________________
-९६. ७१] पाराशरकथानकम्
२३१ तस्मिन्नेव हृदे जालं क्षिप्तं गङ्गाभटेन च । बद्ध्वा तां शफरी तेन संतुष्टो गृहमागतः ॥ ३९॥ यावच्छिनत्ति तां मत्सीं करवाल्या स धीवरः । तावद्ददर्श तत्रत्यां योषितं रूपशालिनीम् ॥४०॥ मत्सीतुन्दात् समादाय तां च कन्यां स धीवरः । सत्यवत्याख्यमेतस्या ददौ नाम गुणान्वितम् ॥४१॥ अन्यदा तां समादाय बालां सत्यवतीं पराम् । रूपराजितसर्वाङ्गी विषाणदललोचनाम् ॥ ४२ ॥ खनामाङ्कितसद्वक्रां गङ्गारोधसि सादरः । गङ्गाभटो निधायाशु जगाम स्वगृहं पुनः॥४३॥ अथ पराशरो योगी पञ्चकूर्चहतात्मकः । जटीछत्रीबृशीयुक्तो गणेत्रीकुण्डिकान्वितः ॥ ४४ ॥ यज्ञोपवीतसंयुक्तः पादुकायुतसत्पदः । दीर्घमार्गसमाश्रान्तो गङ्गातीरे व्यवस्थितः ॥४५॥' दृष्ट्वा सत्यवतीं तत्र जगौ पराशरोऽपि ताम् । अहं मार्गपरिश्रान्तः पुत्रि प्राप्तो नदीतटम् ॥ ४६॥ महाश्रमपरिग्रस्तं नावा छिद्रविहीनया । तेन मन्दाकिनी मुग्धे मां समुत्तारय द्रुतम् ॥ ४७॥ तद्वाक्यतस्तया शीघ्रं गङ्गापश्चिमतीरतः । पूर्वरोधः समानीता द्रोणिः प्लवनकारिणी ॥४८॥ 10 परस्परं समारोप्य गमश्रान्तं तपस्विनम् । पश्चात् स्वयं समारूढा तदा सत्यवती तकम् ॥४९॥ अधिरूढौ ततो द्रोणी व्रजतो द्वावपि द्रुतम् । परस्परं च जल्पन्तौ किंचिच्चकितमानसौ ॥५०॥ मुखं स्तनौ नितम्बं च जघने दशनच्छदम् । सत्यवत्याः समालोक्य पाणिपादं मनोहरम् ॥५१॥ खचित्तक्षोभमासाद्य विह्वलीभूतमानसः । बभाण बालिकामेतां पाराशरमहामुनिः ॥५२॥ भद्रे हि ब्रह्मचर्येणाभग्नोऽहं चिरकालतः । विलोक्य भवतीं नालं स्थातुं क्षणमपि क्षितौ ॥ ५३॥15 पूर्णिमाचन्द्रसद्वक्रां पीनोन्नतघनस्तनीम् । मुक्ताभदशनां भद्रे सांप्रतं त्वां भजाम्यहम् ॥ ५४॥ श्रुत्वा पाराशरं वाक्यं मन्मथानलदीपितम् । जगौ सत्यवती तत्र विद्वज्जनमनोगतम् ॥ ५५ ॥ तात नीचा विरूपाऽहं कैवर्तकशरीरजा । निन्दिता सर्वलोकेन दुर्गन्धा मतिवर्जिता ॥ ५६ ॥ दुर्बला दुःस्वरा दीना संस्कारपरिवर्जिता । तिष्ठाम्यहं धुनीतीरे बन्धुभिः परिवर्जिता ॥ ५७ ॥ त्वं पुनर्लोकविख्यातः सर्वलोकोत्तमो महान् । पूज्यः स्तुत्योऽपि सर्वेषां सतामपि महामुनिः॥५८॥2॥ शापानुग्रहयुक्तस्य सर्वलोकप्रियस्य भो । तेन नूनं न संबन्धो घटते मत्समं तव ॥ ५९॥" श्रुत्वा सत्यवतीवाक्यं जगौ पराशरोऽपि ताम् । मैवं वद न शक्नोमि स्थातुं मुग्धे त्वया विना ॥६०॥ तद्वाक्यतः पुनः प्राह तं मुनिं साऽब्जलोचना । अहं दुर्बलदुर्गन्धा कुचेला मतिदुर्विधा ॥१॥ भूयो बभाण तद्वाक्यात् पाराशरमुनिस्तराम् । मन्मथानलसंतप्तो म्लानवक्रसरोरुहः ॥ ६२ ॥ सुरूपा मतिसंपन्ना दिव्याभरणभूषिता । दिव्या योजनसद्गन्धा मत्प्रसादाद् भविष्यसि ॥ ६३ ॥ 25 एवमुक्ताऽमुना सा च वस्त्रालङ्कारराजिता । भूत्वा योजनसद्गन्धा बभाणेमं ससंभ्रमम् ॥ ६४ ॥ आवां पश्यति लोकोऽयं दिने रविसमुज्वले । तद्वाक्यतः पुनस्तेन धूमरी विहिता घना ॥६५॥ धूमर्या कृतयाऽनेन धनाञ्जनसमानया । भूयोऽपि निजगौ भीता तदा सत्यवती तकम् ॥६६॥ कामं सौख्यं न किंचिच्च जलमध्ये प्रजायते । महामुने परं नूनं गङ्गानीरनिमजनम् ॥ ६७॥ नानाद्रुमलतापुष्पफलपल्लवराजितम् । चक्रे गङ्गानदीमध्ये द्वीपं तद्वाक्यतो मुनिः ॥ ६८॥ 30 परिणीय विवाहेन गान्धर्वोपपदेन ताम् । पाराशरोऽनया सार्धं भुञ्जानः संवितिष्ठते ॥ ६९॥ छत्रिका कुण्डिसंयुक्तो बृषीयज्ञोपवीतकः । गणेत्रीपादुकायुक्तो जटामकुटराजितः ॥ ७० ॥ रूपराजितसर्वाङ्गो व्यासो नाम महामुनिः । क्रमात् सत्यवतीगर्भान्निःसृतो दिव्यविग्रहः ॥ ७१ ॥
1 पफ युग्मम् , ज युगलमिदम्. 2 [पाराशरं]. 3 [तकाम् ]. 4 ज परस्परमहामुनिः. 5 पफ चतुष्कुलकम्, ज चतुष्कुलकमिदम्. 6 पफ चतुष्कुलकम्, ज चतुष्कुलकमिदम्, 7 पफ युग्मम् , ज युगकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org