________________
२१८ हरिषेणाचार्यकृते बृहत्कथाकोशे
[९३. १४दृष्ट्वा विद्याधरं तत्र चारुदत्तो जगाविदम् । कुतो दुःखमिदं मित्र प्राप्तोऽसि साधु मे वद ॥१४॥ श्रुत्वा तद्वचनं खेटो बभाणेमं ससंभ्रमम् । लोहकीलानिमान् क्षिप्रमुत्पाटय मदङ्गतः ॥१५॥ ततोऽत्र फरखड्ङ्गे च तिस्रो वीर्यसमन्विताः । ऊषधि पीषयत्वैता देहि मे व्रणगहरे ॥१६॥ ततोऽपनीय तान् कीलान् चारुदत्तः कृपाधीः । पीषयित्वौषधीरेतास्तद्वणे प्रददौ तदा ॥१७॥ । एवं कृते समुत्थाय खेचरो गतवेदनः । सफरं खड्गमादाय जगामाशु प्रियान्तिकम् ॥ १८॥
विटखेटान् समादाय स्खभायाँ परमाहवे । चारुदत्तान्तिकं प्राप्य जगादेति स खेचरः॥ १९॥ विजयाधमहीध्रस्य दक्षिणस्यां दिशि स्थितम् । वयस्य पत्तनं कान्तं विद्यते शिवमन्दिरम् ॥ २०॥ विद्यते तत्र भूपालः कौशिको नाम विश्रुतः । अमितादिगतिर्दक्षस्तस्याहं मित्र नन्दनः ॥ २१ ॥
गोरमुण्डो मतः पूर्वो धूमसिंहस्तथा परः । वयस्यौ द्वाविमौ स्यातां मम स्नेहपरायणौ ॥ २२ ॥ " आभ्यां सह विनीताभ्यां रममाणो निजेच्छया । नानातरुसमाकीर्णं हीमन्तं पर्वतं गतः ॥ २३॥ हिरण्यरोमनामाऽऽस्ते तापसस्तत्र शोभनः । हिरण्यतापसी तस्य तत्सुता सुकुमारिका ॥ २४ ॥ दृष्ट्वा तां शोभनाकारां तत्रत्यां रतिविभ्रमाम् । मन्मथस्य शरैर्विद्धो मित्राहं गृहमागतः ॥२५॥ मद्वयस्यैः पुनः सा च किंवदन्ती निवेदिता । मदुःखकारणोद्भूता मजनेभ्यो विषादिभिः ॥२६॥
मजनैर्भूपतेर्वार्ता कथिता सा परिस्फुटा । मन्निमित्तं वरा कन्या याचिता भूभुजा तदा ॥ २७॥ 15 हिरण्यरोमकन्या सा नामतः सुकुमारिका । परिणीता मया मित्र तूर्यमङ्गलनिस्वनैः ॥ २८ ॥ रममाणोऽनया सार्धं विधातुं रमणं भुवि । इमं प्रदेशमायातो रमणीयमनोकुहैः ॥ २९॥ मृगयन् धूमसिंहोऽपि मच्छिद्रं हि दिवानिशम् । तिष्ठतीच्छन्मदत्रस्तो मत्प्रियां सुकुमारिकाम् ॥३०॥ उद्यानेऽत्र मनःकान्ते क्रीडन्तं मां विलोक्य सः। अनया भार्यया साधं धूमसिंहो रुपं ययौ ॥३१॥
कीलकैः कीलयित्वा मां वृक्षाग्रे पूर्ववैरिकः । धूमसिंहः समादाय मत्प्रियां खमतं ययौ ॥ ३२ ॥ 20 इदानीं मोचितो भद्र त्वयाऽहं बन्धनादरम् । क्रोधेन तं परिप्राप्य प्रियामादाय चागतः ॥३३॥
सांप्रतं त्वं परं मित्र ततोऽहं तव सज्जन । भद्राज्ञां देहि मे सारां तुष्टः किं करवाणि ते ॥ ३४॥ विद्याधरवचः श्रुत्वा चारुदत्तो जगावमुम् । त्वद्दर्शनं हि मे दानं मित्र गृह्णामि नापरम् ॥ ३५ ॥ . निशम्य तद्वचो दीनं खेचरः प्रीतमानसः । ययौ निजपुरं हृष्टश्चारुदत्तविसर्जितः ॥ ३६॥ .
नानाशास्त्रकृताभ्यासो जिनधर्मपरायणः । चारुदत्तोऽपि संप्राप क्रमेण नवयौवनम् ॥ ३७॥ 3 अथ सर्वार्थनामाऽभूचम्पायां पुरि वाणिजः । धनधान्यसमायुक्तः सुभद्रायाः सहोदरः ॥ ३८॥ बभूवास्य सुमित्राख्या रमणी लोललोचना । अनयो रूपसंपन्ना सुता मित्रवती परा ॥ ३९ ॥ पितृदत्ता खकन्येयं चारुदत्तेन सुन्दरी । परिणीता विधानेन तूर्यमङ्गलनिस्वनैः ॥४०॥ ततोऽनया समं भोगान् भोक्तुं कामं च रूपया । महावैराग्यसंपन्नश्चारुदत्तो न वाञ्छति ॥४१॥ धर्मासक्तमतिर्नित्यं कलाविज्ञानकोविदः । सुभानुगणिकासंगाज्जातोऽयं शिथिलस्तराम् ॥ ४२ ॥ ॥ अस्यामेव धनाढ्यायां चम्पायां पुरि कुट्टिनी । आसीत् कलिङ्गसेनाख्या गणिका स्वार्थतत्परा ॥४३॥ रूपयौवनसंपन्ना विषाणदललोचना । सुता वसन्तसेनाख्या बभूवास्याः कलस्वना ॥४४॥ द्यूतेन मद्यपानेन पुष्पताम्बूलयोगतः । विटगोष्ठीप्रसंगेन पिशिताशनकेन च ॥४५॥ अनया सह सक्तेन चित्तचोरणदक्षया । हावभावविलासिन्या विभ्रमान्वितयाऽपि च ॥४६॥ नूनं द्वादशभिर्वश्चारुदत्तेन तत्पुरे । निजाः षोडशकोठ्योऽपि कनकस्य विनाशिताः ॥ ४७॥
. 1 [ओषधीः]. 2 ज सुकुमालिकाम्. 3 पफ कुलकम् , ज कुलकमिदम्. 4 पफ त्रिकलम् , जत्रिकलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org