________________
-९३. १४६ ]
चारुदत्तकथानकम्
5
तथाऽहमपि ते साधो पतितस्य भवावटे । ददाम्युत्तरणोपायं धर्महस्तावलम्बतः ॥ ११४ ॥ एवं निगद्य तं वीरो धर्मश्रवणमादरात् । चारुदत्तश्चकारास्य तद्गुणाकृष्टमानसः ॥ ११५ ॥ मित्र जीवोऽस्ति संसारे दुःखितः शरणोज्झितः । पापकर्म भराक्रान्तो धर्मबन्धुविवर्जितः ॥ ११६ ॥ नारकान्योन्यसंरम्भकृतयुद्धेषु पापतः । नरकेषु प्रचण्डेषु जायते मित्र देहवान् ॥ ११७ ॥ ' अनुभूय चिरं कालं नानादुःखानि भूरिशः । नरकेष्वेषु निर्गत्य जीवस्तिर्यक्त्वमेति सः ॥ ११८ ॥ छेदनाद्भेदनात् तत्र भक्षणाद्वधतोऽपि च । दुःखमासादयन् देही मनुष्यत्वं प्रपद्यते ॥ ११९ ॥ दारिद्रशोकरोगेभ्यो धनापहरणात् तथा । इष्टोपयोगतोऽनिष्टसंयोगाद्दुःखमाप्नुयात् ॥ १२० ॥ कथंचित् पुण्ययोगेन सुखं वा प्राप्य तत्र च । कषायाभावतो जीवो देवत्वं प्रतिपद्यते ॥ १२१ ॥ देवान्महर्द्धिकान् दृष्ट्वा तत्रापि स्वस्य हीनताम् । शोकं करोति देवोऽयं मित्र संसारवर्धनम् ॥१२२॥ चतुर्गतिकसंसारे नानादुःखसमाकुले । जीवो दुःखमवाप्नोति जिनधर्मं गृहाण भो ॥ १२३ ॥ जिनधर्म विना मित्र स्वर्गमोक्षप्रदायकम् । आजवंजवदुःखानि प्राप्स्यसि त्वं विमूढधीः ॥ १२४॥ * चारुदत्तोदितं श्रुत्वा रसमध्यस्थितो नरः । बभाणेमं प्रबुद्धात्मा तोषकण्टकिताङ्गकः ॥ १२५ ॥ स्वामिन्निहागतोऽसि त्वं पुण्येन मम चारुणा । उपदेशं प्रियं दिव्यं तं मह्यं देहि सांप्रतम् ॥ १२६ ॥ निशम्य तद्वचः सारं चारुदत्तः कृपार्द्रधीः । सम्यक्त्वपूर्वकं दिव्यं जिनधर्मं सुखावहम् ॥ १२७ ॥ पञ्चाणुव्रतसंयुक्तं चतुः शिक्षाव्रतान्वितम् । गुणत्रतत्रिकायुक्तं मधुमांसादिवर्जनम् ॥ १२८ ॥ चतुर्विधाशनस्योच्चैः शरीरादेः परिग्रहात् । यावज्जीवं ददौ तस्मै प्रत्याख्यानं नमस्कृतिम् ॥ १२९ ॥ * निशम्य चारुदत्तस्य वचनं प्रीतिवर्धनम् । बभाणेमं पुनस्तुष्टो रसमध्यस्थितो नरः ॥ १३० ॥ कल्याणमित्रतां प्राप्तो मम त्वं रसवासिनः । यत्त्वयोक्तमिदं स्वामिन् गृहीतं तन्मयाऽखिलम् ॥१३१॥ चारुदत्तः पुनः प्राह भूयोऽपीदं ससंभ्रमम् । मम श्वभ्रसमात् कूपान्निस्सरो जायते न वा ॥ १३२ ॥ आकर्ण्य तद्वचो हृष्टं स नरो वदति स्म तम् । अस्ति निःसरणोपायो भवतोऽयं परिस्फुटः ॥ १३३ || 20 अस्त्यत्र हि गुहाद्वारे 'सुरङ्गभासुरप्रभा । गोधाऽनया समागत्य रसं पिबति सर्वदा ॥ १३४ ॥ आयाताया रसं पातुं तस्याः कूपेऽत्र शोभने । करेण पुच्छमादाय निर्गमस्ते भविष्यति ॥ १३५ ॥ प्रपायाद्य रसं गोधा स्वेच्छया कृतविश्रमा । जगाम प्रीतचेतस्का मन्दं मन्दं निजालयम् ॥१३६॥ रसमध्यस्थितस्यास्य नरस्यासुखकारिणः । चारुदत्तः प्रकुर्वाणस्तस्थौ धर्मोपदेशनम् ॥ १३७ ॥ अन्येद्युश्चारुदत्तोऽस्मै दत्त्वा पञ्चनमस्कृतिम् । गोधायाः पुच्छमादाय निर्गतोऽयं सुरङ्गया ॥ १३८॥ 23 यावद्विहाय तत्पुच्छं चारुदत्तो भुवस्तले । तावन्मूर्च्छा परिप्राप्तश्चिरात् स प्राप चेतनाम् ॥१३९॥ दृष्ट्वाऽमुं भीषणाकारो जरन्तं वनसंभवम्' । मारणार्थं समायातस्तीक्ष्णशृङ्गोऽद्रिसन्निभः ॥ १४० ॥ दृष्ट्वा महिषमायातं भयवेपितविग्रहः । चारुदत्तः समारूढः समुत्तुङ्गं शिलातलम् ॥ १४१ ॥ यावच्छिलातलं सोऽपि विषाणाग्रेण दारुणः । भिनत्ति तावदागत्य गृहीतः शयुनाऽदयम् ॥ १४२॥ यावत् प्रवर्तते युद्धमनयोः क्रूरचेतसोः । तावच्छिलातलादाशु निःसृतोऽयं वनान्तरात् ॥ १४३ ॥ ३० अथ मातुलमित्रेण रुद्रदत्तेन सादरम् । भयवेपितसर्वाङ्गश्चारुदत्तो विलोकितः ॥ १४४ ॥ रुद्रदत्तः समादाय चारुदत्तं प्रयत्नतः । स्तोकं भाण्डं समुत्तीर्ण काण्डवेगां महानदीम् ॥ १४५ ॥ गिरिं टङ्कणनामानं तथा वेत्रवनं महत् । विषयं टङ्कणाभिख्यं प्रापतुस्तौ मुदाऽन्वितौ ॥ १४६ ॥
1 पफ युग्मम्, ज युगलम् 4 पफ कूपान्निसरो. 5 ज सुरुङ्ग 8 ज महिषमायान्तं.
Jain Education International
२२१
2 पफ कुलकम् ज कुलकमिदम्. 3 पफ त्रिकलम् ज त्रिकलमिदम्. 6 पफ चतुष्कुलकम् ज चतुष्कुलकमिदम् 7 [ जरन्तो वनसंभवः ].
For Private & Personal Use Only
10
15
www.jainelibrary.org