________________
२२२
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ९३. १४७
तत्राजौ द्वौ समादाय धनेनारुह्य तौ तकम् । पर्वताग्रं समारूढौ तदा विस्मितमानसौ ॥ १४७ ॥ रुद्रदत्तस्ततोऽवोचच्चारुदत्तं नगोपरि । भद्रेमं छेलकं शीघ्रं निपातय ममाग्रतः ॥ १४८ ॥ श्रुत्वा तद्वचनं दध्यौ चारुदत्तः कृपार्द्रधीः । अस्योपकारिणो नूनं न करोमि निपातनम् ॥१४९॥ मयाऽहिंसात्रतं सारं गृहीतं गुरुसाक्षिकम् । अतो न हन्म्यहं छेलं मौनमादाय तस्थिवान् ॥ १५० ॥ रुद्रदत्तस्ततो यावत् तद्वधार्थं निषादधीः । यमजिह्वासमाकारां गृह्णाति करवालिकाम् ॥ १५१ ॥ तावद्धि चारुदत्तोऽपि सम्यक्त्वादिकमस्य च । समस्तं श्रावकं धर्मं ददौ पञ्चनमस्कृतिम् ॥१५२॥ अत्रान्तरे विनीतेन खड्गधेन्वा वराककः । रौद्रेण रुद्रदत्तेन छेलकोऽयं निपातितः ॥ १५३ ॥ सोऽप्यस्मै म्रियमाणाय छेलकाय मुहुर्मुहुः । कर्णजापं ददौ तत्र चारुदत्तो विशुद्धधीः ॥ १५४ ॥ छेलकः कालमासाद्य समाधिमरणेन सः । सौधर्मे धर्मसंपन्नो जातो देवो महर्द्धिकः ॥ १५५ ॥ 1. अनेनैव विधानेन द्वितीयोऽपि समाधिना । छेलकः कालमासाद्य जातोऽयं विबुधो दिवि ॥ १५६ ॥ रुद्रदत्तेन पापेन तयोरादाय चर्मणी । तन्मध्ये रक्तरक्ते च प्रविष्टौ तौ धनाशया ॥ १५७ ॥ ततस्ते मांसलोभेन तथा भेरुण्डपक्षिणः । आदाय पक्षविक्षेपै रत्नद्वीपं ययुः क्षणात् ॥ १५८ ॥ भेरुण्डपक्षिणां तेषां गच्छतां कुर्वतां रणम् । चारुदत्तस्य या भस्त्रा पतिता सा भुवस्तलम् ॥१५९॥ निकृत्य चारुदत्तोऽपि करवाल्या स्वभस्त्रिकाम् । ततो निःसृत्य वेगेन पर्वताग्रमशिश्रियत् ॥ १६० ॥ 15 आतापनस्थितं साधुं दृष्ट्वाऽसौ साधुवेष्टितम् । तस्मात्समीपं जगामाशु भक्तिहृष्टतनूरुहः ॥ १६१॥ साधुनाऽपि ततः स्पष्टं भाषितोऽयं महात्मना । चारुदत्त यथाऽलं ते कुशलं सार्वकालिकम् ॥ १६२॥ श्रुत्वा मुनिवचः सत्यं चारुदत्तो जगाविदम् । क्वाहं दृष्टस्त्वया साधो सर्वं ब्रूहि मम स्फुटम् ॥ १६३॥ निशम्य चारुदत्तोक्तमवादीत् तं यतीश्वरः । चम्पोद्यानवने पूर्वं त्वयाऽहं प्रविलोकितः ॥ १६४ ॥ वृक्षाग्रे कीलितः कीलैर्दुष्टविद्याधरेण यः । त्वया प्रमोचितः सोऽहममितादिगतिः स्फुटम् ॥१६५॥ त्वन्मोचितः खमुत्पत्य लग्नः पृष्टेऽस्य वैरिणः । यावदष्टापदं सोऽपि न गच्छति ममाग्रतः ॥ १६६ ॥ मां दूरतो वैरी विहाय मम सुन्दरीम् । कैलासाभिमुखं यातो वेपमानशरीरकः ॥ १६७ ॥ गृहीत्वा वल्लभां तस्मात् पताकावलिराजितम् । सितप्रासादमालाढ्यं प्रयातो निजपत्तनम् ॥१६८॥ शंखतूर्यनिनादेन वीणावंशानुगामिना । स्वराज्ये स्थापितः पित्रा तपो जैनं प्रकुर्वता ॥ १६९ सुवर्णकुम्भसामीप्ये महावैराग्यसंगतः । मत्पिता शुद्धचेतस्को बभूव श्रमणो महान् ॥ १७० ॥ समानकुलशीलाहे रूपयौवनभूषिते । अभूतां मे महादेव्यौ कन्दोदललोचने ॥ १७१ ॥ तन्मध्ये प्रथमा जाया सेनान्ता विजयादिका । तस्या गन्धर्वसेनाख्या तनयाऽभवदिद्धधीः ॥ १७२॥ मनोरमा कनिष्ठा च मत्प्रिया श्रीमनोरमा । तस्याः प्रथमपुत्रोऽभूद् रूपी सिंहयशोऽभिधः॥१७३॥ द्वितीयो नन्दनस्तस्याः सर्वलोकाभिनन्दनः । वराहोपपदो ग्रीवो बभूव गुणसागरः ॥ १७४ ॥ यावद्गन्धर्वसेनाख्या तनया पूर्ववर्णिता । जित्वा लोकं समस्तं सा गान्धर्वेण व्यवस्थिता ॥ १७५ ॥ 30 पुत्राय ज्यायसे राज्यं सिंहादियशसे निजम् । तथा वराहकण्ठाय युवराज्यं प्रदाय च ॥ १७६ ॥ हिरण्यकुम्भयुक्तस्य गुणशीलतपोऽम्बुधेः । अन्ते सुवर्णकुम्भस्य तपो जैनमशिश्रयम् ॥ १७७ ॥ द्वीपः कुण्डलगो नाम दिक्षु सर्वास्वयं वरः । लवणाम्भोधिमध्यस्थो भाति रत्नादिभूषितः ॥ १७८ ॥ अस्य द्वीपस्य मध्यस्थः सुप्रतिष्ठो गिरीन्द्रवत् । राजतेऽयं समुत्तुङ्गककटाख्यो महीधरः ॥ १७९ ॥ यस्मिन्नहं समुत्तुङ्गे मनोहारिणि भूधरे । आतापनादियोगेन स्थितः कर्मविहानये ॥ १८० ॥
1 पफ युग्मम् ज युगलम्, 2 ज आतापना 3 [ तत्समीपं ].
5
20
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org