________________
-९३. २१२ ] चारुदत्तकथानकम्
२२३ देवचारणखेटौघान् विहायात्र मनःप्रिये । नान्येषां जातुचित् पुंसां मनसाऽपि समागमः ॥१८॥ त्वं पर्वतमिमं भद्र दुःप्रापं कथमागतः । व्याघ्रसिंहेभशार्दूलचमूरादिभयानकम् ॥ १८२ ॥' चारणोक्तं समाकर्ण्य चारुदत्तः स्वचेष्टितम् । महाव्यसनसंयुक्तं जगादास्य समस्तकम् ॥१८३॥ अत्रान्तरे स्वसैन्येन विद्याधरकुमारकः । वन्दनार्थं मुनेः प्राप्तो भक्तिनिर्भरमानसः ॥ १८४ ॥ ततो विलोक्य तं तत्र खेटः सिंहयशा नरम् । बभाण विस्मितवान्तस्तोषविस्फारितेक्षणः ॥१८५॥ । भ्रातस्त्वं चारुदत्तोऽसि नितान्तं चारुचेष्टितः । मत्पितुर्जीवनं दत्तं येन रम्भाग्रहान्तिके ॥१८६॥ खेचरस्य वचः श्रुत्वा जगादैनं सकौतुकम् । भवामि चारुदत्तोऽहं विद्याधरकुमारक ॥ १८७ ॥ अथोत्थाय महास्नेहात् तदा तौ द्वावपि द्रुतम् । इच्छाकारं विधायात्र ददतुः क्षेममादरात् ॥१८८॥ निविश्य तौ पुनभूमौ तोषविस्फारितेक्षणौ । तस्थतुः स्वकथासंगसुखसंसक्तमानसौ ॥१८९ ॥ अत्रान्तरे वराक्षोऽपि विमानस्थः सुरोत्तमः । आखण्डल इवायातस्तं प्रदेशं विशुद्धधीः ॥ १९० ॥ 10 तन्मध्ये चारुदत्तं स त्रिःपरीत्य सुभक्तितः । ननाम चरणावग्यगीर्वाणः प्रीतमानसः ॥ १९१ ॥ पश्चान्मुनिं प्रणम्यायं कृताञ्जलिपुटः सुरः । सन्मुखं चारुदत्तस्य चोपविष्टः ससंभ्रमम् ॥ १९२॥ दृष्ट्वा सुरं पुरस्तस्य तदा सिंहयशाः पुनः । मनसा दुःखितो भूत्वा जगाद विबुधं सकः ॥ १९३॥ उत्तमान्वयजातानां हारकुण्डलधारिणाम् । किं देवानां क्रमो भद्र जायते हीदृशो दिवि ॥ १९४॥ जिनेन्द्रप्रणतं साधुं विहाय प्रथमं सुरः । प्रणामं क्रियते साधो श्रावकस्य ततो मुनेः॥ १९५॥ 15 श्रुत्वा वैद्याधरं वाक्यं जगाद विबुधोऽपि तम् । आकर्णयैकचित्तेन कारणं चात्र खेचर ॥१९६॥ सर्वज्ञानहतो मुक्त्वा वीतरागान् दिगम्बरान् । अस्माकं विद्यते नान्यो देवः खेचरपुङ्गव ॥१९७॥ अन्येषां देवसंघानां मनोवाक्कायकर्मभिः। प्रणामं न वयं कुर्मो विज्ञातपरमार्थकाः ॥१९८॥ किंत्वहं श्रोत्रिको विप्रः सवेदो मखवञ्चितः । संसारदुःखसंतप्तश्चारुदत्तं समाश्रितः ॥ १९९ ॥ जिनवाक्यामृताधारकर्णजापः सुखप्रदः । दत्तो मे चारुदत्तेन नियमाणाय साधुना ॥ २०० ॥ 20 तेन तत्कर्णजापेन संसारार्णवदायिना' । मृत्वा समाधिना खेटदेवो जातो महर्द्धिकः ॥ २०१॥ जिनधर्मों मया खेट प्राप्तोऽयं चारुदत्ततः । विज्ञातो मुनिसंघोऽपि श्रुतं जिनवरोदितम् ॥ २०२॥ धर्माचार्यमिमं पूर्वं चारुदत्तं हितप्रदम् । वन्दित्वा चरमं तेन मया साधुः प्रवन्दितः ॥ २०३॥ दैवं वचनमाकर्ण्य विस्मयव्याप्तमानसः । पप्रच्छेदं सुरं हृष्टः खेचरो रूपराजितम् ॥ २०४॥ अकृत्रिमस्य वेदस्य विधिना वञ्चितः कथम् । कथं वा चारुदत्तोऽयं धर्माचार्योऽभवत्तव ।।२०५॥ 25 निराकर्तुमिमं देव संदेहं मेऽधुना वद । येनाहं वीतसंदेहो भवामि त्वत्प्रसादतः ॥ २०६ ॥" निशम्य खैचरं वाक्यं गीर्वाणः प्रीतमानसः । यत्पूर्ववृत्तमाख्यानं जगादास्य मनोरमम् ॥ २०७॥ काशीजनपदे रम्ये वाराणस्यां पुरिस्फुटम् । सोमशर्माऽभवद् भट्टः सोमिल्ला" चास्य गेहिनी ॥२०८॥ अनयो रूपसंपन्ने द्वे सुते भवतः परे । ज्येष्ठा भद्रा कनिष्ठा च सुलसा नाम विश्रुता ॥ २०९॥ साङ्गोपाङ्गसमायुक्तवेदराद्धान्तपारगे । परिव्राजकतां प्राप्ते कुमायौं चारुचेष्टिते ॥ २१०॥ पाण्डित्यमदसंपन्ना ताभ्यां सर्वेऽपि वादिनः । निरुत्तराः कृताः शीघ्रं म्लानवक्रसरोरुहाः ॥२११॥ अथ वादनिमित्तेन वाणारस्याः पृथुयशः । ततस्ते द्वे परिप्राप्ते याज्ञवल्कसमीप्यताम् ॥ २१२ ॥
___1 पफ कुलकम् , ज कुलकमिदम्. 2 ज महद्व्यसन. 3 पफ युग्मम् , ज युगलम्. 4 [सुर]. 5 पफ त्रिकलम् , ज निकलमिदम्. 6 पफ "पुङ्गवः. 7 प has a correction °तायिना. 8 पज खेटः. 9 पफ कुलकम्, ज कुलकमिदम्. 10 पफ त्रिकलम्, ज त्रिकलमिदम्. 11 पफ सोमिला. 12 पफ यज्ञवल्क
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org