________________
पाराशरकथानकम्
-९६.५] एवमुक्त्वा विनिःसृत्य तदा गुरुसमीपतः । आरूढः कूपकारोऽयमग्रमन्दिरपर्वतम् ॥ १०॥ नानातपः प्रकुर्वाणो दक्षं कर्मविनाशने । कूपकारमुनिस्तस्थौ केशाल्लोचयं मूर्द्धनि ॥११॥ तदवस्थं समालोक्य भूपाः प्रत्यन्तवासिनः । ग्रहीतुं पाटलीपुत्रं सर्वतस्तेऽवतस्थिरे ॥ १२ ॥ एवं स्थितवतां तत्र राज्ञां प्रत्यन्तवासिनाम् । पौरलोकः समस्तोऽपि तदानीं क्षोभमागतः ॥१३॥ अथाशोको महाराजो दुःखपीडितमानसः। सभ्यान् जगाद वित्रस्तान् मस्तकन्यस्तपाणिकान् ॥१४॥ कूपकारकुमारेण विना सभ्या ममेदृशी । अवस्था वर्तते कष्टा मनःसंदेहकारिणी ॥१५॥ अशोकवचनं श्रुत्वा महाशोकसमन्वितम् । जगौ वीरवती भूपं गणिका रूपराजिता ॥१६॥ दीनं ब्रवीषि किं राजन् वैरिजं भयमुत्सृज । कूपकारकुमारं तमानयामि त्वदन्तिकम् ॥ १७ ॥ एवमुक्त्वा सहान्याभिः पण्यस्त्रीभिर्नृपान्तितः । आरुरोह सका शीघ्रमग्रमन्दिरपर्वतम् ॥ १८॥ अर्जिकारूपमादाय मायावेषसमन्वितम् । गणिकैका स्थिताऽधोऽस्य पर्वतस्य सुरूपिणी ॥ १९ ॥ " शेषाः पर्वतमारुह्य कूपकारस्य योगिनः । चक्रुर्नमस्कृतिं प्राह मुनिं वीरवती तदा ॥ २० ॥ वृद्धकैकार्यिकाऽऽयाता भवन्तं वन्दितुं विभो । अधिरोढं नगं नालं तिष्ठत्यस्य गिरेरधः ॥ २१॥ दयामस्या विधायार्य तथा वात्सल्यकारणात् । गमनं कुरु येन त्वां वन्दित्वाऽस्ते मलच्युता ॥२२॥ निशम्य तद्वचः साधुः पर्वतादवतीर्य च । जगाम तत्समीपत्वं धर्मवात्सल्ययोगतः ॥ २३॥ तथा तया कृतः सोऽरं निजबुद्ध्या विदग्धया । यथा चारित्रतो भ्रष्टो मदनातुरमानसः ॥ २४ ॥3 कूपकारं पुरः कृत्वा मुक्तचारित्रमादरात् । वीरमत्यादयः सर्वा ययुः पाटलिपुत्रकम् ॥ २५ ॥ दृष्ट्वाऽशोकमहीपालः कूपकारं सुतं पुरः । सद्यो बभूव तत्रत्यस्तोषपूरितमानसः ॥ २६ ॥ पुत्र त्वया विना रुद्धं नगरं बहुभिः खलैः । शत्रुभिः शस्त्रसंपातद्योतिताकाशभूतलैः ॥ २७ ॥ निशम्य जानकं वाक्यं सभयं भीमविग्रहम् । जगाद पितरं सोऽपि किमेभिः क्रियते मम ॥२८॥ एवमुक्त्वा प्रणम्यास्य जनकस्य पदद्वयम् । कूपकारो जगामाशु तदा रिपुबलं प्रति ॥ २९॥ 20 कांश्चित्खड्गप्रहारेण कांश्चिन्मुद्गरचूर्णनैः। कांश्चिद्वाणविघातेन चकारारीनसौ मृतान् ॥ ३० ॥ परचक्रारयः सर्वे तद्भयाकुलमानसाः । अन्ये पलायनं चक्रुः कूपकारशराहताः ॥ ३१॥ आत्मात्मविषयं सर्वे भयवेपितविग्रहाः । स्वपराजयदुःखार्ता ययुरन्येऽरिराशयः ॥ ३२ ॥ तेषु सर्वेषु नष्टेषु परं पाटलिपुत्रकम् । तदा बभूव विश्रब्धं कूपकारसमाश्रयात् ॥ ३३॥
॥ इति श्रीवीरवतीगणिकासंसर्गभग्नकूपकारमुनिकथानकमिदम् ॥ ९५॥
*
९६. पाराशरकथानकम् । कुरुजाङ्गलदेशेऽस्ति हस्तिनागपुरं परम् । नरेन्द्रः संवरस्तत्र शस्त्रशास्त्रविशारदः ॥ १॥ जयन्त्याख्यपुरः श्रीमान् विश्वसेनो नराधिपः । बभूव तन्महादेवी विश्वसेना मनोरमा ॥२॥ अनयो रूपसंपन्ना तपोधी नाम विश्रुता । अनयाऽवस्थया दत्ता जनन्या संवराय सा ॥३॥ ऋतुकाले यथाऽस्माकं सुतायाः संवर प्रभो । त्वयाऽन्यत्र न गन्तव्यं कदाचिदपि निश्चितम् ॥४॥3॥ अथवा दैवयोगेन चान्यत्र गमनं भवेत् । तथाऽपि शीघ्रमेवात्र त्वयाऽऽगन्तव्यमादरात् ॥५॥
1 पफ त्रिकलम् , ज त्रिकलमिदम्. 2 [ केशांल्लोचयन्मूर्धनि ]. 3 पफ युग्मम् , ज युगलमिदम्. 4 पफ त्रिकलम,ज त्रिकलमिदम्. 5 पफ चतुष्कुलकम् , ज चतुष्कुलकमिदम्. 6 पफ जनकं. 7 ज
जगादाशु.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org