________________
२२०
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ९३.८१
अस्माकं तेन नो कार्यं सिद्धेनापि तपस्विनाम् । भवतः पक्षपातेन मयेदं परिभाषितम् ॥ ८१ ॥ परित्राजवचः श्रुत्वा धनलुब्धोऽभिनन्द्य तम् । वभाण विस्मितस्वान्तश्चारुदत्तः कुतूहली ॥ ८२ ॥ एवं कुरुष्व मे पूत पितृकल्प गुणाकर । येनाहं त्वत्प्रसादेन जीवामि सकुटुम्बकः ॥ ८३ ॥ अन्यदा तं समादाय तदुक्तेन भयावहम् । भीमाटवीं विवेशाशु स परिव्राट् प्रयत्नतः ॥ ८४ ॥ • तस्या न गणितं वेत्सि धातुपूर्वरसान्वितम् । महाबिलमगाधं च नानातिशयकारणम् ॥ ८५ ॥ कूटयचं मुखद्वारं प्रमाणं चास्य भासुरम् । अष्टार्धहस्तसन्मानं जनविस्मयकारणम् ॥ ८६ ॥ इदं प्राप्य परिव्राट् तं जगादोद्धुषिताङ्गकः । एतद्रसबिलं पुत्र कोविदाश्चर्यहेतुकम् ॥ ८७ ॥ विद्यते स रसो यत्र स्वमनोवाञ्छितप्रदः । दारिद्रकन्दनिर्नाशो नराणां करमागतः ॥ ८८ ॥ अतः पुत्र विश क्षिप्रं निर्भयः प्रीतमानसः । चारुदत्तः प्रविश्येदं तीरमात्रं वितिष्ठते ॥ ८९ ॥ " यावद्रसं स गृह्णाति तत्रत्यं स वणिक्पतिः । तावन्मनुष्यनादेन निषिद्धोऽयं रसं प्रति ॥ ९० ॥ श्रुत्वा तन्निनदं तत्र चारुदत्तो बभाण तम् । गृह्णन्तं मां रसं वाचा कुतो वारयसि द्रुतम् ॥९१॥ तद्वाक्यतो जगादेमं मनुष्योऽहं प्रधिस्थितः । कोऽसि त्वं वद मे भद्र रसच्छेदमिमं श्रितः ॥ ९२ ॥ मनुष्य चारुदत्तोऽहं चम्पापुरवणिक्पतिः । रसार्थमत्र संविष्टः परिव्राजकशासनात् ॥ ९३ ॥ चारुदत्त्वचः श्रुत्वा स नरो निजगावमुम् । यथा न शोभनं भद्र विहितं भवता शृणु ॥ ९४ ॥ " यत्परिव्राजकोक्तेन प्रविष्टोऽत्र रसालये । एष धूर्तः खलः पापो महापुरुषवञ्चकः ॥ ९५ ॥
अहं भाण्डं समादाय श्रीमदुज्जयनीपुरः । गतोऽरं सिंहलद्वीपं वाणिजो धनतृष्णया ॥ ९६ ॥ ततो निवर्तमानः सन् भिन्नबोधिस्थकः पुनः । क्रमेण पर्यटन् देशे प्राप्तो राजगृहं पुरम् ॥ ९७ ॥ पुत्रं वा पालयित्वा मां दिनानि कतिचित्पुनः । धनाशां दर्शयित्वा च विष्णुदत्ततपखिना ॥९८॥ रज्वा च सिक्वकं बद्धा हस्ते दत्त्वा स तुम्बकम् | सिक्के मां समारोप्य चिक्षेप रसकूपके ॥९९॥ " रसेन तुम्बकं भृत्वा मया चास्य समर्पितम् । रसमध्ये हि मां हित्वा गृहीत्वा तद्गृहं गतः ॥ १०० ॥ निक्षिप्तोऽहं यथाऽनेन रसमध्ये दुरात्मना । तथा नरसहस्राणि निक्षिप्तानि मृतानि च ॥ १०१ ॥ तेषां सृतनराणां च रसकूपो भृतोस्थितिः । सांप्रतं तव संप्राप्ता परिपाटी नरोत्तम ॥ १०२ ॥ रसतृष्णां विहायाशु समुत्तीर्य रसधेः । सुखेन जीवनं साधो कुर्वन्यत्र क्वचित्पुनः ॥ १०३ ॥ परिवाद् ते रसं प्राप्य भवन्तमपि निश्चितम् । दुष्टचित्तो दुराचारो रसकूपे प्रमोक्ष्यति ॥ १०४ ॥ * रसमध्येऽमुना क्षिप्तो नष्टशोणितकैकसः । मरणं यास्यसि क्षिप्रं तस्मात् कुरु पलायनम् ॥१०५॥ निशम्य तद्वचः सत्यं परिणामहितं तराम् । चारुदत्तो वभाणैतं भयवेपितविग्रहः ॥ १०६ ॥ इमं तपस्विनं दुष्टं नरनागवधोद्यतम् । प्राहिणोमि निजं वेश्म सोपसर्गं करिष्यति ॥ १०७ ॥ तेनेदं तुम्बकं भद्र रसपूर्ण प्रदेहि मे । येनोपायं विधास्यामि नूनमस्य पलायने ॥ १०८ ॥ तेन तद्वचनात्तूर्णं तुम्बकं रससंभृतम् । दत्तं कृपावता तस्मै सता तद्धितमिच्छता ॥ १०९ ॥ • तेनापि चारुदत्तेन सा वरत्राशु चालिता । रसतुम्बं समादाय स तपस्वी गृहं ययौ ॥ ११० ॥ प्रत्याख्यानं समादाय सावलम्बं स धीरधीः । स्मरन् हृदि तरां भक्त्या शरणोत्तममङ्गलम् ॥ १११ ॥ कृताञ्जलिपुटः के च समाधिमरणोद्यतः । चारुदत्तः सुखं तत्र तस्थौ मुदितमानसः ॥ ११२ ॥ अथोक्तश्चारुदत्तेन रसमध्यस्थितो नरः । यथा मम त्वया दत्तं पतितस्यात्र जीवनम् ॥ ११३ ॥
3 [ भृतोऽस्थिभिः ]. 4 [ रसप्रधेः ].
1 पफ त्रिकलम् ज त्रिकलमिदम्. 2 पफ रसान्वितः 5 पफ कुलकम् ज कुलकमिदम् 6 पफ युग्मम् ज युगलमिदम् 7 पफ युग्मम्, ज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org