________________
२२४ हरिषेणाचार्यकृते बृहत्कथाकोशे
[२३. २१३ततः सुलसया तत्र प्रतिज्ञेयं कृता तदा । यो मां जेष्यति वादेन तस्याहं रमणी भवे ॥२१३॥ महापटहनादेन बधिरीकुर्वता नभः । धरणीमपि निःशेषां दत्तेयं घोषणा तया ॥ २१४ ॥ ततः सा सुलसा तेन याज्ञवल्केन संसदि । वादेन निर्जिता नूनं पण्डिताश्चर्यकारिणा ॥ २१५ ॥ नवयौवनसंपन्ना दिव्यरूपधरी सका । शुश्रूषाकारिणी भार्या विहिता तेन तत्क्षणात् ॥२१६ ॥ वाणारसीपुराभ्याशे नानातरुविराजिते । ऋष्याश्रमो बभूवेष्टः समभूमिव्यवस्थितः ॥ २१७॥ परस्परसुखासंगतोषनिर्मीलितेक्षणौ । तदा तौ दम्पती तत्र तस्थतुः स्थिरमानसौ ॥ २१८ ॥ कालेन बहुना तत्र भुञ्जाना तत्समं सुखम् । अजीजनत् सुतं दिव्यं सुलसा पयोज्झिता ॥२१९॥ जातमात्रं ततो बालं पिष्पलाधो विहाय तम् । जगाम सुलसा क्वापि निषादसममानसा ॥२२०॥
श्रुत्वा वृत्तान्तमीदृशं भद्रा जनमुखादरम् । आजगाम तमुद्देशं बालाध्यासितमादरात् ॥ २२१॥ 10 पिष्पलाधः स्थितं बालं बाद तत्फलभोजिनम् । भद्रा ददर्श तं तत्र भद्रभावा प्रियंवदा ॥ २२२॥
पैष्पलादं विधायास्य नाम चादाय तं पुनः । संप्राप्य स्वपुरं भद्रा वर्धयन्ती स्थिता गृहे ॥२२३॥ क्रमेण यौवनं प्राप्य सर्वलोकमनोरमम् । वेदवेदाङ्गशास्त्रज्ञः पिष्पलादो बभूव सः ॥ २२४ ॥ सर्वक्षत्रियविप्राणां परमात्मेव भूतले । पूजनीयः कलाधारो वन्दनीयस्तरां सकः ॥ २२५ ॥ अथैकदिवसे भद्रां पिष्पलादः प्रपृच्छति । अम्ब माता पिता क्वासौ वर्तते मेऽधुना वद ॥२२६॥ 15 निशम्य तद्वचो भद्रा ब्रवीति स्म तमादरात् । याज्ञवल्कः पिता भद्र सुलसा जननी तव ॥२२७॥ जातमात्रस्तया पुत्र पिष्पलादो निधापितः । तस्मान्मया समानीतस्त्वं वृद्धि प्रापितः पुनः॥२२८॥ भद्रावचनमाकर्ण्य मातृपितृसमुद्भवाम् । पिष्पलादो रुषं प्राप्य वादार्थी पितरं ययौ ॥ २२९ ॥ याज्ञवल्कः पिताऽनेन तदानीं बुधसंसदि । वादेन साधुवादेन पिष्पलादेन निर्जितः ॥ २३०॥ कृततस्य समं प्रीतिर्याज्ञवल्केन भद्रया। पिष्पलादः तथाऽप्याभ्यां चित्ते वैरं न मुञ्चति ॥२३१॥ 2० कियत्यपि गते काले तद्वधार्थ रुषाऽन्वितः । पितृमेधं मखं चके मातृमेधं च तत्सुतः ॥ २३२।। व्याजेन तन्मखे हत्वा पितरं याज्ञवल्कलम् । मातरं सुलसां चापि पिष्पलादः सुखं स्थितः ॥२३३॥ शिष्योऽहं पिष्पलादस्य वाद्वलिनाम खेचरः। पूजितः सर्वलोकेन वन्दितश्च सुभक्तितः ॥ २३४ ॥ षडङ्गवेदवेदाङ्गसमस्तसमये बुधः । कलाविज्ञानसंपन्नः संजातः परमोदयः ॥ २३५॥
ततो देवप्रिय स्पष्टिं सिंहकीर्ते गुणाकर । महानुभावतोपेतो सर्वलोकमनोरम ॥ २३६ ॥ 25 जानतोऽपि वृषं सार्व मन्दभाग्यस्य मे पुनः । इयं बुद्धिः समुद्भूता खेट कर्मानुभावतः ॥२३॥
जुहुयादग्निहोत्रं हि वर्गकामो नरोत्तमः । वेदवाक्यमिदं शुद्धं कर्तृत्वपरिवर्जितम् ॥ २३८॥ निर्मलं भासिताशेषं चूडामणिरिव क्षितौ । समस्तव्रतशास्त्राणामुपरीव व्यवस्थितम् ॥ २३९ ॥ इदं मुक्त्वा न चान्यं हि विद्यते भुवनेऽखिले । फलाफलविसंवादि मन्यमानो ततोऽपरम् ॥२४०॥
नूनमावसथः पूर्वं सर्वजन्तुहितः कृतः । अस्माभिर्लोकविख्यातैर्जनविस्मयकारिभिः ॥ २४१॥ 30 अग्निहोत्रं विधायाशु षण्मासं च स मांप्रति । कृताः कारापिता यज्ञा मया भक्त्याऽनुमोदिताः॥२४२॥
नानापशुवधं कृत्वा मखभक्तिपरायणः । ततोऽहं खेट संप्राप्तो नरकं घोरवेदनम् ॥ २४३॥ तत्र नानाविधां पीडां ह्यनुभूय कथंचन । ततो निर्गत्य संजातश्छेलकोऽशुभकर्मभिः ॥ २४४ ॥ ततो युवत्वमासाद्य सद्वयोलक्षणान्वितः । विप्राणां यागयोग्योऽहं संजातः खेचरेश्वर ॥२४५॥ ततोऽहं पुष्पकाश्मीरभूषितः सोमशर्मणा । नीतो मखक्षितिं खेट नानाजीवरवाकुलम् ॥ २४६ ॥
1 पफ युग्मम् , ज युगलमिदम्. 2 पफ बन्धुसंसदि. 3 ज भावतोपेत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org