________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
तथा चोक्तम्ग्रामो वृत्त्या वृतः स्यान्नगरमुरुचतुर्गोपुरोद्भासिशालं, खेटं नद्यद्रिवेष्ट्यं परिवृतमभितः कर्वटं पर्वतेन । युक्तं ग्रामैर्मटम्बं दलितदशशतैः पत्तनं रत्नयोनिद्रणाख्यं सिन्धुवेलावलयितमभितो वाहनं चाद्रिरूढम् ॥ १७ ॥ साधुलोकसमाकीर्णकौशाम्ब्याख्यपुरं भवम्' । अधुना विहरन् सारं त्वत्कुटीकोष्ठकं क्रमात् ॥१८॥ ® कथयित्वा स्ववृत्तान्तं स मुनिर्निजगावमूम् । जीवनेनात्र केन त्वं वृद्धे तिष्ठसि मे वद ॥ १९ ॥ निशम्य तद्वचो वृद्धा जगादैनं पुरः स्थितम् । अस्मिन्नेव पुरे साधो सोमशर्मा द्विजोऽभवत् ॥ २० ॥ सोमिला ब्राह्मणी तस्य तत्सुताऽहं कुलोद्गता । जयनीनामविख्याता रूपयौवनगर्विता ॥ २१ ॥ 10 ततोऽहं विधिना दत्ता शंकराय द्विजन्मने । पितृभ्यां स्नेहयुक्ताभ्यां कन्दोट्टदललोचना ॥ २२ ॥ आवयोः क्रीडतोरत्र स्नेहसंबन्धचेतसोः । मुने मद्वल्लभः ख्यातो गतः कालेन पञ्चताम् ॥ २३ ॥ समस्तबन्धुलोकोऽपि मृत्युगोचरतां गतः । दूतिकर्म प्रकुर्वन्ती तिष्ठाम्यत्र प्रकोष्ठके ॥ २४ ॥ कथितः पूर्वसंबन्धः स्वकीयो मुनिपुङ्गव । मया ते पृष्टया सर्वो नापरं वेद्मि किंचन ॥ २५ ॥ आकर्ण्य तद्वचः साधुः स्वमनःप्रीतिकारणम् । जगाद विह्वलस्वान्तस्तां वृद्धामग्रतः स्थिताम् ॥ २६ ॥ 15 जानासि त्वं किं न मुग्धे पठितं यत्त्वया समम् । एकस्यां लेखशालायां मया प्रेमानुरागतः ॥२७॥ निशम्य तद्वचस्तत्र जयनी वदतीदृशम् । सर्वं स्मराम्यहं साधो पूर्वमाचरितं स्फुटम् ॥ २८ ॥ अन्योन्यप्रेमरागेण तरां वृद्धावपि द्रुतम् । संसर्गदोषतो यातौ तकौ पाटलिपुत्रकम् ॥ २९ ॥ तत्र गङ्गानदीनीरं वहन्ती जयनी तदा । दारिद्रकर्म कुर्वाणा संतस्थे परवेश्मनि ॥ ३० ॥ कक्षात् काष्ठानि चादाय तदा वै विधियोगतः । विधाय विक्रयं तेषां रूपकैकेन तत्पुरे ॥ ३१ ॥ 2" रतिकर्म तया सार्धं कुर्वन् दन्तविहीनया । शकटो दन्तहीनो हि तिष्ठति प्रीतमानसः ॥ ३२ ॥ ॥ इति श्रीजयनीसंसर्गभग्नशकटमुनिकथानकमिदम् ॥ ९४ ॥
*
९५. कूपकारमुनिकथानकम् ।
अथास्ति पाटलीपुत्रे नगरे मेरिकान्वये । अशोको नाम भूपालो अशोका तस्य कामिनी ॥ १ ॥ अनयोर्नन्दनो धीरः कूपकारः प्रतापवान् । अस्माद्भयेन राजानो न गच्छन्ति पदात्पदम् ॥ २ ॥ * अन्यदा वरधर्माख्यो गणेन्द्रो महताऽन्वितः । संघेन विहरन्नाट तत्पुरोद्यानमादरात् ॥ ३ ॥ श्रुत्वोद्यानवनं साधुं वरधर्मं समागतम् । कूपकारः समं पौरैस्तदन्तं प्राप विस्मितः ॥ ४ ॥ कूपकारो वृषं श्रुत्वा क्रूरोऽपि जिनदेशितम् । दधौ दैगम्बरीं दीक्षां वैराग्याहितमानसः ॥ ५ ॥ अन्यदा जलमध्ये हि स्वशरीरमनारतम् । कूपकारं प्रपश्यन्तं ददर्श स गणाधिपः ॥ ६ ॥ तदवस्थं समालोक्य वरधर्मो गणेश्वरः । वभाण तद्धितासंगे नितान्तोद्यतमानसः ॥ ७ ॥ " त्वं भद्र यास्यसि क्षिप्रं विनाशमबलाकृते । श्रुत्वा मौनीश्वरं वाक्यं जगाद स मुनिर्गुरुम् ॥ ८ ॥ यदि रामाकृते पूत नाशं यास्याम्यहं द्रुतम् । ततः स्त्रीवर्जिते देशे करोमि विविधं तपः ॥ ९ ॥
२२८
2 [ भ्रमन् ] 2 [ विहरन्नार 3 पफ कुलकम् ज कुलकमिदम्. 4 ज मुनिपुङ्गवः 5 पफज कुलकमिदम्. 6 पफज युगलमिदम् 7 पफ विक्रियं. 8 पफ युग्मम् ज युगलमिदम्.
Jain Education International
[ ९४. १७
For Private & Personal Use Only
www.jainelibrary.org