________________
२१७
-१३. १३ ]
चारुदत्तकथानकम्
९२. त्रिविक्रमकथानकम् । तरिमन्नेव पुरे विप्रो बभूवायं त्रिविक्रमः । गच्छन् महावने भीमे व्याघेणासौ विलोकितः ॥१॥ धावन् व्याघ्रभयात् कक्षे वेपमानशरीरकः । पपात जीर्णकूपेऽसौ रक्षाहीनस्त्रिविक्रमः॥२॥ पतताऽनेन कूपेऽस्मिन् वेपिना पुण्डरीकतः । गृहीतः पाणिना क्षिप्रं 'शरस्तम्बस्तटस्थितः ॥३॥ हस्तद्वयेन तं बाढं गृहीत्वा कूपमध्यगः । स नरो वेपमानोऽरं लम्बमानोऽवतिष्ठते ॥४॥ तावद्व्याघ्रोऽपि संप्राप्तस्तरूढस्थो रसन् खरम् । तत्रत्यं तं नरं तस्थौ स्पृशन् पादनखाङ्कुरैः॥५॥ शक्नोति तं नरं नायं ग्रहीतुं बलवानपि । तदानीं स शरस्तम्बं चचाल पदयोगतः ॥६॥ तत्रत्यं मधुजालं च चलितं तत्पदाहतम् । तस्मिन् प्रचलिते तूर्णं चलितं सकलं मधु ॥७॥ चमूरं पश्यतस्तत्र तन्नरस्योर्ध्ववक्रकम् । मुखे पतति तद्विन्दुरेकैको मधुरस्तदा ॥ ८॥ मधुबिन्दुं पतन्तमाखादयति वक्रगम् । तन्मक्षिकागणैस्तत्र खाद्यमानो वितिष्ठते ॥ ९॥ तन्मूलेऽपि द्विधा नूनं क्रियमाणेऽत्र मूषकैः । दिक्षु सर्वासु रक्ताक्षाः सन्ति सर्वा भयानकाः ॥१०॥ गृहीतेऽपि पदद्वन्द्वे शयुना स नरस्तदा । मधुबिन्दुसुखं दिव्यं मन्यमानो वितिष्ठते ॥११॥ एवं जीवन्नरो लोके मृत्युव्याघ्रण भीषितः । आजवंजवकूपेऽस्मिन् पतितः स वितिष्ठते ॥ १२ ॥ स जीवितशरस्तम्बे लम्बमानः स भक्षितः । दुःखं माक्षिकसंलग्नमाक्षिकानिकरैरपि ॥ १३ ॥ क्रोधमानाद्यहिवातजिह्वाभिर्वेपिताङ्गकः । गृहीतश्चरणे बाढं नरकाजगरेण तु ॥ १४॥ अक्षिमाक्षिकसंसारं मन्यमानो नराधमः । परलोकसुखे दिव्ये निरपेक्षः प्रतिष्ठते ॥ १५॥ ॥ इति श्रीसंसाराल्पसुखबहुमन्यमानत्रिविक्रमाख्यानकथानकमिदम् ॥१२॥
॥
९३. चारुदत्तकथानकम् । अङ्गकाख्यजनान्तेऽस्ति चम्पाऽऽख्या नगरी परा । शूरसेनो नृपस्तस्यां शूरसेनाऽस्य कामिनी ॥१॥ विद्यते तत्पुरश्रेष्ठी भानुनाम महाधनः । सुभद्रा कामिनी चास्य सुरदेवीसमप्रभा ॥२॥ ॥ सा पुनः पुत्रहीना हि दुःखपीडितमानसा । सर्वदा पुत्रमिच्छन्ती सुभद्राख्या वितिष्ठते ॥३॥ अन्यदा मन्दिरे जैने प्रोत्तुङ्गे स्थितया तया । एको विलोकितो योगी चारणस्तपसां निधिः ॥४॥ मुनिमत्र प्रणम्यैषा भक्तितः पुरतः स्थिता । जन्मन्यत्र सुतो नाथ विद्यते वा न वा वद ॥ ५॥ निशम्य वचनं तस्या जगादैतां यतीश्वरः । स्तोकैर्दिनैः प्रधानोऽयं नन्दनस्ते भविष्यति ॥६॥ कृत्वाऽऽदेशमिमं तस्या जिनं नत्वाऽतिभक्तितः । जगाम स्वमतं साधुश्चारणः सुरवर्त्मना ॥ ७॥ 25 ततो भानुसुभद्राभ्यां कालेन कियताऽपि च । पुत्रो मनोरमो जातश्चारुदत्ताभिधानकः॥८॥ हरिसिंहस्तथा चान्यो मरुभूतिर्वराहकः । गोमुखः सन्ति चत्वारो वयस्यास्तस्य शोभनाः॥९॥ रन्तुमेभिः समं क्वापि चारुदत्तो विनिर्गतः । पुलिने रत्नमाल्या हि पदमेकं ददर्श सः ॥१०॥ विलोक्येदं पदं तत्र बभाणैतान् पुरःस्थितान् । पदमेतन्न साधूनां विद्याधरपदं त्विदम् ॥११॥ विज्ञाय तत्पदं सोऽपि सकलत्रोत्र खेचरः । विद्यते तत्पदाभ्याशे जगाम त्वरयान्वितः ॥१२॥" कदलीगृहवृक्षाग्रे कीलितं लोहकीलकैः । चारुदत्तो ददर्शकं खेटं निश्चललोचनम् ॥ १३॥
1 पफ सरस्तम्बतट'. 2 [पतन्तं तमा]. 3 ज स भिक्षितः. 4 पफ कुलकम् , ज कुलकमिदम्. 5ज त्रिविक्रमाख्यानकमिदम्. 6 पफ पुत्रमिच्छन्ति.
बृ० को० २८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org