________________
-९४. १६] शकटमुनिकथानकम्
२२७ वेत्सि भद्र न किं नूनं पातितोऽसि नभस्तलात् । विप्र यक्षकुमारीभ्यां रूपलोभाद्धृतो दिवि ॥३०॥ परस्परं च कलहो क्षिप्तोऽस्मि सरसि द्रुतम् । हसन् प्राहाथ विप्रोऽस्यां चारुदत्तो महाधनः॥३०५॥ अस्ति श्रेष्ठी गृहे तस्य कन्या गन्धर्वसेनका । वीणावाद्यविदग्धस्य वरस्य कृतसंगरा ॥ ३०६ ॥ तदर्थ मिलितो लोकः कृताभ्यासः कुतूहली । सांप्रतं वद येनाशु विवाहः क्रियते तव ॥३०७॥ ब्राह्मणोक्तं समाकर्ण्य वसुदेवो नराधिपः । सूत्रकण्ठं जगादेमं मन्दरस्थिरमानसः॥ ३०८॥ । येनेच्छसि विधानेन ब्राह्मणत्वं महामते । तेनैव विधिना नूनमग्निहोत्रं द्रुतं कुरु ॥ ३०९ ॥ वसुदेवोदितेनालं विज्ञायास्य कुलादिकम् । अग्निहोत्रं चकारायं तदा जलविधानतः ॥ ३१० ॥ एवं कृतेऽमुना तत्र तूर्यमङ्गलनिस्वनैः । कन्यां गान्धर्वसेनाख्यामुवाहायं नराधिपः ॥३११॥ विधाय ब्रजनं साधुः समं गान्धर्वसेनया । वसुदेवः प्रभुञ्जानो भोगांस्तिष्ठति शोभनम् ॥ ३१२॥ अत्रान्तरे सुवृत्तान्तं चारुदत्तोऽखिलं परम् । तथा गान्धर्वसेनाया जगादास्य महीपतेः ॥३१३॥॥
चारुदत्तोदितेनात्र ज्ञात्वा खेचरकन्यकाम् । भूयो गान्धर्वसेनां स तस्थौ मुदितमानसः॥३१४॥ ' चारुदत्तश्चिरं भुक्त्वा भोगान् भोगीन्द्रसंनिभान्। दीक्षामादाय जैनेन्द्रीं जगाम त्रिदशालयम्॥३१५॥
॥ इति श्रीचारुदत्तकथानकमिदम् ॥ ९३ ॥
९४. शकटमुनिकथानकम् । विषये वत्सकावत्यां कौशाम्बी नगरी परा। अस्यां दन्तपरित्यक्तः शकटाख्योऽभवन् मुनिः ॥१॥ भिक्षार्थं स मुनिर्विष्टश्चर्यामार्गेण तत्पुरे । अनुक्रमविधानेन गृहपंक्त्या परिभ्रमन् ॥२॥ दृष्ट्वा शून्यकुटीकोष्ठं मार्गखिन्नशरीरकः । प्रविश्य तद्गृहं साधुरुपविष्टः स कोष्ठके ॥३॥ उपविष्टं परिश्रान्तं मुनिं खगृहकोष्ठके । अन्यवेश्म समायाता परप्रेषणकारिणी ॥४॥ दन्तहीना तरां वृद्धा जयनीनाम बिभ्रती । अतर्पयत् कदन्नेन शकटाख्यमिमं तदा ॥ ५॥ विधाय भोजनं साधुरुपविष्टः स कोष्ठके । पूर्वोक्तवृद्धया पृष्टस्तदन्तःस्थितया तया ॥६॥ भगवन् केन कार्येण प्रतिपन्नोऽसि शोभन । दुर्धरामीदृशी चर्यां साधो वद ममाधुना ॥७॥ श्रुत्वा तद्वचनं योगी बभाणैतां पुरःस्थिताम् । मदीक्षाकारणं भद्रे शृणु त्वं सुसमाहिता ॥८॥ अस्यामेव च कौशाम्ब्यां सोमशर्मा द्विजोऽभवत् । वेदवेदाङ्गसंयुक्तः काश्यपी तत्प्रिया परा ॥९॥ तत्सुतः सागराख्योऽहं चतुर्वेदकृतश्रमः । नानाशास्त्रकृताभ्यासो मनीषी गणवल्लभः॥१०॥ मन्मामसुतया सार्धं साध्वि वीवाहमङ्गले । क्रियमाणेऽपि सल्लोकैः संमता न मया सका ॥११॥ माहनस्य सुताऽत्रैव रोहिणी नाम विश्रुता । मम वृत्तं तया सार्धं पाणिग्रहणमङ्गलम् ॥ १२ ॥ कियत्यपि गते काले मत्कान्ता सा मृतिं गता। ततो वैराग्यमासाद्य दीक्षितोऽहं मनस्विनि ॥१३॥ ग्रामं बृहद्वृतिं नूनं निगदन्ति मनीषिणः । शालगोपुरसंपन्नं नगरं पौरसंकुलम् ॥ १४ ॥ नद्यद्रिवेष्टितं खेटं वृत्तं" कर्वटमद्रिणा । शतैः पञ्चभिराकीर्ण ग्रामाणां च मटम्बकम् ॥ १५ ॥ पत्तनं रत्नसंभूतिः सिन्धुवेलासमावृतम् । द्रोणामुखमभिस्पष्टं सन्निवेशं नगोपरि ॥१६॥
1 ज पतितोसि. 2 पफ युग्मम् , ज युगलमिदम्. 3 ज कुरु द्रुतम्. 4 पफ युग्मम्, ज युगलमिदम्. 5ज खिले परम्. 6 पफ परप्रेक्षण'. 7 पफ युग्मम् , ज युगलमिदम्. 8 पफ शोभनः, ५ पफ युग्मम् , ज युगलमिदम्. 10 पफ विवाह. 11 [वृतं].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org