________________
-९३.८० ] चारुदत्तकथानकम्
२१९ तथा समस्तरुच्यानि मित्रवत्याः स्वयोषितः । आनीतानि नरैरस्याश्चारुदत्तनिदेशतः ॥४८॥ मित्रवत्याः स्वरुच्यानि समस्तानि विलोक्य सा । जगौ कलिङ्गसेनेयं स्वसुतां पुरतः स्थिताम् ॥४९॥ निर्धाट्यतामयं पुत्रि चारुदत्तो धनोज्झितः । अधुना सधनः कोऽपि गृह्यतामत्र पत्तने ॥ ५० ॥ एवमुक्त्वा तकां सा च जनन्या धनगृद्धया । तत्प्रेमरागतः पुत्री चारुदत्तं न मुञ्चति ॥५१॥ भूयोऽपि सा सुतां प्राह चारुदत्तपरायणाम् । अस्मत्कुलसमायातं शुभाक्षि तमिदं शृणु ॥५२॥ । त्वं बाला विद्धकर्णाऽसि मुग्धभावा तनूदरि । धनलोभपरित्यक्ता चास्मच्छास्त्रपराङ्मुखी ॥ ५३॥ स नरो वल्लभोऽस्माकं दाता बहुधनस्तराम् । निर्धनस्तु परित्याज्यः कुलजोऽपि सुरूपवान् ॥ ५४॥ किं न दृष्टा त्वया भद्रे यथा गण्डकगण्डिका । गृहीतरससर्वस्वा मुच्यते निखिलैर्जनैः॥ ५५ ॥ एवमुक्ताऽपि सा पुत्री यदा मुञ्चति नादरम् । एकस्यां निशि तं गीतैराभाणककहाणकैः ॥ ५६ ॥ कथाभिश्च विचित्राभिः प्रहेलाभिः समन्ततः । कृत्वा निद्रालुकं तत्र शय्यायां शयितं मुदा ॥ ५७॥" सुचेटीभिः प्रयत्नेन मोचयामास चत्वरे । निद्रान्तेऽथ तथा वीक्ष्य यातायातं जनं घनम् ॥५८॥ कृतस्य कर्मणश्चक्रेऽनुशयं च तदा बहु । मा स्म भूया जनः कोऽपि मादृक्षो गतचेतनः ॥ ५९॥ जैनो भूत्वा य ईदृक्षमाचारं कुरुते तराम् । दर्शयामीह लोकस्य कथमेतद् गतक्रियः ॥ ६० ॥ वक्रमावृत्य वस्त्रेण जगाम स्वगृहं ततः । चारुदत्तो तदा माता पूजां चक्रेऽस्य सादरम् ॥ ६१॥ विनष्टगृहविस्तारो मरणेन पितुस्तराम् । मातुः शोकेन मूढात्मा शुष्काखिलशरीरकः ॥ ६२॥ भार्यालङ्कारसंघातं सुवर्णमणिनिर्मितम् । समातुलः समादाय निर्गत्य निजमन्दिरात् ॥ ६३॥ उत्कालाख्यमहादेशे गिरावर्त पुरं महत् । चारुदत्तो वणिज्यायै जगाम धनसंकुलम् ॥ ६४ ॥ गृहीत्वा तत्र कसं बहुं बहुधनेन सः । सार्थेन सह सार्थेन स ययौ तामलिप्तिकाम् ॥६५॥ व्रजतस्तामलिप्तान्ते चारुदत्तस्य तत्समम् । कासः सकलो दग्धस्तदा वनदवाग्निना ॥६६॥ मातुलं तत्र हित्वाऽसावश्वमारुह्य सत्वरम् । एकाकी प्रस्थितो गन्तुं तदा पौरन्दरी दिशम् ॥ ६७॥" ततोऽपि गच्छतस्तस्य कुहिण्यां स तुरङ्गमः । प्रयातः पञ्चतां हित्वा तं हरिं स ययावतः ॥६८॥ आदित्योदयसामीप्ये विश्रम्य श्रमहानये । प्रियङ्गुनगरं प्राप चारुदत्तो मनोहरम् ॥ ६९॥ दृष्टः सुरेन्द्रदत्तेन प्रियमित्रेण तत्र च । नीतः स्वमन्दिरं सोऽपि संभ्रमान्वितचेतसः॥ ७० ॥ दिनानि कतिचित् तत्र भुञ्जानो भोगसंपदम् । ततो दुःखपरित्यक्तश्चारुदत्तः स्थितस्तदा ॥ ७१॥ ततः सुरेन्द्रदत्तेन ध्रियमाणो धनाशया । आरूढश्च सहानेन बोधिस्थे ध्वजराजिते ॥ ७२॥ यवनाख्यं महाद्वीपं मनोनयनसुन्दरम् । चारुवस्तुसमाकीर्णं चारुदत्तो ययावमुम् ॥ ७३ ॥ द्वीपाद् द्वीपान्तरं गच्छन् पत्तनात् पत्तनान्तरम् । षड्वारान् भिन्नबोधिस्थश्चारुदत्तो बभूव सः ॥७॥ सकः सप्तमवेलायामष्टौ स्वर्णस्य कोटिकाः । प्राप्य बोधिस्थमारोप्य संमग्नो वारिधौ पुनः ॥७५ ॥ ततोऽसावायुषः शेषे बोधिस्थफलकं तदा । प्राप्य तस्मिन् समारुह्य सिन्धुसागरमाययौ ॥ ७६ ॥ ततः समुद्रमुत्तीर्य विषयं सिन्धुपूर्वकम् । अतिक्रम्य श्रमी प्राप पुरं राजगृहं सकः ॥ ७७ ॥ ॥ परिव्राट् विद्यतेऽत्रैकस्तेन नीतो निजं गृहम् । स्तितवांश्चारुदत्तोऽपि तन्नीडे दिनपञ्चकम् ॥ ७८॥ अन्यदा तं परिव्राजो नीत्वैकान्ते जगाविदम् । रसकूपः पुराभ्याशे विद्यतेऽतिशयान्वितः ॥ ७९ ॥ अतो रसं समादाय ते ददामि महामते । येन दारिद्रतो मुक्तः सुखं जीवसि बालकः ॥ ८०॥
1 पफ निदेशितः. 2 ज सुभाषितमिदं शृणु. 3 ज ततो. 4 पफ त्रिकलम्, ज त्रिकलमिदम्. 5 पफ युग्मम् , ज युगलमिदम्. 6 [बालक ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org