________________
२२६ हरिषेणाचार्यकृते बृहत्कथाकोशे
[९३. २७४अर्धचक्रिपिता दिव्यो यो भविष्यति धीरधीः । महाप्रतापसंपन्नो यादवाम्बरचन्द्रमाः॥ २७४ ॥ सुतां गान्धर्वसेनाख्यां चारुदत्तगृहस्थिताम् । चारुगन्धर्वयोगेन मधुरेण विजेष्यते ॥ २७५ ॥ चारणोक्तमिदं वाक्यं मया ते विनिवेदितम् । यत्तुभ्यं रोचते पुत्र तदेव कुरु सांप्रतम् ॥२७६॥'
श्रुत्वा स्वजननीवाक्यं सुतः सिंहयशोऽभिधः । महाविद्याधराधीशो बभूव प्रीतमानसः ॥ २७७॥ । कनत्कनकसंकीर्ण रणत्किङ्किणिकोत्करम् । तारानिकरसत्कान्तिमुक्तादामविराजितम् ॥ २७८ ॥
चन्द्रकान्तविनिर्माणं पद्मरागविशोभितम् । बुबुदादर्शसंपन्नं वैजयन्तीविचित्रितम् ॥ २७९॥ एवंविधमहामानं विमानं हंससंयुतम् । विद्याधरैरुपानीतं तदा सिंहयशोऽन्तिके ॥ २८०॥ पञ्चवर्णानि रत्नानि बहुमूल्यानि काञ्चनम् । मुक्ताप्रवालरूप्याणि चित्रनेत्रादिचेलकम् ॥ २८१॥ एकीकृत्य तथा सर्वसारवस्तुसमुच्चयम् । देवाभ्यां दत्तनिधिभिः पूरितं स्मरणादतः ॥ २८२ ॥ ॥ चारुदत्तं समारोप्य समं गान्धर्वसेनया । तद्विमाने महामाने सानुरागं समङ्गलम् ॥ २८३ ॥ शङ्खतूर्यनिनादेन बधिरीकृतदिग्मुखम् । बन्दिवृन्दारकौघेन कलनादविधायिना ॥ २८४ ॥ चातुरङ्गेन सैन्येन तदा चम्पापुरीमसौ । प्रापयामास युगपद् विद्याधरकृतोत्सवम् ॥ २८५ ॥ अक्षीणनिधिके स्थाप्य चारुदत्तं स्वमन्दिरे । गान्धर्वसेनया साधं तौर्यमङ्गलनिस्वनैः ॥ २८६ ॥ तत्रत्यभूपपौरादिसमस्तजनसाक्षिकम् । सिंहासनस्थितं तत्र पूजयामास खेचरः ॥ २८७ ॥ 15 धनं बहु प्रदायोच्चैश्चारुदत्ताय सादरम् । स्वस्रे गान्धर्वसेनायै तथा मानसवाञ्छितम् ॥ २८८ ॥
कृत्वा संभाषणं स्निग्धं प्रशस्य च कुलोचितम् । नतिपूर्वं समापृच्छय प्राप्यानुज्ञामथैतयोः ॥२८९॥ विमानं दिव्यमारुह्य समं खेचरसेनया । तदा सिंहयशाः खेटः खं ययौ निजपत्तने ॥ २९० ॥ चारुदत्तं समालोक्य विद्याधरसुपूजितम् । भूपालादिजनः सर्वस्तुतोष बहुविस्मयः ॥ २९१ ॥
चारुदत्तविधुस्तत्र कुर्वन् बन्धुकुमुद्वताम् । मुदं परं सुखं तस्थौ शुनासीरी यथा दिवि ॥ २९२ ॥ 20 अथाङ्गारामरेणामा कुर्वन् युद्धं पपात खात् । श्यामानियुक्तया पर्णलब्ध्या सरसि धारितः ॥२९३॥
- अग्रे पृष्ठो लिखितमस्तिशिष्यत्वेन प्रधानोऽस्य सुग्रीवाख्यस्य मन्दिरे। दिनानि कानिचित्तस्थौ वसुदेवो मुदाऽन्वितः ॥२९॥ अन्येाश्चारुदत्तस्य महाविभवशालिनः । जगाम मन्दिरं तुझं वसुदेवः स्वलीलया ॥ २९५ ॥ सुघोषवीणया तत्र कुर्वन् गान्धर्वमुत्तमम् । जित्वा गान्धर्वसेनां च वसुदेवोऽवतिष्ठते ॥ २९६ ॥ 25 चारुदत्तस्ततः कन्यां वसुदेवाय धीमते । ददौ गान्धर्वसेनाख्यां चारणादेशकारणात् ॥ २९७॥
ततो विवाहकाले च गोत्रं कुलमजानता । विप्रेण वसुदेवोऽयं पृष्टः संदेहकारिणा ॥ २९८॥ मया भो कस्य वर्णस्य होतव्यो विधिना शिखी । जलमुत्तीर्य सेतुस्थः पश्यति स्म जिनालयम् ॥२९९॥ वासुपूज्यजिनं नत्वा कृत्वा सामायिकं ततः । प्रातरापृच्छदेकं च विप्रं पूजार्थमागतम् ॥ ३०० ॥ केयं पुरी कुतो वीणां दृश्यते सकलो जनः। तद्वाक्यतोऽखिलं ज्ञात्वा प्रबन्धं कन्यकेच्छया॥३०॥ " चम्पान्तःप्राविशत् सद्य उपाध्यायस्य वेश्मनि । अभिवाद्य निवेद्यैष गान्धा दिनकारणम् ॥३०२॥ वीणामवादयच्छिष्यां लज्जनस्तदनुज्ञया" । देशोऽङ्गोऽयं पुरी चम्पा ख्यातैषा क्षितिमण्डले ॥३०३॥
1 पफ षटकुलकम् , ज षट्कुलकमिदम्. 2 ज विस्तीर्ण. 3 पफ युग्मम् , ज युगलमिदम्. 4 पफ युग्मम् , ज युगलमिदम्. 5 पफ युग्मम् , ज युगलमिदम्. 6 पफ त्रिकलम् , ज त्रिकलमिदम्. 7 [पृष्ठे ]. 8 All the three Mss. add this phrase. Some portion is irregularly misplaced here. After No. 293, the lines may be better arranged thus: 2996-300a, 33000-301a, 3036-304a, 3046-305a, 3056-306a&3066-307a, 3016-302a. 3026-303a. The remaining lines get adjusted. 9[वीणा ]. 10[लजालु तदनुज्ञया ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org