभवः । अम्बालिकायामुत्पन्नो विदुरोऽपि क्रमादिमे ॥८४॥ अमीषां व्यासपुत्राणां त्रयाणामपि सक्रमम् । पाण्डवाः कौरवा जाताः कीर्तिच्छन्नदिगन्तराः॥८५॥
॥ इति श्रीसत्यवतीसंसर्गभग्नपराशरकथानकम् ॥ ९६॥
९७. नीललोहितकथानकम् । अत्रैव भरतक्षेत्रे जम्बूद्वीपोपलक्षिते । नानाजनपदाकीर्णे नानाधनसमन्विते ॥१॥ विजयानगस्यासीदक्षिणस्यां दिशि स्थितम् । किन्नरोपपदं गीतं पुरं सुरपुरोपमम् ॥२॥
मणिचूलोऽभवत्तत्र नाम विद्याधराधिपः । मनोहरी महादेवी चास्य लोकमनोहरी ॥३॥ 20 अनयो रूपसंपन्नो बहुविद्याधिपो गुणी । रुद्रमाली समुत्पन्नो नन्दनो बहुनन्दनः ॥४॥
अन्यदा विहरन् क्वापि रुद्रमाली निजेच्छया । अादिमालिनी कन्यां ददर्शासौ मनोरमाम् ॥५॥ विद्यामाराधयन्त्या हि कामविह्वलमानसः । तन्मुखे भ्रमरो भूत्वा मासषटुं स तस्थिवान् ॥६॥ नितम्बस्तननीवीषु मासषटुं विधाय सः । स्पर्शनं रूपमात्मीयं ददर्शास्या मनोरमम् ॥७॥
एवं कृतेऽमुनाऽवाचि विद्याधर्या स खेचरः । विद्याराधनविघ्नं च मा कुरु त्वं प्रभो मम ॥ ८॥ 25 श्रुत्वा विद्याधरीवाक्यं रुद्रमाली क्षणान्तरम् । मौनमादाय संतस्थे विस्मयाकुलमानसः ॥९॥ मौनस्थं तं समालोक्य जगौ विद्याधरी पुनः । नूनं साधितविद्याऽहं भविष्यामि तव प्रिया ॥१०॥ श्रुत्वा तद्वचनं खेटः प्राहेमां प्रीतमानसः । भद्रे त्वं तनया कस्य ब्रूहि सत्यं ममाधुना ॥११॥ निशम्य भारती तस्य जगौ विद्याधरी तकम् । विजया|त्तरश्रेण्यामस्ति गन्धर्वपत्तनम् ॥ १२॥
महाबलोऽभवत्तत्र विद्याधरमहेश्वरः । प्रभाकरी महादेवी चास्य चित्तमलिम्लुचा ॥ १३॥ ३० तत्सुताऽहं विनीतात्मा विद्याधरमनोरमा । कन्यार्चिमालिनी नाम विद्याराधनतत्परा ॥ १४ ॥ नामादिकं निगद्यास्य स्वकीयं खचरी पुनः । पप्रच्छैषा प्रयत्नेन खेचरं प्रीतमानसम् ॥१५॥ तद्वाक्यतः पुनः सर्वं खनामादिकमादरात् । खेचरोऽस्याः प्रहृष्टात्मा यथाक्रममुदाहरन् ॥१६॥ अस्यैव विजयार्धस्य दक्षिणाशासमुद्भवम् । पुरं किन्नरगीतं स्यान्मणिचूलोऽत्र भूपतिः ॥१७॥
1 युग्मम् , ज युगलम्. 2 पफ युग्मम्, ज युगलम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org