________________
२३० हरिषेणाचार्यकृते बृहत्कथाकोशे
[९६. ६प्रतिपद्य वचस्तस्यास्तत्सुता संवरेण सा । परिणीता महाभूत्या' जयमङ्गलनिखनैः ॥६॥ ऋतुकालमिमं तस्याः संवरः प्रीतमानसः । अनन्यमतिकस्तत्र यत्नवान् संप्रतीक्षते ॥ ७॥ एवं हि तिष्ठतस्तस्य कालो याति महात्मनः । आखण्डलसभामध्ये बभूवायं समागमः ॥ ८॥ ब्रह्माविष्ण्वादिदेवानां त्रयस्त्रिंशच्च कोटयः । अर्थाष्टकोटयो नाके भूतानामपि सत्वराः ॥९॥ 5 एकादश तथा रुद्रा भास्वन्तो द्वादशापि च । त्रिदिवे मिलिताः क्षिप्रं संप्रीत्या ब्राह्मणादयः॥१०॥
आत्मभायामिदं प्राह संवरोऽपि तपोधियाम् । ऋतुकालो न यावत्ते तावदेमि त्वदन्तिकम् ॥११॥ एवं निगद्य तां कान्तां विनयानतविग्रहाम् । संवरः प्रीतचेतस्कस्तन्मुक्तस्त्रिदिवं ययौ ॥ १२ ॥ अथ पुष्पवती जाता प्रथमं तत्प्रिया सती । तपोधीस्तत्र सुखाता निजकान्तं प्रतीक्षते ॥ १३ ॥ स्थितवत्या तया चैवं यदा नागच्छति प्रियः । तदा संप्रेषितो दूतो धवान्ते हीन्द्रसंसदि ॥ १४ ॥ 10 तच्चरस्तत्पतिं प्राह पुरन्दरसभास्थितम् । इदं ब्रवीति ते कान्ता वचनं शृणु सांप्रतम् ॥ १५ ॥
यदि पूर्वा कृताऽवस्था मानसे तव तिष्ठति । ततो मदन्तमागच्छ स्त्राता तिष्ठामि सांप्रतम् ॥१६॥ भार्यादूतवचः श्रुत्वा संवरोऽपि जगाविदम् । हस्तिनागपुरं गत्वा चर मद्वल्लभां वद ॥ १७ ॥ अत्रान्तरे प्रिये कोपं मा करिष्यसि वल्लभे । ममोपरि समुत्पन्नं देवकार्यमिदं महत् ॥ १८॥
अहिल्यार्थे गतः शक्रः कामविह्वलमानसः । तद्रूपाहितचेतस्कः परदारनिषेवया ॥१९॥ 15 गौतमेन च संदत्तः शापः शक्रस्य दुःसहः । भीमं भगसहस्रं हि स्याच्छरीरे तव द्रुतम् ॥२०॥
दत्ते शापेऽमुना दूत जाते भगसहस्रके । स्वर्गात् पलायनं चक्रे विलक्षः स पुरन्दरः ॥ २१ ॥ तद्वेषणतः सर्वे गीर्वाणाः समनुष्यकाः । वसवोऽपि च संभूय ययुरिन्द्रं प्रति स्फुटम् ॥ २२ ॥ कार्येणानेन मे कान्ते नूनमागमनं न च । एवं दूतं स संदिश्य प्रजिघाय प्रियान्तिकम् ॥ २३॥
यथादिष्टं धवेनास्यास्तइतेन सविस्तरम् । तदन्तं प्राप्य वेगेन तथा सर्वं निवेदितम् ॥ २४ ॥ 20 प्रियवाता परिज्ञाय स दूतेन निवेदितम् । शुककण्ठे समासज्य लेखं सा विससर्ज तम् ॥ २५ ॥
शुकः क्रमेण संप्राप्य तद्धवान्तिकमादरात् । पूर्व मुखेन लेखार्थं जगाविति तदग्रतः ॥२६॥ ऋतुकालं परिप्राप्य तावदत्रैव च प्रभो । तिष्ठामि मनसोत्कण्ठा भवबीजाभिकाङ्क्षया ॥ २७ ॥ संपद्यते न ते नाथ यद्यागमनकारणम् । खबीजं प्रापय क्षिप्रं निःसंदेहं मदन्तिकम् ॥ २८ ॥
एवं निगद्य तद्वाता लेखान्तर्गतसंभवम् । कीरो मुमोच तल्लेखं तत्पुरः प्रीतमानसः ॥ २९ ॥ 25 तल्लेखा) विदित्वाऽऽशु शुकपूर्वनिवेदितम् । तदानीं संवरो दध्यौ क्षणमेकं दिवि स्थितः ॥३०॥
संवरः पुटिकास्थं तु शुक्रं कृत्वा शुकस्य च । प्राध्वंकृत्य गले शीघ्रं साभिज्ञानपुरस्सरम् ॥ ३१ ॥ महादेवी समीपे च स्नेहनिर्भरमानसः । शुक्र प्रवेशयामास हस्तिनागपुरं प्रति ॥ ३२ ॥ ततः शुकं खमुत्पत्य यातं हस्तिपुरान्तिके । गङ्गाजलोपरि श्येनो जग्राहेमं स तत्क्षणात् ॥ ३३॥
ततः सा शुक्रसंपूर्णा पुटिका शुककण्ठतः । मन्दाकिनीजलेऽगाधे पपात क्षणमात्रतः ॥ ३४॥ 30 ततस्तत्पुटिकाशुक्रं काकतालीययोगतः । पपात शफरीवके गिलितं चानया पुनः ॥ ३५॥ तया गिलितमात्रेऽस्मिंस्तन्मत्सीजठरे पुनः । दिव्यरूपधरी कन्या संभूता दैवयोगतः ॥ ३६ ॥ अत्रान्तरे परिप्राप्तो धीवरो जालसंयुतः । गङ्गानदीं समादातुं मीनसंघातमादरात् ॥ ३७॥ अयं गङ्गाभटो नाम गङ्गदत्ताऽस्य गेहिनी । अतीव वल्लभा जाता प्राणेभ्योऽपि कलावती ॥ ३८॥
1 ज महीभूत्या. 2 ज संप्रीता. 3 पफ युग्मम् , ज युगलम्. 4 पफ गवेक्षणतः. 5 ज दूरं. 6 पफ चतुःकुलकम् , ज चतुष्कुलकमिदम्. 7 पफ चतुःकुलकम् , ज चतुष्कुलकमिदम. 8 पफ युग्मम् , ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org