________________
-९३. २७३ ]
चारुदन्तकथानकम्
२२५
यज्ञे नियुज्यमानेन मया वेपनकारिणा । सोमशर्मा जनाध्यक्षमिदं प्रोक्तं खवाचया ॥ २४७ ॥ नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया संतुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्गं गन्तुमभीप्सिता यदि भवेद् वेदे च तथ्या श्रुतिः यूपे किं न करोषि मातृपितृभिर्दारान् सुतान् बान्धवान् ॥ २४८ ॥ यूथादानीतमेकं सरसकिसलयग्रासमात्रोपभोज्यं
10
मुग्धं यूपेन बद्धं भयचलितदृशं कम्पमानं वराकम् । मेति व्याहरन्तं 'पशुमितविवसंनिघ्नतां याज्ञिकानां' मन्ये वज्रातिरेकं न दलति हृदयं तत्क्षणादेव तेषाम् ॥ २४९ ॥ निशम्य तद्वचो विप्रो विस्मयव्याप्तमानसः । ऋचः पठति वेदोक्ताः स्तभमुद्दिश्य भक्तितः ॥ २५० ॥ " समं मात्रा समं भ्रात्रा समं पित्रा समं सुतैः । समं बन्धुसमूहेन त्वं नाकं यास्यसि स्फुटम् ॥२५१॥ आप्यायतां मनस्तेऽलं वक्रमाप्यायतां तव । स्पर्शमाप्यायतां तेऽत्र जिह्वामाप्यायतां तव ॥ २५२ ॥ चक्षुराप्यायतां तेऽत्र श्रोत्रमाप्यायतां तव । यत्ते कोडं स्थितं साधु ब्रूते चाप्यायतां पशो ॥२५३॥ एता ऋचः समुद्धुष्य हतोऽहं सोमशर्मणा । अहं भूयोऽपि संजातश्छेलकः खेटनायक ॥ २५४ ॥ एवं भूयोऽपि संजातस्ततो वारचतुष्टयम् । निहतोऽनेन विप्रेण मखे माहनपूजिते ॥ २५५ ॥ भूयः सप्तमवेलायां विषये टङ्कणाभिधे । जातोऽहं छेलकः खेट स्वकर्मवशचोदितः ॥ २५६ ॥ भूयोऽहं रुद्रदत्तेन चारुदत्तनिमित्तकम् । मारणार्थं समानीतो द्वीपान्तरगमं प्रति ॥ २५७ ॥ सर्वजीवदयायुक्तो भावितोऽयं मयाऽखिलः | जिनधर्मः ससम्यक्त्वश्चारुदत्तेन भाषितः ॥ २५८ ॥ रुद्रदत्तान्मृतिं प्राप्य तेन धर्मेण खेचरः । जातो महर्द्धिको देवो कल्पे सौधर्मनामनि ॥ २५९ ॥ ततोऽवधिं समासाद्य चारुदत्तान्तिकं क्षणात् । विद्याधरः समायातः स्वगुरुं वन्दितुं विभुम् ॥ २६० ॥ वञ्चितस्य हि वेदेन कारणेनामुना मम । धर्माचार्यो महाख्यातश्चारुदत्तः सुहृत्तराम् ॥ २६१ ॥ प्रथमं तेन वन्दित्वा धर्माचार्यमिमं पुनः । नमस्कारः कृतोऽस्माभिर्मुनेरस्य सुखेचर ॥ २६२ ॥ देववाक्यं समाकर्ण्य तोषकण्टकिताङ्गकः । बभाणेति सुरं खेटः सर्वविद्याधराधिपः ॥ न केवलमसौ ज्ञातो धर्माचार्यस्तव प्रभो । चारुदत्तोऽमुना दत्तं जीवितं मत्पितुस्तथा ॥ अत्रान्तरे सुरः प्राह चारुदत्तं मुदाऽन्वितः । भवन्तं पूजयित्वेश प्रापयामि निजं पुरम् ॥२६५॥ गीर्वाणवचनं श्रुत्वा महाप्रेमविधायकम् । चारुदत्तो बभाणेमं विनयात् पुरतः स्थितम् ॥ २६६ ॥ आस्तां तावदयं भद्र वरो हि भवदन्तिके । यदेमं याचयिष्ये त्वां तदा देयो मम त्वया ॥ २६७॥ * निशम्य तद्वचः साधुं चारुदत्तं च भक्तितः । अनुक्रमेण वन्दित्वा ययौ देवो निजालयम् ॥२६८॥ खेचरश्चारुदत्तेन सह नत्वा यतीश्वरम् । विद्याधरपुरं प्राप पताकावलिराजितम् ॥ २६९ ॥ कियत्यपि गते काले तत्पुरे सुखतोऽनयोः । अन्योन्यप्रेमसंसक्तस्थिरमानसयोस्तयोः ॥ २७० ॥ सुतद्वयं समाहूय समं गन्धर्वसेनया । माता गन्धर्वसेनायाश्चारुदत्तं जगाविदम् ॥ २७९ ॥ मत्पतिश्चारणं साधुं प्रष्टवान् ज्ञानसंगतम् । पतिर्गन्धर्वसेनाया भविष्यति मुनीन्द्र कः ॥ २७२ ॥ श्रुत्वा तदीयसद्वाक्यं चतुर्ज्ञानसमन्वितः । चारणोऽपि जगावेतं गिराऽमृतमुचा स्फुटम् ॥ २७३॥
२६३ ॥
२६४ ॥
1 [ पशुमति विवरां ]. 2 पफ याज्ञकानां 5 पफ युग्मम्, ज युगलम् 6 [ वरं ]. बृ० को ० २९
Jain Education International
3 पफ सुखेचरः 4 पफ कुलकम् ज कुलकमिदम् 7 पफ युग्मम् ज युगलम्.
For Private & Personal Use Only
5
15
30
www.jainelibrary.org